असमासे निष्कादिभ्यः

5-1-20 असमासे निष्कादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्

Sampurna sutra

Up

आ-अर्हात् निष्कादिभ्यः असमासे ठक्

Neelesh Sanskrit Brief

Up

प्राग्वतीय-अर्थेषु 'तदर्हति' अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये निष्कादिगणस्य शब्देभ्यः समासं विहाय अन्यत्र ठक्-प्रत्ययः भवति ।

Kashika

Up

आर्हादित्येव। निष्कादिभ्यः शब्देभ्योऽसमासे ठक् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। असमास इति किम्? द्विनैष्किकम्। त्रिनैष्किकम्। ठञेव भवति,<<परिमाणान्तस्या०>>७.३.१७इत्युत्तरपदवृद्धिः। अथ किमर्थमसमास इत्युच्यते, यावता <<ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते>>? निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य। <<उगवादिभ्यो यत्>> ५.१.२ — गव्यम्। सुगव्यम्। अतिसुगव्यम्। <<विभाषा हविरपूपादिभ्यः>> ५.१.४ — अपूप्यम्, अपूपीयम्। यवापूप्यम्, यवापूपीयम्। <<शरीरावयवाद् यत्>> ५.१.६ — दन्त्यम्, राजदन्त्यमित्येवमादि सिद्धं भवति। इत उत्तरं च संख्यापूर्वपदानां तदन्तविधिरिष्यते। <<पारायणतुरायणचान्द्रायणं वर्तयति>> ५.१.७२ — द्वैपारायणिकः। त्रैपारायणिकः। लुगन्तायास्तु प्रकृतेर्नेष्यते। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्। त्रिशूर्पम्। द्विशूर्पेण क्रीतमिति तदन्तविधिप्रतिषेधात् <<शूर्पादञन्यतरस्याम्>> ५.१.२६ इत्यञ् न भवति। सामान्यविहितष्ठञेव भवति। द्विशौर्पिकम्। ठञो द्विगुं प्रत्यनिमित्तत्वाद् लुगभावः। तथा चोक्तम् — <<प्राग् वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि>> (महाभाष्य — वा० ५.१.२०) इति॥ निष्क। पण। पाद। माष। वाह। द्रोण। षष्टि। निष्कादिः ॥

