बहुगणवतुडति संख्या
1-1-23 बहुगणवतुडति सङ्ख्या
Sampurna sutra
Up
बहु-गण-वतु-डति संख्या
Neelesh Sanskrit Brief
Up
'बहु' शब्दः, 'गण' शब्दः, 'वतुँप्' प्रत्ययान्तशब्दः, तथा च 'डति' प्रत्ययान्तशब्दः एतेषाम् 'संख्या' इति संज्ञा भवति ।
Neelesh English Brief
Up
The words बहु and गण, and the words ending in the वतुँप् and डति प्रत्यय are known as 'संख्या'.
Kashika
Up
बहु गण वतु डति इत्येते संख्यासंज्ञा भवन्ति। बहुकृत्वः। बहुधा। बहुकः। बहुशः। गणकृत्वः। गणधा। गणकः। गणशः। तावत्कृत्वः। तावद्धा। तावत्कः। तावच्छः। कतिकृत्वः। कतिधा। कतिकः। कतिशः। बहुगणशब्दयोर्वैपुल्ये संङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव। भूर्यादीनां निवृत्त्यर्थं संख्यासंज्ञा विधीयते॥ अर्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यं समासकन्विध्यर्थम्॥ अर्धपञ्चमशूर्पः। अर्धं पञ्चमं येषामिति बहुव्रीहौ कृतेऽर्धपञ्चमैः शूर्पैः क्रीतः। <<तद्धितार्थो॰>>२.१.५१ इति समासः। तत्र <<दिक्संख्ये संज्ञायाम्>>२.१.५० इत्यनुवृत्तेस्ततः संख्यापूर्वस्य द्विगुसंज्ञायां २.१.५२ <<शूर्पादञन्यतरस्याम्>>५.१.२६ इत्यञ् ठञ्च। <<अध्यर्धपूर्वद्विगोः॰>>५.१.२८ इति लुक् । अर्धपञ्चमकः। संख्याप्रदेशाः — <<संख्या वंश्येन>> २.१.१९ इत्येवमादयः॥
Siddhanta Kaumudi
Up
एते सङ्ख्यासंज्ञाः स्युः ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'संख्या' इति संज्ञा । 'बहु', 'गण' एतयोः शब्दयोः, 'वतुँप्'प्रत्ययान्तशब्दयोः, तथा च 'डति'प्रत्ययान्तशब्दयोः अनेन सूत्रेण संख्यासंज्ञा भवति ।
'बहु' शब्दः
'बहु' इत्यस्य शब्दस्य द्वौ अर्थौ भवतः -
अ) बहु = अनेके (Many) । यथा, वृक्षे बहूनि फलानि सन्ति ।
अस्मिन् अर्थे बहुशब्दस्य संख्यासंज्ञा भवति ।
आ) बहु = विपुलम् (Ample, A lot) । नद्या बहु जलं विद्यते ।
अस्मिन् अर्थे बहुशब्दस्य संख्यासंज्ञा न भवति ।
'गण' शब्दः
'गण' शब्दस्य अपि द्वौ अर्थौ स्तः ।
अ) गण = गणना (count) । यथा, तारकानां गणं न कर्तुं शक्यते ।
अस्मिन् अर्थे गणशब्दस्य संख्यासंज्ञा भवति ।
ब) गण = सङ्घः (group) । यथा, संस्कृतस्य छात्राणाम् अयं गणः ।
अस्मिन् अर्थे गणशब्दस्य संख्यासंज्ञा न भवति ।
'वतुँप्' प्रत्ययः
'वतुप्' इति कश्चन तद्धितप्रत्ययः । अयं प्रत्ययः द्वाभ्याम् सूत्राभ्याम् पाठितः अस्ति -
अ) <<यद्तदेतेभ्यः परिमाणे वतुप्>>
5.2.39 इत्यनेन यद् / तद् / एतद् इत्येतेभ्यः वतुप्-प्रत्ययः विधीयते , येन 'यावत्' / 'तावत्' / 'एतावत्' एते शब्दाः सिद्ध्यन्ति ।
आ) <<किमिदंभ्यां वो घः>>
5.2.40 इत्यनेन किम् / इदम् इत्येताभ्याम् वतुप्-प्रत्ययः विधीयते, याभ्यां 'कियत्', 'इयत्' एतौ शब्दौ सिद्ध्यतः ।
एतेषां चतुर्णाम् अपि शब्दानाम् संख्यासंज्ञा भवति । अत्र एतत् स्मर्तव्यम् यत् 'संख्या' इति संज्ञा 'वतुँप्' प्रत्ययस्य संज्ञा नास्ति, अपि तु 'वतुँप्'प्रत्ययान्तशब्दानाम् (इत्युक्ते, 'यावत्', 'तावत्', 'कियत्', 'इयत्' एतेषाम् शब्दानाम्) इयं संज्ञा दीयते ।
'डति' प्रत्ययः
'डति' इत्यपि कश्चन तद्धितप्रत्ययः । <<किमः संख्यापरिमाणे डति च>>
5.2.41 इत्यनेन किम्-शब्दात् डति-प्रत्ययः विधीयते । अनेन 'कति' इति शब्दः सिद्ध्यति । अस्य शब्दस्य अपि 'संख्या' संज्ञा भवति । अत्रापि एतत् ज्ञेयम् यत् 'डति'प्रत्ययस्य संख्यासंज्ञा न भवति, अपि तु 'डति'प्रत्ययान्तस्य 'कति'शब्दस्य इयं संज्ञा दीयते ।
