एतत्तदोः सुलोपोऽकोरनञ्समासे हलि

6-1-132 एतत्तदोः सुलोपः अकः अनञ् समासे हलि संहितायाम्

Sampurna sutra

Up

अनञ्समासे - अकोः एतद्-तदोः हलि सुँलोपः

Neelesh Sanskrit Brief

Up

नञ्-समासं विहाय अन्यत्र ककारविहीनात् एतद्/तद्-शब्दात् परस्य सुँ-प्रत्ययस्य व्यञ्जने परे संहितायाः विषये लोपः भवति ।

Neelesh English Brief

Up

Except for the नञ् समास, when a form of एतद्/तद् word which does not contain a ककार is followed by a सुँ-प्रत्यय which in turn is followed by a व्यञ्जन. the सुँ-प्रत्यय gets removed in the context of संहिता.

Kashika

Up

एतत्तदौ यावककारौ नञ्समासे न वर्तते तयोर्यः सुशब्दः, कश्च तयोः सुशब्दः ? यस्तदर्थेन संबद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति। एष ददाति। स ददाति। एष भुङ्क्ते। स भुङ्क्ते। एतत्तदोरिति किम् ? यो ददाति। यो भुङ्क्ते। सुग्रहणं किम् ? एतौ गावौ चरतः। अकोरिति किम् ? एषको ददाति। सको ददाति। <<तन्मध्यपतितस्तद्ग्रहणेन गृह्यते>> इति रूपभेदेऽपि साकच्कावेतत्तदावेव भवतः। अनञ्समास इति किम् ? अनेषो ददाति। असो ददाति। उत्तरपदार्थप्रधानत्वाद् नञ्समासस्यैतत्तदोरेवात्र संबद्धः सुशब्दः। हलीति किम् ? एषोऽत्र। सोऽत्र॥

Siddhanta Kaumudi

Up

अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असःशिवः । हलि किम् । एषोऽत्र ॥

Laghu Siddhanta Kaumudi

Up

अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम्? एषको रुद्रः। अनञ्समासे किम्? असः शिवः। हलि किम्? एषोऽत्र॥

Neelesh Sanskrit Detailed

Up

एतद् तथा तद् एतयोः शब्दयोः प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य हल्-वर्णे परे संहितायाम् लोपं कारयितुम् इदं सूत्रम् निर्मितम् अस्ति । केषुचन स्थलेषु एतादृशः लोपः न हि इष्यते, अतः 'अकोः' तथा 'अनञ्समासे' इति द्वौ निषेधौ अपि अस्मिन्नेव सूत्रे स्थापिते स्तः । यत्र एतद् / तद् शब्दः नञ्-समासे प्रयुज्यते, यत्र वा अयम् अकच्-प्रत्ययेन सह प्रयुज्यते, तादृशं प्रयोगं त्यक्त्वा अन्येषु प्रयोगेषु एताभ्याम् विहितस्य सुँ-प्रत्ययस्य संहितायाम् हल्-वर्णे परे लोपः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि पश्यामः - 1. नञ्-समासः / अकच्-प्रत्ययः नास्ति चेत् हल्-वर्णे परे सुँलोपः भवति । यथा, एतद् + सुँ + विष्णुः इत्यत्र एतद्-शब्दात् विहितस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । प्रक्रिया इयम् — एतद् + सुँ + विष्णुः → एसद् + सुँ + विष्णुः [<<तदोः सः सावनन्त्ययोः>> 7.2.106 इति तकारस्य सकारः] → एस अ + सुँ + विष्णुः [<<त्यदादीनामः>> 7.2.102 इति दकारस्य अकारः] → एस + सुँ + विष्णुः [<<अतो गुणे>> 6.1.97 इति गुण-एकादेशः पररूपः अकारः] → एस + विष्णुः [<<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> 6.1.132 इत्यनेन सुँ-प्रत्ययस्य लोपः] → एष विष्णुः [<<आदेशप्रत्ययोः>> 8.3.59 इति षत्वम्] एवमेव तद् + सुँ + शम्भुः इत्यत्रापि सुँ-प्रत्ययस्य लोपं कृत्वा स शम्भुः इति प्रयोगः सिद्ध्यति । 2. नञ्-समासे प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते । इत्युक्ते, यदि एतद् / तद् - शब्दः नञ्-समासस्य घटकः अस्ति तर्हि अपि अनेन सूत्रेण सुँ-प्रत्ययस्य लोपः न भवति । यथा - अनेषः ददाति इत्यस्य प्रक्रियायाम् नञ् + एतद् + सुँ + ददाति इति स्थितिः वर्तते । अत्र एतद्-शब्दस्य नञ्-शब्देन सह नञ्-समासः क्रियमाणः अस्ति ।अस्यां स्थितौ प्रकृतसूत्रेण अत्र सुँलोपः न सम्भवति । एवमेव, नञ् + तद् + सुँ शिवः इत्यत्र अपि प्रकृतसूत्रम् विना, सुँ-प्रत्ययस्य विसर्गे, सत्वे, श्चुत्वे च कृते असश्शिवः इति प्रयोगः सिद्ध्यति । यत्र केवलम् 'न' अव्ययं प्रयुज्यते, नञ्-समासः नास्ति, तत्र तु इदम् सूत्रम् अवश्यमेव प्रयोक्तव्यम् । यथा, 'न एष ददाति' इत्यत्र यद्यपि 'न' इति अव्ययम् उपयुक्तं वर्तते, तथापि अस्य एतद्-शब्देन सह समासः नैव कृतः अस्ति, अतः अत्र एतद्-शब्दात् परस्य 'सुँ' प्रत्ययस्य हल्-वर्णे परे अवश्यं लोपः भवति । 3. अकच्-प्रत्ययेन सह प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते । अकच् इति कश्चन तद्धितप्रत्ययः <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> 5.3.71 अनेन सूत्रेण सर्वनामशब्देभ्यः स्वार्थे विधीयते । अस्य प्रत्ययस्य उपस्थितौ एतकद् / तकद् इति प्रातिपदिके सिद्ध्यतः अयं प्रत्ययः एतद्/तद्-शब्दयोः मध्ये प्रयुज्यते (न हि तयोः अन्ते), अतः <<तन्मध्यपतितस्दग्रहणेन गृह्यते>> इति परिभाषया प्रकृतसूत्रे विद्यमानेन एतद्/तद्-शब्देन अकच्-प्रत्यययुक्तस्य अपि शब्दस्य ग्रहणं भवति । अतः प्रकृतसूत्रेण उक्तः सुँलोपः एतयोः शब्दयोः प्रक्रियायाम् अपि प्राप्नोति । तादृशम् मा भूत् इति हेतुना अस्मिन् सूत्रे अकोः इति पदम् स्वीकृतम् अस्ति । अतएव एषको रुद्रः, सको ददाति इत्यादिषु प्रयोगेषु प्रकृतसूत्रेण सुँलोपः नैव क्रियते । बाध्यबाधकभावः प्रकृतसूत्रम् न हि कस्यचित् सूत्रस्य बाधकरूपेण प्रवर्तते । सामान्यरूपेण प्रक्रियायाम् सुँ-प्रत्ययस्य <<ससजुषो रुः>> 8.2.66 इति सूत्रेण रुँत्वम् भवति, परन्तु तत् रुत्वं त्रिपाद्यां विद्यते अतः प्रकृतसूत्रस्य कृते तद् असिद्धम् एव अस्ति । इत्युक्ते, तद् + सुँ + शम्भुः इत्यत्र अङ्गकार्यात् अनन्तरम् स + सुँ + शम्भुः इत्यस्यां स्थितौ रुत्वस्य असिद्धत्वात् प्रकृतसूत्रेणैव सुँलोपे कृते स शम्भुः इति रूपं सिद्ध्यति ।

