तित्स्वरितम्

6-1-185 तित् स्वरितम् अन्तः उदात्तः नाम् अन्यतरस्याम्

Sampurna sutra

Up

तित् स्वरितम्

Neelesh Sanskrit Brief

Up

तित् प्रत्ययस्य आदिस्वरः स्वरितः भवति ।

Neelesh English Brief

Up

The first स्वर of a तित् प्रत्यय becomes स्वरित.

Kashika

Up

तित् स्वरितं भवति। सन्नन्ताद् यत् — चि॒की॒र्ष्य॑म्। जि॒ही॒र्ष्य॑म्। <<ऋहलोर्ण्यत्>> ३.१.१२४ — का॒र्य॑म्। हा॒र्य॑म्। प्रत्ययाद्युदात्तस्यापवादः॥

Siddhanta Kaumudi

Up

निगदव्याख्यातम् । क्वनूनम् (क्व॑नू॒नम्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यस्मिन् प्रत्यये तकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'तित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशस्य तित्-प्रत्ययस्य स्वरः स्वरितसंज्ञकः भवति । 1. पठ् + तव्यत् → पठि॑तव्य । अत्र 'तव्यत्' अयम् 'तित्' प्रत्ययः अस्ति, अतः अत्र प्रत्ययस्य आदिस्वरः तकारात् परः अकारः स्वरितः जायते । 2. किम् + अत् → क्व ॑ । अत्र 'अत्' अयम् 'तित्' प्रत्ययः अस्ति, अतः प्रत्ययस्य आदिस्वरः अकारः अत्र स्वरितः जायते । (विशेषः - वस्तुतः 'अत्' इति विभक्तिंसंज्ञकः प्रत्ययः अस्ति, अतः <<न विभक्तौ तुस्माः>> 1.3.4 इत्यनेन तकारस्य इत्संज्ञा न भवितुमर्हति । परन्तु <<न विभक्तौ तुस्माः>> 1.3.4 एतत् सूत्रम् 'अनित्यम्' अस्ति, अतः तकारस्य अत्र इत्संज्ञा क्रियते ।) ज्ञातव्यम् - <<आद्युदात्तश्च>> 3.1.3 अनेन सूत्रेण प्रत्ययस्य आदिस्थः स्वरः उदात्तत्वं प्राप्नोति । तस्य अपवादत्वेन तित्-प्रत्ययस्य विषये अयं स्वरः स्वरितः जायते ।

Balamanorama

Up

Padamanjari

Up

इह कस्मान्न भवति ठृत इद्धातोःऽ आस्तीर्णम्, विस्तीर्णम्, तत्कालग्रहणार्थतया चरितार्थत्वादिति चेत् ? न; अनेकप्रयोजनदर्शनादनुबन्धानाम्। तद्यथा आक्षिक इत्यादौ ठकि सति स्वरो वृद्धिश्च भवति। एवं नर्हि नायमिकारस्तपरः, किं तर्हि? दपरः। यद्येवम्, ऋकारस्य स्थाने आन्तर्य्यतो दीर्घः प्राप्नोति ?'भाव्यमानो' ण् सवर्णान्न गृह्यातिऽ । इद्येवम्, ठदसोऽसेर्दादु दो मःऽ इमूभ्याम् दीर्घस्य स्थाने दीर्घो न स्यात् ? नैष दोषः ज्ञापितमेतत्'दिव उत्' ठृत उत्ऽ इति तपरकरणेन -भाव्यमानोऽप्युकारः सवर्णान् गृह्णातीति। तयोरेव तर्ह्युकारयोः स्वरितत्वप्रसङ्गः ? तावपि तहि न तपरौ, किं तर्हि ? दपरौ। कथं त'श्ह ज्ञापकम्?'तपरस्तत्कालस्य' इत्यत्र दकारोऽपि चर्त्वभूतोनिर्दिश्यते, ठणुदित्सवर्णस्य चाप्रत्ययस्तपरस्तत्कालस्यऽ इति, यदि दकारोऽपि निर्दिश्यते ठृदोरप्ऽ इत्यत्रापि दद्ग्रहणादिहैव, स्याद्यवः, स्तवः; लवः, पव इत्यत्र न स्यात्;'तादपि परस्तपरः' इति तादपि परस्य तपरत्वात्। एवं तर्हि ऋदोरप्ऽ इत्यत्र धकारो जश्त्वभूत उच्चारणार्थो निर्दिश्यते, तत्र जश्त्वस्यासिद्धत्वान्नायमृकारो दपरः। ये तु'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' इति परिभाषां पठन्ति, तेषाम् ठृत इद्धातोःऽ इत्यादौ सत्यपि तित्वेनास्य स्वरस्य प्रसङ्गः।'तपरस्तत्कालस्य' इत्यत्र दकारोऽपि न प्रश्लेष्टव्यः। तस्यास्तु परिभाषाया भाष्यवार्तिकयोहिर। अदर्शनादयं यत्नो महानस्माभिरादृतः ॥ तास्यनुदातेन्ङ्दिदुपदेशाल्लसार्वधातुकमनुदातमह्न्विङेः ॥