उगवादिभ्यो यत्

5-1-2 उगवादिभ्यः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छः

Sampurna sutra

Up

प्राक् क्रीतात् उ-गवादिभ्यः यत्

Neelesh Sanskrit Brief

Up

प्राक्-क्रीतीय-अर्थेषु उवर्णान्त-प्रातिपदिकेभ्यः तथा गवादिगणस्य शब्देभ्यः यत्-प्रत्ययः भवति ।

Kashika

Up

प्राक् क्रीतादित्येव। उवर्णान्तात् प्रातिपदिकाद् गवादिभ्यश्च यत् प्रत्ययो भवति। प्राक्क्रीतीयेष्वर्थेषु। छस्यापवादः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। गवादिभ्यःखल्वपि — गव्यम्। हविष्यम्। सनङ्गुर्नाम चर्मविकारः। ततः परत्वात् <<चर्मणोऽञ्>>५.१.१५ इत्येष विधिः प्राप्नोति। तथा चरुर्नाम हविः, सक्तुरन्नविकारः। अपूपादिषु <<अन्नविकारेभ्यश्च>>(ग०सू०१११) इति पठ्यते। ततो <<विभाषा हविरपूपादिभ्यः>> ५.१.४ इत्येष विधिः प्राप्नोति। तत्र सर्वत्र पूर्वविप्रतिषेधेन यत् प्रत्यय एवेष्यते — सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धाना इति। गवादिषु <<नाभि नभं च>> (ग०सू०१०८) इति पठ्यते। तस्यायमर्थः — नाभिशब्दो यत्प्रत्ययमुत्पादयति, नभं चादेशमापद्यत इति। नाभये हितो नभ्योऽक्षः। नभ्यमञ्जनम्। यस्तु शरीरावयवो नाभिशब्दः, ततः <<शरीरावयवाद् यत्>> ५.१.६ इति यति कृते नाभये हितं नाभ्यं तैलमिति भवितव्यम्। गवादिषु यता सन्नियुक्तो नभभावोऽत्र न भवति ॥ गो। हविस्। बर्हिष्। खट। अष्टका। युग। मेधा। स्रक्। नाभि नभं च (ग०सू०१०८)। शुनः संप्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम् (ग०सू०१०९) — शुन्यम्, शून्यम्। चकारस्यानुक्तसमुच्चयार्थत्वाद् <<नस्तद्धिते>> ६.४.१४४ इति लोपो न स्यात्। ऊधसोऽनङ् च (ग०सू०११०) — ऊधन्यः। कूप। उदर। खर। स्खद। अक्षर। विष। गवादिः॥

Siddhanta Kaumudi

Up

प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । (गणसूत्रम् -) नाभि नभं च ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । (गणसूत्रम् -) शुनः संप्रसारणं वा च दीर्घत्वम् । शून्यम् । शुन्यम् । (गणसूत्रम् -) ऊधसो नङ् च । ऊधन्यः ॥

Laghu Siddhanta Kaumudi

Up

प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। <<नाभि नभं च>> (वार्त्तिकम्) । नभ्योऽक्षः। नभ्यमञ्जनम् ॥