लौकिकाः संख्याशब्दाः
'एक / द्वि / त्रि / ...' एतादृशाः शब्दाः ये सामान्यरूपेण भाषायाम् 'संख्या' इत्यनेनैव ज्ञायन्ते, तेषाम् अपि 'संख्या' इत्यनया व्याकरणविशिष्टसंज्ञया ग्रहणं क्रियते । एतदर्थम् अष्टाध्याय्यां किमपि भिन्नं सूत्रम् न रचितम् अस्ति, यतः एतेषाम् लौकिकार्थः एव व्याकरणशास्त्रे अपि इष्यते । अतः यत्र कुत्रापि 'संख्या'शब्दं स्वीकृत्य किञ्चन कार्यम् उच्यते, तत्र सर्वत्र एक-द्वि-त्रि-आदयः शब्दाः अपि ग्रहीतव्याः ।
प्रयोजनम्
अष्टाध्याय्यां 'संख्या' इयं संज्ञा बहुषु (30+) सूत्रेषु प्रयुक्ता दृश्यते । अस्याः संज्ञायाः साहाय्येन तत्र तत्र भिन्नानि कार्याणि उक्तानि सन्ति । यथा, 'प्रकाराणाम् गणना' यदा क्रियते तदा संख्यावाचकेभ्यः शब्देभ्यः <<संख्याया विधार्थे धा>>
5.3.42 इत्यनेन 'धा' इति तद्धितप्रत्ययः भवति । यथा -
एकेन प्रकारेण = एकधा ।
द्वाभ्यां प्रकाराभ्याम् = द्विधा ।
पञ्चभिः प्रकारैः = पञ्चधा ।
बहुभिः प्रकारैः = बहुधा ।
कतिभिः प्रकारैः = कतिधा ।
आदयः ।
वार्त्तिकम् 1 - <!अर्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यं समासकन्विध्यर्थम्!> ।
अर्थः - यस्य शब्दस्य पूर्वपदम् 'अर्ध' इति शब्दः अस्ति, उत्तरपदम् च पूरणप्रत्ययान्तः शब्दः अस्ति, तस्य शब्दस्य समासविधौ तथा च 'कन्'प्रत्ययस्य प्रयोगे 'संख्या' इति संज्ञा भवति । यथा, 'अर्धपञ्चम' इति शब्दः स्वीक्रियते चेत् -
अ) 'अर्धपञ्चमेन शूर्पेण क्रीतम्' अस्मिन् अर्थे द्विगुसमासस्य निर्माणसमये 'अर्धपञ्चम' शब्दस्य संख्यासंज्ञा भवति, अतः च <<शूर्पादञन्यतरस्याम्>>
5.1.26 इत्यनेन विहितः अञ्-प्रत्ययः <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन 'अर्धपञ्चम'शब्दात् अपि भवति -
अर्धपञ्चमेन शूर्पेन क्रीतम्
= अर्धपञ्चम + शूर्प + अञ् [<<शूर्पादञन्यतरस्याम्>> 5.1.26 इति अञ्-प्रत्ययः]
→ अर्धपञ्चम + शूर्प [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति लुक्]
→ अपञ्चमशूर्पः ।
आ) 'अर्धपञ्चमम् परिमाणम् अस्य' अस्मिन् अर्थे <<संख्याया अतिशदन्तायाः कन्>>
5.1.22 इत्यनेन कन्-प्रत्ययं कृत्वा 'अर्धपञ्चमक' इति शब्दः सिद्ध्यति -
अर्धपञ्चम + कन् [<<संख्याया अतिशदन्तायाः कन्>> 5.1.22 इति कन्]
→ अर्धपञ्चमक
एतौ द्वौ स्थलौ विहाय अन्यत्र 'अर्धपञ्चम'शब्दस्य संख्यासंज्ञा न भवति । यथा, <<तस्य पूरणे डट्>>
5.2.48 इत्यनेन संख्या वाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः 'अर्धपञ्चम' शब्दस्य विषये न प्रवर्तते ।
वार्त्तिकम् 2 - <!अध्यर्धग्रहणं च समासकन्विध्यर्थम्!> ।
अर्थः - 'अध्यर्ध' अस्य शब्दस्य अपि समासविधौ तथा कन्-प्रत्ययस्य प्रयोगे संख्यासंज्ञा भवति । यथा -
अ) 'अध्यर्धेन शूर्पेण क्रीतम्' अस्मिन् अर्थे द्विगुसमासस्य निर्माणसमये 'अध्यर्ध' शब्दस्य संख्यासंज्ञा भवति, अतः च <<शूर्पादञन्यतरस्याम्>>
5.1.26 इत्यनेन विहितः अञ्-प्रत्ययः <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन 'अध्यर्ध'शब्दात् अपि भवति -
अध्यर्धेन शूर्पेन क्रीतम्
= अध्यर्ध + शूर्प + अञ् [<<शूर्पादञन्यतरस्याम्>> 5.1.26 इति अञ्-प्रत्ययः]