Balamanorama

Up

<<सम्परिभ्यां (॰पर्युपेभ्यः) करोतौ भूषणे>> - संपरिभ्याम् ।

Padamanjari

Up

एतेन ठेततदोःऽ इति सुशब्दापेक्षया सम्बन्धलक्षणा षष्ठीत्याचष्टे। यद्येवम्, सु इत्येतस्य सापेक्षत्वाल्लोपशब्देन समासो न प्राप्नोति ? नैवायं समासः, सु इति पृथक्पदम्'सुपां सुलुक्' इति लुप्तष्ठीकम्। कश्च तयोः सुशब्द इति। यदि यस्ताभ्यां विहितः सुः स तयोः सम्बन्धी भवति, तदा परमस ददाति, परमैष ददातीत्यादो न स्यादिति मन्यमानः पृच्छति। इतरो विदिताभिप्रायः परिहति-यस्तदर्थेन सम्बद्ध इति। अर्थद्वारकश्च सम्बनधः, यस्तदर्थगतमेकत्वमाचष्ट इत्यर्थः। परमस ददातीत्यादावपि उतरपदार्थप्रधानत्वातदर्थगतमेवैकत्वमाचष्ट इति सिद्धो लोपः। प्रथमैकवचनस्यात्र सुशब्दस्य ग्रहणम्, न सप्तमीबहुवचनस्य।'स्यश्च्छन्दसि' 'सो' चि लोपे चेत्पादपूर्णम्ऽ इत्यत्र ह्यस्यैव सम्भवः। द्वयोः सामान्येन ग्रहणं तर्हि कस्मान्न भवति? एवं तर्हि'निरनुबन्धकग्रहणे न सानुबनधकस्य' इति प्रथमैकवचनस्यैव ग्रहणम्, तस्य ह्युकार उच्चारणार्थः, नानुबन्धः। एष इति।'तदोः स सावनन्त्ययोः' इति सकारः, त्यदाद्यत्वम्, षत्वम्। एषक इति। ठव्यसर्वनाम्नामकच् प्राक् टेःऽ इत्यकच् । ननु रूपभेदात्साकच्कावेततदावेव न भवतः, तत्किम् ठकोःऽ इति प्रतिषेधेन ? तत्राह - तन्मध्यपतितीति। अस्याश्च परिभाषाया अस्तित्वे अयमेव प्रतिषेधो लिङ्गम् । उतरपदार्थप्रधानत्वादिति। एतच्च नञ्सूत्र एव व्याख्यातम्।'हल्ङ्याब्भ्यः' इत्यस्यानन्तरमिदं न कृतम् - संहितायां यथा स्यात्, असंहितायां मा भूदिति ॥