शरीरावयवाद्यत्

5-1-6 शरीरावयवात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तस्मै हितम्

Sampurna sutra

Up

index: 5.1.6 sutra: शरीरावयवाद्यत्


'तस्मै हितम्' इति शरीर-अवयवात् यत्

Neelesh Sanskrit Brief

Up

index: 5.1.6 sutra: शरीरावयवाद्यत्


'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् शरीरस्य अवयववाचि-प्रातिपदिकात् यत्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.6 sutra: शरीरावयवाद्यत्


शरीर प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकात् यत् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। दन्त्यम्। कण्ठ्यम्। ओष्ठ्यम्। नाभ्यम्। नस्यम्।

Siddhanta Kaumudi

Up

index: 5.1.6 sutra: शरीरावयवाद्यत्


दन्त्यम् । कण्ठ्यम् ।<!नस् नासिकायाः !> (वार्तिकम्) ॥ नस्यम् । नाभ्यम् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.1.6 sutra: शरीरावयवाद्यत्


दन्त्यम्। कण्ठ्यम्। नस्यम्॥

Neelesh Sanskrit Detailed

Up

index: 5.1.6 sutra: शरीरावयवाद्यत्


'हितम्' इत्युक्ते 'योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ' । 'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् प्राग्क्रीतात् छः 5.1.1 इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते; शरीरस्य अवयवस्य विषये तस्य अपवादरूपेण यत्-प्रत्ययः भवति ।

  1. दन्ताय हितम् दन्त्यम् मञ्जनम् ।

  2. कण्ठाय हितम् कण्ठ्या ओषधिः ।

  3. ओष्टाभ्यां हितम् ओष्ठ्यम् घृतम् ।

अत्र वार्त्तिकद्वयं ज्ञातव्यम् -

  1. <!नस् नासिकायाः!> । इत्युक्ते, नासिकाशब्दस्य यत्-प्रत्यये परे नस्-आदेशः भवति ।

यथा - नासिकायै हितम्

= नासिका + यत्

→ नस् + य [<!नस् नासिकायाः!> इति नासिका-इत्यस्य नस्-आदेशः]

→ नस्य ।

  1. <!यत्प्रकरणे रथाच्चोपसंख्यानं कर्तव्यम्!> । इत्युक्ते, 'रथ'शब्दात् अपि 'हितम्' अस्मिन् अर्थे यत्-प्रत्ययः भवति । रथाय हितम् रथ्यम् चक्रम् ।

ज्ञातव्यम् -

  1. शरीरावयवाच्च 4.3.55 इति किञ्चन सूत्रम् तत्र भवः 4.3.53 अस्मिन् अर्थे पाठितमस्ति । अनेन सूत्रेण अपि शरीरस्य अवयववाचिशब्दात् यत्-प्रत्ययः एव भवति, परन्तु सः 'भवः' अस्मिन् अर्थे जायते । यथा - दन्ते भवः दन्त्यः । वर्तमानसूत्रेण तु 'हितम्' अस्मिन् अर्थे प्रत्ययः विधीयते ।

  2. अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्तस्य विषये अपि भवति । यथा, दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् । अस्मिन् विषये असमासे निष्कादिभ्यः 5.1.20 इत्यत्र विस्तारेण निरूपितमस्ति ।

Balamanorama

Up

index: 5.1.6 sutra: शरीरावयवाद्यत्


शरीरावयवाद्यत् - शरीरावयवाद्यत् । शरीरावयवविशेषवाचकाच्चतुथ्र्यन्ताद्धितमित्यर्थे यत्स्यादित्यर्थः । छस्यापवादः । नस्यमिति । नासिकायै हितमित्यर्थः । 'पद्दन्' इति नस्, प्रभृतिग्रहणमस्य प्रकारार्थत्वात् । भाष्ये तुनासिकाया यत्-तस्-क्षुद्रेषु नस् इति पठितम् । नाभ्यमिति । नाभये हितमित्यर्थः । नाभिरत्र शरीरावयवः । रथावयवत्वे तु नभादेश उक्तः ।

Padamanjari

Up

index: 5.1.6 sutra: शरीरावयवाद्यत्


शरीरं प्राणिकाय इति। एतेनैतद्दर्शयति-शीर्यत इति शरीरमिति शृणातेरीरन्प्रत्ययमुत्पाद्य यद्यपि शरीरशब्दो व्युत्पाद्यते, तथापि योगरूढत्वात्प्राणिकाय एव वर्तते, न घटादाविति ॥ खलयवमाषतिलवृषब्रह्मणश्च ॥