6-1-130 ई चाक्रवर्मणस्य संहितायाम् प्रकृत्या अचि नित्यम् अप्लुतवत्
ई3 अचि अप्लुतवत् - चाक्रवर्मणस्य
चाक्रवर्मणस्य मतेन प्लुतः ईकारः संहितायाम् अचि परे अप्लुतवत् भवति ।
According to चाक्रवर्मण, the प्लुतः ईकारः behaves as if it is not प्लुत when followed by an अच्-letter in the context of संहिता.
ई३कारः प्लुतोऽचि परतश्चाक्रवर्मणस्याचार्यस्य मतेनाप्लुतवद् भवति। अस्तु हीत्यब्रूताम्। अस्ति हि३ इत्यब्रूताम्। चिनु हीदम्। चिनु हि३ इदम्। चाक्रवर्मणग्रहणं विकल्पार्थम्, तदुपस्थिते निवृत्त्यर्थम् अनुपस्थिते प्राप्त्यर्थमित्युभयत्रविभाषेयम्। ईकारादन्यत्राप्ययमप्लुतवद्भाव इष्यते। वशा३ इयं वशेयम्॥
ई3 प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही3 इति । चिनुहीति । चिनुही3 इदम् । चिनु हीदम् । उभयत्रविभाषेयम् ॥
प्लुत-ईकारात् संहितायाम् अच्-वर्णः अग्रे अस्ति चेत् चाक्रवर्मणस्य मतेन (इत्युक्ते, विकल्पेन) सः प्लुतः ईकारः अप्लुतवत् कार्यं करोति — इत्युक्ते तत्र <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन प्रकृतिभावः न विधीयते अपितु यथायोग्यं सन्धिकार्यम् भवति — इति अस्य सूत्रस्य आशयः ।यथा —
<<ई३ चाक्रवर्मणस्य>> - ई३चाक्र । ई३ इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देशः । उपस्थित #इत्यस्वरितत्वान्निवृत्तम् ।अप्लुतव॑दित्यनुवर्तते ।इको यणची॑त्यतोऽचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकारोऽचि परेऽप्लुतवद्भवति, नत्वन्यमत इत्यर्थः । तदाह-प्लुतोऽचीत्यादि । चिनु हि३ इदमिति ।किं मया कर्तव्य॑मिति पृष्टस्यैदं प्रतिवचनम् ।चिन्वि॑ति लोडन्तम् ।उतश्च प्रत्यया॑दिति हेर्लुक् ।हीति त्वव्ययम् ।विभाषा पृष्टप्रतिवचने हेः॑ इति तस्य प्लुतः । चिन्वित्यतः प्राग्देवदत्ते॑त्यध्याहार्यम् ।इद॑मिति तु वाक्यान्तरस्थं, नतु चिन्वित्येतेनैकवाक्यतामापन्नम् । अन्यथावाक्यस्य टे॑रित्यधिकाराद्धिशब्दे इकारस्य प्लुतो न स्यात् । उभयत्रेति । इतिशब्दे परतो नित्यतया प्राप्ते, तदन्यत्राऽप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थः । विभाषाशब्दस्त्वव्ययमिति न ब्रामतिव्यं,न वेति विभाषाया॑मिति भाष्यप्रयोगात् । विभाष्यते विकल्प्यत इति विभाषा । 'गुरोश्च हल' इत्यप्रत्ययः । टाप् ।
सूत्रे ई चेति त्रिमात्रिकस्य निर्द्देशः। अचि परत इति। उपस्थितग्रहणं चास्वरितत्वान्निवृतम्। अस्तु ही3 इत्यब्रूतामिति।'विभाषा पृष्टप्रतिवचने हेः' इति प्लतः, अस्तेर्लोटि तिप्, ठेरुःऽ। तदुपस्थिते निवृत्यर्थमिति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यप्राप्तत्वात्, अनुपस्थिते प्राप्त्यर्थमिति, तत्र केनचिदप्राप्तत्वात्। ईकारादन्यत्रापीति। तथा च भाष्यम् -ठीकारग्रहणेन नार्थःऽ इत्यादि ॥