Neelesh Sanskrit Detailed

Up

तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः चतुर्थः महोत्सर्गः 'प्राक्-क्रीतीय-अधिकारः' <<प्राक्क्रीतात् छः>> 5.1.1 इत्यस्मात् <<परिखाया ढञ्>> 5.1.17 इति यावत् प्रचलति । अस्मिन् अधिकारे आहत्य त्रयः अर्थाः पाठ्यन्ते, येषु औत्सर्गिकरूपेण छ-प्रत्ययविधानं भवति । परन्तु उवर्णान्त-प्रातिपदिकेभ्यः तथा च गवादिगणस्य प्रातिपदिकेभ्यः प्राक्क्रीतीय-अधिकारस्य त्रिषु अपि अर्थेषु औत्सर्गिकं छ-प्रत्ययं बाधित्वा वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते । गवादिगणः अयम् - गो, हविस्, वर्हिष्, खट, अष्टका, युग, मेधा, स्रक्, नाभि नभं च (गणसूत्रम्), शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम् (गणसूत्रम्), ऊधसोऽनङ् च (गणसूत्रम्), खर, स्खद, अक्षर, विष । कानिचन उदाहरणानि एतानि - 1. 'शङ्कु' इति उकारान्तशब्दः । 'शङ्कु'शब्दात् <<तस्मै हितम्>> 5.1.5 अस्मिन् अर्थे दारुणः (= काष्ठस्य) निर्देशं कर्तुम् यत्-प्रत्ययः भवति । शङ्कवे हितम् = शङ्कु + यत् → शङ्को + य [<<ओर्गुणः>> 6.4.146 इति गुणः] → शङ्कव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति अवादेशः] → शङ्कव्य शङ्कवे हितम् शङ्कव्यम् दारु । ('दारु' इति उकारान्त-नपुंसकलिङ्गवाचीशब्दः, 'काष्ठम्' इत्यर्थः ।) 2. 'पिचु' (= वस्त्रम्) इति उकारान्तशब्दः । अस्मात् शब्दात् <<तदर्थं विकृते प्रकृतौ>> 5.1.12 अस्मिन् अर्थे कर्पासस्य निर्देशं कर्तुम् यत्-प्रत्ययः भवति । पिचुभ्यः अयम् = पिचु + यत् → पिचो + य [<<ओर्गुणः>> 6.4.146 इति गुणः] → पिचव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति अवादेशः] → पिचव्य पिचुभ्यः अयम् पिचव्यः कार्पासः । 3. 'गो' इति गवादिगणे विद्यमानः शब्दः । अस्मात् शब्दात् <<तस्मै हितम्>> 5.1.5 अस्मिन् अर्थे यत्-प्रत्ययः भवति । गवे हितम् = गो + यत् → गव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति अवादेशः] → गव्य गवे हितः गव्यः घासः । 4. 'विष' इति गवादिगणे विद्यमानः शब्दाः । अस्मात् शब्दात् <<तद् अस्य तदस्मिन् स्यात्>> 5.1.16 अस्मिन् अर्थे सर्पस्य निर्देशं कर्तुम् यत्-प्रत्ययः भवति - विषं यस्मिन् सर्पे स्यात् सः सर्पः = विष + यत् → विष् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → विष्य विषं यस्मिन् सर्पे स्यात् सः विष्यः सर्पः । एतादृशमुकारान्तशब्देभ्यः तथा गवादिगणे विद्यमानेभ्यः शब्देभ्यः त्रिषु अपि प्राक्क्रीतीय-अर्थेषु यत्-प्रत्ययः भवति । गवादिगणे कानिचन गणसूत्राणि उक्तानि सन्ति । तानि एतादृशानि - 1. 