5-2-39 यत्तदेतेभ्यः परिमाणे वतुप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
'तत् अस्य' (इति) परिमाणे यत्-तत्-एतेभ्यः वतुँप्
'परिमाण' इत्यस्य विशेषणरूपेण प्रयुक्ताः ये 'यत्', 'तत्', 'एतद्' शब्दाः, तेभ्यः प्रथमासमर्थेभ्यः 'अस्य' इत्यस्मिन् अर्थे 'वतुप्' प्रत्ययः भवति ।
तदस्येत्येव। यत्तदेतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्योऽस्येति षष्ठ्यर्थे वतुप् प्रत्ययो भवति। यत् परिमाणमस्य यावान्। तावान्। एतावान्। प्रमाणग्रहणेऽनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात्।
डावतावर्थवैशेष्यान् निर्देशः पृथगुच्यते।
मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः॥
॥ वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्॥ न त्वावँा॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते (ऋ० ७.३२.२३)। त्वाव॑तः पुरूवसो (ऋ० ८.४६.१)। य॒ज्ञं विप्॑रस्य॒ माव॑तः (ऋ० १.१४२.२)। त्वत्सदृशस्य मत्सदृशस्येत्यर्थः॥
यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
'यत्', 'तत्' तथा 'एतत्' एतानि सर्वनामशब्दानि यत्र 'परिमाण' (= amount, quantity, magnitude) शब्दस्य 'उपाधिरूपेण' (विशेषणरूपेण) प्रयुज्यन्ते, तत्र तेभ्यः 'अस्य' अस्मिन् अर्थे वतुँप् प्रत्ययः भवति । यथा - 1) यत् परिमाणमस्य = यत् + वत् → यावत् । (till as much - इति सामान्यः अर्थः) । 2) तत् परिमाणमस्य = तत् + वत् → तावत् । (till that much - इति सामान्यः अर्थः) । 3) एतत् परिमाणमस्य = एतत् + वत् → एतावत् । (till this much - इति सामान्यः अर्थः) । 'यावत्' शब्दस्य निर्माणप्रक्रिया इयम् - यत् + वतुँप् → यत् + वत् [पकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । उँकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा । द्वयोः <<तस्य लोपः>> 1.3.9 इति लोपः] → या + वत् [<<आ सर्वनाम्नः>> 6.3.91 इत्यनेन वतुँप् प्रत्यये परे सर्वनामसंज्ञकशब्दस्य आकारादेशः । <<अलोऽन्त्यस्य>> 1.1.52 इति अन्त्यादेशः] → यावत् एवमेव तावत्, एतावत् एतौ शब्दौ सिद्ध्यतः । विशेषः - 1. 'यावत्', 'तावत्' , 'एतावत्' एतेषां रूपाणि त्रिषु लिङ्गेषु भवन्ति - अ) पुँल्लिगे - अस्य रूपाणि 'भवत्' शब्दवत् भवन्ति । यथा - 'यावान् , यावन्तौ, यावन्तः, यावन्तम्, यावन्तौ, यावतः' एतादृशम् भवन्ति । प्रथमैकवचनस्य प्रक्रिया इयम् - यावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → यावात् + सुँ [<<अत्वसन्तस्य चाधातोः>> 6.4.14 इति उपधादीर्घः] → यावान् त् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः] → यावान् त् [<<हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] → यावान् [<<संयोगान्तस्य लोपः>> 8.2.23 इति तकारलोपः] आ) स्त्रीलिङ्गे - 'यावत्' शब्दः स्त्रीत्वे विवक्षिते <<उगितश्च>> 4.1.6 इत्यनेन ङीप्-प्रत्ययः भवति, येन 'यावती' इति प्रातिपदिक सिद्ध्यति । अस्य रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - यावती यावत्यौ यावत्यः, यावतीम्, यावत्यौ, यावती । (इ) नपुंसकलिङ्गे - 'जगत्' शब्दवत् अस्य रूपाणि भवन्ति । यथा - यावत्, यावती, यावन्ति । अत्र जस्-शस्-प्रत्यययोः परयोः यद्यपि <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इत्यनेन नुमागमः भवितुमर्हति, तथापि तद् बाधित्वा विप्रतिषेधेन <<नपुंसकस्य झलचः>> 7.1.72 इत्यनेन पुनः नुमागमः एव विधीयते । 2. <<चादयोऽसत्वे>> 1.4.57 इत्यत्र निर्दिष्टे चादिगणे 'यावत्' तथा 'तावत्' एतौ शब्दौ पाठितौ स्तः । एतौ द्वौ अव्ययसंज्ञकौ शब्दौ वतुँप्-प्रत्ययान्तौ / तद्धितान्तौ न, एतयोः च वर्तमानसूत्रेण निर्देशः न क्रियते । The words यावत् and तावत् specified in the चादिगण are completely different than the words presented in this sutra. यथा - 'अहम् शालाम् यावत् गच्छामि' अस्मिन् वाक्ये अव्ययसंज्ञकस्य 'यावत्' शब्दस्य प्रयोगः क्रियते, न हि वतुँप्-प्रत्ययान्तस्य यावत्-शब्दस्य । वाक्येषु प्रयोगः - 1) त्वम् यावान् उन्नतः असि, तावान् अहमपि उन्नतः अस्मि । I am as tall as you are. 2) अस्य महिमा एतावान् । His greatness is this much. 3) यावती विद्या भवता ज्ञेया, तावती मया पूर्वमेव पाठिता । Whatever is appropriate for you to learn, I have already taught you that much. 4) सः