6-1-213 यतः अनावः उदात्तः आदि
<<निष्ठा च द्व्यजनात्>> ६.१.२०५ इत्यतो द्व्यज्ग्रहणमनुवर्तते। यत्प्रत्ययान्तस्यद्व्यच आदिरुदात्तो भवति, न चेद् नौशब्दात् परो भवति। <<अचो यत्>> ३.१.९७ चेय॑म्। जेय॑म्। <<शरीरावयवाद् यत्>> ५.१.६ — कण्ठ्य॑म्। ओष्ठ्य॑म्। <<तित्स्वरितम्>> ६.१.१८५ इत्यस्यापवादः। अनाव इति किम् ? ना॒व्य॑म्। द्व्यच इत्येव — चि॒की॒र्ष्य॑म्। ल॒ला॒ट्य॑म्॥
यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो नावं विना । यञ्जन्त्यस्य काम्या (यु॒ञ्जन्त्य॑स्य काम्या॑) । कमेर्णिङन्तादचो यत् । झ्र्अनावः किम् । नवतिं नाव्यानाम् (न॒व॒तिं ना॒व्याना॑म्) ।ट
अत्र ठनावःऽ इति प्रतिषेधो ज्ञापयति - स्वरविधौ व्यञ्जनमविद्यमानवदिति; अन्यथा य आदिर्नकारो नासौ स्वरयोग्यः, यश्च स्वरोग्य अकारो नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् ॥