विभाषा हविरपूपादिभ्यः

5-1-4 विभाषा हविरपूपादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छः यत्

Sampurna sutra

Up

प्राक्क्रीतात् हविरपूपादिभ्यः विभाषा यत्

Neelesh Sanskrit Brief

Up

हविर्विशेषवाचिभ्यः शब्देभ्यः तथा अपूपादिगणस्य शब्देभ्यः प्राक्क्रीतीय-अर्थेषु यत्-प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः छ-प्रत्ययः (उत तस्य अन्यः यथाविहितः अपवादः) विधीयते ।

Neelesh English Brief

Up

Kashika

Up

हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति। आमिक्ष्यं दधि, आमिक्षीयं दधि। पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः। हविश्शब्दात्तु गवादिपाठाद् नित्यमेव भवति। अपूपादिभ्यः — अपूप्यम्, अपूपीयम्। तण्डुल्यम्, तण्डुलीयम्॥ अपूप। तण्डुल। अभ्यूष। अभ्योष। पृथुक। अभ्येष। अर्गल। मुसल। सूप। कटक। कर्णवेष्टक। किण्व। अन्नविकारेभ्यश्च (ग०सू०१११)। पूप। स्थूणा। पीप। अश्व। पत्र। अपूपादिः॥

Siddhanta Kaumudi

Up

आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्याम्तण्डुलाः । पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'हविस्' इत्युक्ते यज्ञः । हविर्विशेषवाची शब्दः इत्युक्ते यज्ञक्रियाविशिष्टः शब्दः - यथा - पुरोडाशः, आमीक्षा - आदयः । एतादृशेभ्यः हविर्विशेषवाचिभ्यः शब्देभ्यः, तथा च 'अपूपादि'गणे ये शब्दाः विद्यन्ते, तेभ्यः सर्वेषु प्राक्क्रीतीय-अर्थेषु वर्तमानसूत्रेण विकल्पेन यत्-प्रत्ययः भवति । पक्षे यथायोग्यमन्यः प्रत्ययः अपि भवति । अपूपादिगणः अयम् - अपूप, तण्डुल, अभ्यूष, अभ्योष, पृथुक, अभ्येष, अर्गल, मुसल, सूप, कटक, कर्णवेष्टक, किण्व, अन्नविकारेभ्यः (गणसूत्रम्), पूप, स्थूणा, पीप, अश्व, पत्र । उदाहरणानि - 1. आमीक्षायै हितम् = आमीक्षा + यत् → आमीक्ष्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - आमीक्षीयम् । 2. पुरोडाशाय हितम् = पुरोडाश + यत् → पुरोडाश्य । पक्षे - औत्सर्गिकः छ-प्रत्ययः - पुरोडाशीयम् । 3. अपूपाय हितम् = अपूप + यत् → अपूप्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - अपूपीयम् । 4. तण्डुलेभ्यः हितम् = तण्डुल + यत् → तण्डुल्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - तण्डुलीयम् । अपूपादिगणे 'अन्नविकारेभ्यः' इति गणसूत्रमपि विद्यते । अत्र 'अन्न' इत्युक्ते धान्यम् (grains / cereals) । अनेन गणसूत्रेण अन्नस्य विकाराणां विषये अपि प्राक्क्रीतीय-अर्थेषु विकल्पेन यत्-प्रत्ययः भवति । यथा - भक्ताय हितम् भक्त्यम् भक्तीयम् वा ओदनम् । ज्ञातव्यम् - 1. ये उवर्णान्तशब्दाः 'अन्नविकारवाचिनः / 'हविर्विशेषवाचिनः' सन्ति, तेषां विषये वर्तमानसूत्रेण विहितम् पाक्षिकं यत्-विधानम् बाधित्वा <<उगवादिभ्यो यत्>> 5.1.2 इत्यनेन नित्यमेव यत्-प्रत्ययविधानम् भवति । यथा, चरु + यत् → चरव्य । सक्तु (= crushed grains) + यत् → सक्तव्य । अत्र वस्तुतः द्वावपि एतौ शब्दौ 'अन्नविकारौ' स्तः, अतः एतयोर्विषये केवलं विकल्पेन एव यत्-प्रत्ययस्य प्रसक्तिः अस्ति । परन्तु एतौ शब्दौ उवर्णान्तौ अपि स्तः, अतः अत्र <<विभाषा हविरपूपादिभ्यः>> 5.1.4 इति बाधित्वा <<उगवादिभ्यो यत्>> 5.1.2 इत्यनेन नित्यमेव यत्-प्रत्ययः विधीयते । 2. यद्यपि अस्मिन् सूत्रे 'हविस्' इति उच्यते, तथापि स्वयम् हविस्-शब्दः तु तु 'गवादिगणे' विद्यते, अतः <<उगवादिभ्यो यत्>> 5.1.2 अनेन सूत्रेण हविस्-शब्दात् सर्वेषु प्राक्क्रीतीय-अर्थेषु नित्यमेव यत्-प्रत्ययः भवति । अतः अस्मिन् सूत्रे विद्यमानेन 'हविस्' इत्यनेन स्वरूपस्य ग्रहणं न भवति अपितु यज्ञविशेषवाचिनां शब्दानां ग्रहणं भवति । अयमंशः सूत्रात् स्पष्टः न भवति परन्तु व्याख्यानेषु स्पष्टीकृतः वर्तते । 3. वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तदन्ते अपि विधीयते । यथा - अपूपेभ्यो हितमपूप्यमपूपीयम् वा ; यवापूपेभ्यो हितम् यवापूप्यम् यवापूपीयम् वा । अस्मिन् विषये <<असमासे निष्कादिभ्यः>> 5.1.20 इत्यत्र निरूपितमस्ति ।

Balamanorama

Up

<<विभाषा हविरपूपादिभ्यः>> - विभाषा हविः । हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः । पक्षे छः । आमिक्ष्यं दधीति । आमिक्षायै हितमित्यर्थः । तप्ते पयसि दध्नि निक्षिप्ते सति यद्ध्नीभूतं निष्पद्यते सा आमिक्षेत्युच्यते ।

Padamanjari

Up

हविर्विशेषवाचिभ्य इति। स्वरूपस्य ग्रहणं न भवति; तस्य गवादिषु पाठात्। विपरर्ययस्तु न भवति-तत्र विशेषाणं ग्रहणमिह स्वरूपस्येति; असञ्जातविरोधित्वेन तत्रैव स्वरूपग्रहणस्य न्याय्यत्वात्। अन्नविकारेभ्यश्चेति। अन्नविकाराःउअन्नप्रकाराः, अदनीयविशेषा इत्यर्थः, तेभ्यश्च विभाषा यद् भवति-ओदन्याः, ओदनीयाः। यद्येवम्, अपूपादीनां किण्वपर्यन्तानां पाठोऽनर्थकः, अन्नविकारत्वादेव सिद्धेः, सुराप्रकृतिद्रव्यं किण्वम् ? नानर्थकः, प्रापञ्चार्थत्वात्। अपर आह-यदा सादृश्यादिनापूपादिभ्योऽर्थान्तरे उपचर्यन्ते, तदर्थ एषां पाठ इति ॥