5-1-3 कम्बलात् च सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छः यत्
index: 5.1.3 sutra: कम्बलाच्च संज्ञायाम्
प्राक् क्रीतात् कम्बलात् संज्ञायाम् यत्
index: 5.1.3 sutra: कम्बलाच्च संज्ञायाम्
प्राक्-क्रीतीय-अर्थेषु 'कम्बल'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति ।
index: 5.1.3 sutra: कम्बलाच्च संज्ञायाम्
कम्बलात् प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति संज्ञायां विषये। छस्य अपवादः। कम्बल्यम् ऊर्णापलशतम्। संज्ञायाम् इति किम्? कम्बलीया ऊर्णा।
index: 5.1.3 sutra: कम्बलाच्च संज्ञायाम्
यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥
index: 5.1.3 sutra: कम्बलाच्च संज्ञायाम्
'कम्बल' शब्दात् प्राक्-क्रीतीय-अर्थेषु संज्ञायाः विषये औत्सर्गिकं छ-प्रत्ययं बाधित्वा यत्-प्रत्ययः भवति ।
यथा - कम्बलाय हितम् कम्बल्यम् ऊर्णापलशतम् । शतम् पलम् यस्याः परिमाणम्, तादृशी ऊर्णा कम्बलस्य निर्माणार्थं प्रयुज्यते चेत् तस्याः नाम 'कम्बल्य' इत्यपि दीयते । A woolen thread of 100 पल length that is used to weave a कम्बल gets the term कम्बल्य ।
अस्मिन् सूत्रे 'संज्ञायाम्' इति उक्तमस्ति, अतः केवलम् 'ऊर्णा' इति उच्यते चेत् न भवति (ऊर्णापलशतम् इत्यस्यैव विषये भवति - इत्याशयः) । कम्बलाय हितम् कम्बलीया ऊर्णा । अत्र औत्सर्गिकः छ-प्रत्ययः एव विधीयते ।
index: 5.1.3 sutra: कम्बलाच्च संज्ञायाम्
कम्बलाच्च संज्ञायाम् - कम्बलाच्च । कम्बलशब्दाद्यत्स्यात्प्राक्कीतीयेष्वर्थेषु संज्ञायामित्यर्थः । कम्बल्यमूर्णापलशमिति । कम्बलाय हितमित्यर्थः ।
index: 5.1.3 sutra: कम्बलाच्च संज्ञायाम्
अयं योगः शक्योऽवक्तुम्। कथं कम्बल्य इति ? निपातनादेवैतत्सिद्धम् ठपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकिऽ इति। इदं तर्हिप्रयोजनम् - संज्ञायामिति वक्ष्यामिति ? एतदपि नास्ति प्रयोजनम्; परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बल्यग्रहणम् - परिमाणस्य च संज्ञा कम्बल्यशब्दः। एवं तर्हि स्वरार्थं वचनम्, निपातनेन हि परिमाणे कम्बल्यशब्दः साधुरित्येतावदवगम्यते, न तु यदन्तोऽयमिति, ततश्चान्तस्वरितत्वं न स्यात्। अथ निपातन एवान्तस्वरितत्वं पठ।लेत ? तत्र व्याख्यानं शरणम्, व्याख्यानाच्च लघु सूत्रम् ॥