'नाभि नभं च' - नाभिशब्दात् यत्-प्रत्ययः भवति तत्सन्नियोगेन च नाभिशब्दस्य 'नभ' इति आदेशः भवति । नाभि + यत् → नभ + यत् → नभ्य । अस्मिन् गणसूत्रे 'नाभि' अयम् शब्दः 'चक्रस्य मध्यभागः' (central part of a wheel) अस्मिन् अर्थे प्रयुज्यते । यथा - नाभये हितम् नभ्यः अक्षः (A spoke that is useful for the central part of a wheel) । अन्येषु अर्थेषु नाभि-शब्दः अस्मिन् गणे न विद्यते । यथा, शरीरस्य अवयवः नाभिः (navel) इत्यस्मिन् अर्थे नाभि-शब्दः अस्मिन् गणे न विद्यते, अतः तस्य 'नभ' आदेशः अपि न भवति । यथा, नाभये हितम् तैलम् = नाभि + यत् [<<शरीरावयवाद्यत्>> 5.1.6 इति यत्] → नाभ्य । नाभये हितम् नाभ्यम् तैलम् । 2. 'शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम्' - 'श्वन्'शब्दः अस्मिन् गणे समाविश्यते, अतः तस्मात् यत्-प्रत्ययः भवति । यत्-प्रत्यये परे 'श्वन्' इत्यस्य अङ्गस्य सम्प्रसारणम् क्रियते । (वस्तुतः भसंज्ञकस्य श्वन्-शब्दस्य <<श्वयुवमघोनामतद्धिते>> 6.4.133 इत्यनेन सम्प्रसारणम् भवितुमर्हति, परन्तु अस्य सूत्रस्य प्रसक्तिः तद्धितभिन्ने प्रत्यये परे एव वर्तते, अतः अत्र गणसूत्रे सम्प्रसारणस्य निर्देशः आवश्यकः अस्ति) । सम्प्रसारणे कृते अग्रे विकल्पेन दीर्घादेशः अपि भवति, तथा च दीर्घादेशे कृते तद्धितान्तशब्दस्य अन्तोदात्तत्वमपि विधीयते । प्रक्रिया इयम् - श्वन् + यत् → शुअन् + य [<<इग्यणः सम्प्रसारणम्>>1.1.45 इत्यनेन वकारस्य सम्प्रसारणमुकारः] → शुन् + य [<<सम्प्रसारणाच्च>> 6.1.108 इति पूर्वपरयोः एकः पूर्वरूपः आदेशः] → शुन् / शून् + य [विकल्पेन दीर्घादेशः] → शुन्य, शून्य । अत्र स्वरविधानम् एतादृशम् भवति - दीर्घादेशस्य अभावात् 'शुन्य' शब्दस्य <<यतोऽनावः>> 6.1.213 इत्यनेन आद्युदात्तत्वम् विधीयते, तथा च दीर्घादेशे कृते 'शून्य'शब्दस्य वर्तमान-गणसूत्रेण अन्तोदात्तत्वं जायते । अत्र एकः विशेषः स्मर्तव्यः । प्रक्रियायाम् <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपस्य प्रसक्तिः विद्यते, परन्तु सः अत्र न इष्यते । अस्मिन् विषये काशिकाकारः वदति - 'चकारस्य अनुक्तसमुच्चयार्थत्वात् नस्तद्धिते इति लोपो न स्यात्' । अस्य अर्थः अयम् - अस्मिन् गणसूत्रे 'च' इति द्विवारम् प्रयुज्यते - 'च दीर्घत्वम्' तथा 'चान्तोदात्तत्वम्' । वस्तुतस्तु एकवारं चकारः प्रयुज्यते चेदपि स एव अर्थः स्यात् - 'शुनः सम्प्रसारणम्, वा दीर्घर्त्वम् तत्सन्नियोगेन च अन्तोदात्तत्वम्' । अत्र एकवारम् चकारग्रहणम् तु आवश्यकमेव - यतः चकारस्य अनुपस्थितौ 'अन्तोदात्तत्वमपि वैकल्पिकं भवति वा' इति प्रश्नः भवितुमर्हति । परन्तु द्विवारम् चकारनिर्देशः वस्तुतः न आवश्यकः । अतः अत्र चकारस्य द्वितीयम् ग्रहणम् 'नस्तद्धिते इति लोपो न' इति अध्याहरति - इति काशिकाकारः मन्यते । इत्युक्ते, अत्र सम्पूर्णम् गणसूत्रम् एतादृशमस्ति - 'शुनः सम्प्रसारण्, (नस्तद्धिते इति लोपो न) च, वा दीर्घत्वम्, तत्सन्नियोगेन चान्तोदात्तत्वम्' । अनेन प्रकारेण अत्र टिलोपः निषिध्यते । अस्मिन् विषये केचन पण्डिताः वदन्ति - अत्र <<नस्तद्धिते>> 6.4.144 इत्यस्य