सर्पः त्रिंशत् पादम् यावत् लम्बमानः अस्ति । That snake is thirty feet long. विशेषः - वस्तुतः अस्मिन् सूत्रे <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यस्मात् 'प्रमाण'शब्दस्य अनुवृत्तिः भवितुमर्हति । तथाप्यत्र सा अनुवृत्तिः न स्वीक्रियते, अपितु 'परिमाण' इत्यस्य विशिष्टरूपेण निर्देशः कृतः अस्ति । अतः 'कः भेदः प्रमाण-परिमाणयोः?' इति प्रश्नः अत्र उद्भवति । सामान्यतः तु द्वयोः शब्दयोः अर्थः समानः एव । परन्तु सूक्ष्मरूपेण चिन्तयामश्चेत् अस्य उत्तरार्थम् भाष्यकारः अस्मिन् विषये एकम् श्लोकवार्त्तिकम् पाठयति - 'ऊर्ध्वमानं किल उन्मानम्, परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्, सङ्ख्या भिन्ना तु सर्वतः' । अस्य अर्थः अयम् - ऊर्ध्वदिशि गृहीत्वा मापनम् येन क्रियते तत् 'उन्मान' नाम्ना ज्ञायते । (उन्मान is the unit of measurement of weight. The reference here is that the weighing balance is held vertically for measuring the weight.) । आयामस्य मापनं येन भवति तत् प्रमाणम् । (प्रमाण is used for measuring distance / height / depth etc) । 'परिमाण' अयम् शब्द तु सर्वेषाम् मापनानाम् विषये प्रयुज्यते, अतः तेन उन्मान-प्रमाणयोः अपि ग्रहणं भवति । The word परिमाण is used as a general term of measurement, which includes उन्मान as well as प्रमाण । अत्र किञ्चन वार्त्तिकम् ज्ञातव्यम् - <! वतुँप्-प्रकरणे युष्मद्-अस्मद्भ्याम् छन्दसि सादृश्ये उपसङ्ख्यानम् !> । इत्युक्ते, 'युष्मद्' तथा 'अस्मद्' शब्दाभ्याम् 'सादृश्यम्' अस्मिन् अर्थे वेदेषु वतुँप्-प्रत्ययः कृतः दृश्यते । यथा - अ) ऋग्वेदे 7.32.23 - 'न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ' । अत्र 'त्वावान्' अयम् शब्दः 'युष्मद् + वतुँप्' इत्यस्य प्रथमैकवचनमस्ति । अत्र वतुँप्-प्रत्ययः 'सदृशः' अस्मिन् अर्थे प्रयुक्तः दृश्यते - 'त्वावान्' इत्युक्ते 'त्वत्-सदृशः' (similar to you) । प्रक्रिया इयम् - युष्मद् + वतुँप् → युष्मद् + वत् [इत्संज्ञालोपः] → त्वद् + वत् [<<प्रत्ययोत्तरपदयोश्च>> 7.2.98 इति 'युष्म' इत्यस्य 'त्व' इति आदेशः ] → त्वा + वत् [<<आ सर्वनाम्नः>> 6.3.91 इति आकारादेशः] → त्वावत् अस्य पुंलिङ्गे प्रथमैकवचनस्य रूपम् 'त्वावान्' इति । प्रक्रिया इयम् - त्वावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → त्वावात् + सुँ [<<अत्वसन्तस्य चाधातोः>> 6.4.14 इति उपधादीर्घः] → त्वावा न् त् + स् [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः] → त्वावान् त् [<<हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] → त्वावान् [<<संयोगान्तस्य लोपः>> 8.2.23 इति तकारलोपः] आ) ऋग्वेदे 1.142.2 - 'य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑' । अत्र 'मावतः' अयं शब्दः 'अस्मद् + वतुँप्' इत्यस्य षष्ठ्येकवचनमस्ति । 'मावत्' इति अत्र प्रातिपदिकम् । 'मावतः' इत्युक्ते मत्सदृशस्य । प्रक्रिया इयम् - अस्मद् + वतुँप् → अस्मद् + वत् [इत्संज्ञालोपः] → म + वत् [<<प्रत्ययोत्तरपदयोश्च>> 7.2.98 इति 'अस्म' इत्यस्य 'म' इति आदेशः ] → मा+ वत् [<<आ सर्वनाम्नः>> 6.3.91 इति आकारादेशः] → मावत् → मावत् + ङस् [षष्ठ्येकवचनस्य विवक्षायाम् ङस्-प्रत्ययः] → मावत् + अस् [इत्संज्ञालोपः] → मावतः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] स्मर्तव्यम् - 1. 'वतुँप्-प्रत्ययान्तशब्दाः <<बहुगणवतुडति सङ्ख्या>> 1.1.23 इत्यनेन 'सङ्ख्या' संज्ञां प्राप्नुवन्ति । अतः 'यावत्, तावत्, एतावत्' एतेषामपि 'सङ्ख्या'संज्ञा भवति । 2. वर्तमानसूत्रेण उक्तः 'वतुँप्' प्रत्ययः , तथा च <<तेन तुल्यं क्रिया चेद्वतिः>> 5.1.115 इत्येतेन उक्तः 'वति'-प्रत्ययः - द्वयोः अपि दृश्यरूपम् 'वत्' इति समानमेव विद्यते । परन्तु द्वावपि प्रत्ययौ, तयोः अर्थौ, तयोः उदाहरणानि च सम्पूर्णरूपेण भिन्नानि सन्तीति स्मर्तव्यम् ।
<<यद्तदेतेभ्यः परिमाणे वतुप्>> - यत्तदेतेभ्यः । तदस्येत्यनुवर्तते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद्, एभ्यो वतुप् स्यादित्यर्थः । यावानिति । यच्छब्दाद्वतुप् । उपावितौ । 'आ सर्वनाम्नः' इत्यात्त्वम्, सुः,उगिदचामि॑ति नुम्,अत्वसन्तस्ये॑ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ । एवं तावान्, एतावान् ।