ये चाभावकर्मणोः

6-4-168 ये च अभावकर्मणोः असिद्धवत् अत्र आभात् भस्य प्रकृत्या अणि अन्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यकारादौ च तद्धितेऽभावकर्मणोरर्थयोरन् प्रकृत्या भवति। सामसु साधुः सामन्यः। वेमन्यः। अभावकर्मणोरिति किम्? राज्ञो भावः कर्म वा राज्यम्। राजन्निति पुरोहितादिषु ५.१.१२८ पठ्यते। ततोऽयं यक् प्रत्ययः॥

Siddhanta Kaumudi

Up

यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥

Laghu Siddhanta Kaumudi

Up

यादौ तद्धिते परेऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम्? -

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ये चाभावकर्मणोः>> - ये चाभा । अनिति पूर्वसूतद्रमनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति । अङ्गाधिकारलब्धप्रत्ययो यकारेण विशिष्यते । तदादिविधिः । तदाह-यादाविति । राजन्य इति ।क्षत्रियात्क्षात्रयायां स्वभार्यायामुत्पन्नो राजन्य॑ इति धर्मशास्त्रेषु प्रसिद्धम् । यत्प्रत्यये प्रकृतिभावान्न टिलोपः । शूद्रादाविति क्षत्रियाच्छूद्रायां वा तदन्यस्यां वा अनूढायामुत्पन्न इत्यर्थः । राजन इति । अणि रूपम् । तत्र 'नस्तद्धिते' इति टिलोपे प्राप्ते — ।

Padamanjari

Up