अध्याहारः नैव आवश्यकः । केवलं 'दीर्घविधानसामर्थ्यात्' एव अत्र <<नस्तद्धिते>> 6.4.144 इत्यस्य प्रसक्तिः न वर्तते । इत्युक्ते, यदि <<नस्तद्धिते>> 6.4.144 इत्यस्य प्रयोगेण टिलोपः स्यात्, तर्हि 'श्' इत्येव अवशिष्येत, ततश्च दीर्घः कथम् विधीयेत - इति अत्र चिन्तनम् । परन्तु एतत् चिन्तनम् न वरम् । अस्मिन् विषये न्यासकारः वदति - 'एवमपि पक्षे स्यात्' । इत्युक्ते, यद्यपि अनेन चिन्तनेन दीर्घादेशस्य विषये टिलोपः निषिध्यते, तथापि दीर्घादेशाभापक्षे तु टिलोपः स्यात् एव । तस्य निवारणार्थम् <<नस्तद्धिते>> 6.4.144 इत्यस्य अध्याहारः आवश्यकः एव - इति आशयः । 3. 'ऊधसः अनङ् च' - 'ऊधस्' इति शब्दः अस्मिन् गणे समाविश्यते, तथा प्रत्ययसन्नियोगेन अस्य शब्दस्य 'अनङ्'आदेशः भवति । <<ङिच्च>> 1.1.53 इति अयमन्त्यादेशः । ऊधस् + यत् → ऊध + अनङ् + य → ऊध + अन् + य ['अनङ्' इत्यत्र ङकारस्य इत्संज्ञा, नकारोत्तरः अकारः उच्चारणार्थः । द्वयोः लोपः भवति ।] → ऊधन् + य [<<अतो गुणे>> 6.1.97 इति पूर्वपरयोः एकादेशः अकारः] → ऊधन्य [<<नस्तद्धिते>> 6.4.144 इति टिलोपे प्राप्ते <<ये चाभावकर्मणोः>> 6.4.168 इति प्रकृतिभावः] उधसे हितः ऊधन्यः । विशेषः - गवादिगणस्य शब्देभ्यः अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्ते अपि विधीयते । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् । अस्मिन् विषये <<असमासे निष्कादिभ्यः>> 5.1.20 इत्यत्र निरूपितमस्ति । ज्ञातव्यम् - वर्तमानसूत्रम् <<प्राक्क्रीतात् छः>> 5.1.1 अस्मिन् अधिकारे विद्यमानान् अन्यान् सर्वान् अपि अपवादसूत्रान् बाधते । अतः अस्मिन् अधिकारे निर्दिष्टानाम् त्रिषु अपि अर्थेषु उवर्णान्तशब्दानां विषये यत्-प्रत्ययः एव भवति । यथा - [अ] सनङ्गु (a leather object) इति चर्मणः विकारः । अतः <<तदर्थं विकृते प्रकृतौ>> 5.1.12 अस्मिन् अर्थे विद्यमानेन <<चर्मणोऽञ्>> 5.1.15 इत्यनेन अपवादसूत्रेण 'सनङ्गु'शब्दात् 'चर्मणः विकारः' अस्मिन् अर्थे वस्तुतः अञ्-प्रत्ययस्य प्रसक्तिः अस्ति । परन्तु 'सनङ्गु' अयं शब्दः उकारान्तः अस्ति, अतः अञ्-प्रत्ययं बाधित्वा अस्य विषये वर्तमानसूत्रेण यत्-प्रत्ययः एव भवति - सनङ्गवे इदम् चर्म = सनङ्गु + य → सनङगो + य [<<ओर्गुणः>> 6.4.146 इति गुणः] → सनङ्गव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति अव्-आदेशः] → सनङ्गव्य सनङ्गवे इदम् सनङ्गव्यं चर्म । [आ] <<विभाषा हविरपूपादिभ्यः>> 5.1.4 इत्यस्मिन् सूत्रे विद्यमानेन 'अन्नविकारेभ्यश्च' अनेन गणसूत्रेण वस्तुतः 'चरु', 'सक्तु' एताभ्यां विषये केवलं पक्षे यत्-प्रत्ययः विधीयते । परन्तु एतौ शब्दौ उवर्णान्तौ स्तः, अतः एतयोः विषये <<विभाषा हविरपूपादिभ्यः>> 5.1.4 इति बाधित्वा <<उगवादिभ्यो यत्>> 5.1.2 इत्यनेन नित्यमेव यत्-प्रत्ययः विधीयते । चरु + यत् → चरव्य । सक्तु + यत् → सक्तव्य ।