→ अध्यर्ध + शूर्प [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति लुक्]
→ अध्यर्धशूर्पः ।
आ) 'अध्यर्धम् परिमाणम् अस्य' अस्मिन् अर्थे <<संख्याया अतिशदन्तायाः कन्>>
5.1.22 इत्यनेन कन्-प्रत्ययं कृत्वा 'अध्यर्धक' इति शब्दः सिद्ध्यति -
अध्यर्ध + कन् [<<संख्याया अतिशदन्तायाः कन्>> 5.1.22 इति कन्]
→ अर्ध्यर्धक
एतौ द्वौ स्थलौ विहाय अन्यत्र 'अध्यर्ध'शब्दस्य संख्यासंज्ञा न भवति । यथा, <<तस्य पूरणे डट्>>
5.2.48 इत्यनेन संख्या वाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः 'अध्यर्ध' शब्दस्य विषये न प्रवर्तते ।
भाष्यकारस्य मतम्
<!अध्यर्धग्रहणं च समासकन्विध्यर्थम्!> इति वार्त्तिकम् स्वीक्रियते चेत् <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>>
5.1.28 अस्मिन् सूत्रे अध्यर्थग्रहणम् व्यर्थम् भवति । अयं पक्षः भाष्यकारेण स्वीकृतः अस्ति । काशिकाकारस्तु <!अध्यर्धग्रहणं च समासकन्विध्यर्थम्!> एतत् वार्त्तिकम् नैव पाठयति, अपितु <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>>
5.1.28 इत्यत्र अध्यर्धग्रहणस्य विशिष्टम् प्रयोजनम् प्रतिपादयति । अस्य विस्तरः <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>>
5.1.28 इत्यत्र द्रष्टव्यः ।
उणादिसंज्ञकः डति-प्रत्ययः
'डति' इति कश्चन उणादिप्रत्ययः <<पातेर्डति>> (4.57) इत्यस्मिन् औणादिके सूत्रे पाठितः अस्ति । परन्तु तस्य अत्र ग्रहणं न भवति । अस्मिन् सूत्रे निर्दिष्टः 'वतुँप्' शब्दः तद्धितसंज्ञकः, अतः तस्य साहचर्यात् केवलं तद्धितसंज्ञकस्यैव 'डति'प्रत्ययस्य अत्र ग्रहणं क्रियते ।
Balamanorama
Up
<<बहुगणवतुडति संख्या>> - अथ षट्संज्ञाकार्यं वक्ष्यन् षट्संज्ञोपयोगिनीं सङ्ख्यासंज्ञामाह-बहुगण । बहुश्च गणस्च वतुश्च डतिश्चेति समाहारद्वन्द्वः । एतत्सङ्ख्यासंज्ञं स्यादित्यर्थः । फलितमाह-एते इति । बह्वादय इत्यर्थः । बहुगणशब्दाविह त्रित्वादिपरार्धान्तशङ्ख्याव्यापकधर्मविशेषवाचिनौ गृह्रेते । न तु वैपुल्यसङ्घवाचिनौ, सङ्ख्यायतेऽनयेति अन्वयर्थसंज्ञाविज्ञानात् । वतुडती प्रत्ययौ । संज्ञाविधावपीह तदन्तग्रहणं, केवलयोः प्रयोगानर्हत्वात् । वतुरिहयत्तदेतेभ्यः परिमाणे वतु॑विति तद्धितप्रत्ययो गृह्रते, न तुतेन तुल्यं क्रिया चेद्वति॑रिति वतिरपि, उकारानुबन्धात् । डतिरपिकिमः सङ्ख्यापरिमाणे डति च ॑ इति विहिस्ततद्धित एव गृह्रते, वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहितः कृदपि । ननुसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु॑जित्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णां ग्रहणं स्यात् । न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि,कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः॑ इति न्यायात् । ततश्च 'पञ्चकृत्वः' इत्यादि न स्यादिति चेन्न,सङ्ख्याया अतिशदन्तायाः कनि॑त्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तिज्ञापनात् । नहि विंशतितिंरशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति । नचैवं सति बहुगणग्रहणवैयथ्र्यं शङ्क्यं, तयोर्नियतविषयपरिच्छेदकत्वाऽभावेन लोकसिद्धसङ्ख्यात्वाऽभावात् । अत एव भाष्येएतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां संख्येत्याह॑ इत्युक्तं सङ्गच्छते इत्यस्तां तावत् ।
Padamanjari
Up