Balamanorama

Up

Padamanjari

Up

उवर्णादेर्गशब्दादेर्वशब्दादेश्च यद्भवतीत्यर्थो न भवति, गवादिगणपाठतः। सनंगुरित्यादि। चर्मविकारलक्षणस्याञोऽवकाशः-वार्ध्र चर्म, वारत्रं चर्मेति, उवर्णान्तलक्षणस्य यतोऽवकाशः - शङ्कव्यम्, पिचव्यमिति; सनङ्गोरुभयप्रसंङ्गे परत्वादञ्प्राप्नोति। चरुर्नाम इविरिति। स्थालीवचनस्य चरुशब्दस्य तकदधिकरणे हविष्युपचारद्वृत्तिः।'विभाषा हविरपूपादिभ्यः' इत्यत्र हविर्विशेषवाचिनां ग्रहणम्, न स्वरूपस्य; तस्य गवादिषु पाठात्। विपर्ययस्तु न भवति - इह विशेषग्रहणं तत्र स्वरूपग्रहणमिति; गवादिष्वसञ्जातविरोधित्वेन स्वरूपग्रहणे बाधकाभावात्। अतः'विभाषा इविरपूपादिभ्यः' इत्यत्रैव विशेशग्रहणमिति स्थिते तस्यावकाशः - आमिक्ष्यम्, आमिक्षीयम्; पुरोडाश्याः, पुरोडाशीया इति। अन्नविकारेभ्यश्चेति पठ।ल्त इति। तस्यावकाशः - सुराः, सुर्याः, सुरीयाः, ओदन्याः, ओदनीया इति, उवर्णाअन्तसक्षणस्य यतः स एव; चरुसक्तुभ्यामुभ्य प्रसङ्गे परत्वाद्विभाषा प्राप्नोति, तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्यय एवेष्यत इति। अयमेव नित्यो यत्प्रत्यय इत्यर्थः। नभं चादेशमापद्यत इति। भसंज्ञकं च न भवतदीत्ययं त्वर्थो न भवति, व्याख्यानात्। तदर्थमेव हि गणसूत्रं व्याख्यातम्, प्रायेण हि वृत्तिकारो गणसूत्राणि न व्याचष्टे। नभ्योऽक्ष इति। च्छिद्रवद्रथाङ्गविशेषः - नाभिः, तच्छिद्रानुप्रविष्टकाष्ठविशेषः - अक्षः, स तदनुगुणत्वातस्मै हित इत्युच्यते। अञ्जनं तैलकृताभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम्। यतु भाष्य उक्तम् -'नाभेर्नभभावे प्रत्ययानुपपतिः प्रकृत्यभावात्' इति, तन्नभ्यं चक्रमिति प्रयोगाभिप्रायम्। न हि चक्रस्य नाभिविकृतिः, अपि त्ववयवः। नापि तादर्थ्यमस्ति; अवयविनोऽवयवार्थत्वाभावात्। तेन'तदर्थ विकृतेः प्रकृतौ' इत्यत्रार्थे नभ्यं चक्रमिति नैव सिद्धयति। हितार्थस्त्वाशङ्क्य एवेति न सर्वथा प्रत्ययानुपपतिस्तत्र विवक्षितेति भावः। शरीरावयवाद्यदिति यति कृते इति। परत्वादिति भाव। नाभ्यं तैलमिति भवितव्यमिति। अथात्रापि नभभावः कस्मान्न भवति ? इत्याह - गवादियतेति। शुन इत्यादि। श्वनित्यस्य सम्प्रसारणं यत्प्रत्ययश्च भवति, पक्षे दीर्घश्च तत्सञियोगेनेति। यदा दीर्घत्वं तदा शुने हितं शुन्यं शून्यमिति वा,'नस्तद्धिते' इति तत्र वर्तते, सम्प्रसारणे च कृते नेदमन्नन्तम्, कामं दीर्घपक्षे तद्विधानसामर्थ्याट्टिलोपो न स्यात्, पक्षान्तरे तु प्राप्नोति, सम्प्रसारणं बाधकबाधनार्थम्, अन्यथा प्रकृतिबावप्रसङ्गात् ? एवं तर्हि चकारद्वयमत्र पठ।ल्ते, तत्रेकः सम्प्रसारणसमुच्चये द्रष्टव्यः, तत्रान्यस्य समुच्चेतव्यस्याभावात्सम्प्रसारणमेव पुनर्विधीयते। तत्र पुनर्विधानं तु तद्रूपस्यैवावस्थानार्थं भविष्यति। ऊधसोऽनङ् चेति।'नश्च' इति नोक्तम्; लाघवे विशेषाभावात्। ऊधःशब्दस्यानङदेशो भवति यत्सन्नियोगेन - ऊधन्यः,'ये चाभावकर्मणोः' इति प्रकृतिभावः ॥