Siddhanta Kaumudi

Up

आर्हादित्येतत् तेन क्रीतम् <{SK1702}> इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<प्राग्वतेष्ठञ्>> 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> 5.1.19 इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> 5.1.19 इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः निष्कादिगणस्य शब्दानां विषये वर्तमानसूत्रेण बाध्यते, तथा च तस्य स्थाने ठक्-प्रत्ययविधानम् भवति । निष्कादिगणः अयम् - निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि । अस्मिन् निष्कादिगणे सर्वे शब्दाः परिमाणवाचिनः सङ्ख्यावाचिनः वा सन्ति । अतः एतेषां सर्वेषां आर्हीय-अधिकारे विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययविधानमेव जायते । परन्तु यदि निष्कादिगणस्य शब्दाः समासं विहाय अन्यत्र आर्हीय-अर्थेषु प्रयुज्यन्ते, तर्हि तेभ्यः ठक्-प्रत्ययः कर्तव्यः, न हि ठञ्-प्रत्ययः - इति वर्तमानसूत्रेण स्पष्टीभवति । यथा, 'निष्क' (सुवर्णमुद्रा) इति परिमाणवाची शब्दः । <<तेन क्रीतम्>> 5.1.37 इति प्रथमः आर्हीयः अर्थः । अस्मिन् अर्थे 'निष्केन क्रीतम्' इति स्थिते निष्क-शब्दात् ठञ्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः भवति । यथा - निष्क + ठक् → नैष्किक । निष्केन क्रीतम् नैष्किकम् रत्नम् । अन्यानि उदाहरणानि एतानि - 1. पणेन (ताम्रमुद्रया) क्रीतम् = पण + ठक् → पाणिक । 2. पादेन (मुद्रायाः 1/4-भागः पाद-नाम्ना ज्ञायते । यथा - 25 paisa) क्रीतम् = पाद + ठक् → पादिक । 3. माषेन (माष इति मापनस्य परिमाणम्) क्रीतम् = माष + ठक् → माषिक । 4. वाहः (जलस्य किञ्चन परिमाणम् - यथा liter etc) अस्य परिमाणम् = वाह + ठक् → वाहिक । अत्र <<तदस्य परिमाणम्>> 5.1.57 इति दशमः आर्हीयः अर्थः प्रयुक्तः अस्ति । 5. द्रोणः (= परिमाणवाचिशब्दः) यस्य परिमाणम् = द्रोण + ठक् → द्रौणिक । 6. षष्ट्या (= सङ्ख्यावाचिशब्दः) क्रीतम् = षष्टि + ठक् → षाष्टिक । परन्तु यदि निष्कादिगणस्य शब्दाः समासे विद्यन्ते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवतीति स्मर्तव्यम् । यथा, परमनिष्केन क्रीतम् = → परमनिष्क + ठञ् → परमनिष्क + इक [<<ठस्येकः>> 7.3.50 इति इक-आदेशः] → परमनैष्क + इक [<<परिमाणान्तस्यासंज्ञाशाणयोः>> 7.3.17 इति उत्तरपदवृद्धिः] → परमनैष्क् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → परमनैष्किक तथैव - 1. द्विपादेन क्रीतम् = द्विपाद + ठञ् → द्विपादम्। अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् भवति । 2. द्विषष्ट्या क्रीतम् = द्विषष्टि + ठञ् → द्विषाष्टिक । अत्र <<संख्यायाः संवत्सरसंख्यस्य च>> 7.3.15 इत्यनेन उत्तरपदवृद्धिः भवति । ज्ञातव्यम् - वस्तुतः <<ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते>> अनया परिभाषया प्रत्ययविधौ तदन्तविधिः नैव इष्यते, अतः 'निष्कादिभ्यः' इति उच्यते चेदपि 'परमनिष्क' आदिभ्यः शब्देभ्यः वर्तमानसूत्रस्य प्रसक्तिः तादृशी एव न स्यात् । तर्हि अत्र पुनः 'असमासे' इति किमर्थमुक्तम् - इति प्रश्नः जायते । अस्य उत्तरार्थम् काशिकायाम् भाष्ये च वार्त्तिकद्वयम् दीयते । तदित्थम् - 1. <!निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य!> । इत्युक्ते, अस्मिन् सूत्रे 'असमास'ग्रहणम् 'पूर्वसूत्रेषु तदन्तविधिः अनुमन्यते' इत्यस्य ज्ञापकमस्ति । पूर्वसूत्रेषु इत्युक्ते कुत्र कुत्र ? सम्पूर्णा आवली तु शास्त्रेषु न विद्यते, परन्तु कानिचन उदाहरणानि एतानि - [1] प्राक्क्रीतीय-अधिकारे <<उगवादिभ्यो यत्>> 5.1.2 इत्यनेन उगवादिगणस्य शब्दानां विषये यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि भवति । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् । [2] प्राक्क्रीतीय-अधिकारे <<विभाषा हविरपूपादिभ्यः>> 5.1.4 इत्यनेन यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि स्यात् । यथा, अपूपेभ्यो हितमपूप्यमपूपीयम् वा । यवापूपेभ्यो हितम् यवापूप्यपम् यवापूपीयम् वा । [3] प्राक्क्रीतीय-अधिकारे <<शरीरावयवात् यत्>> 5.1.6 इत्यनेन शरीरस्य अवयववाचिभ्यः शब्देभ्यः पाठितः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् । [4] प्राक्क्रीतीय-अधिकारे <<खलयवमाषतिलवृषब्रह्मणश्च>> 5.1.7 इत्यनेन उक्तः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । यथा - कृष्णतिलेभ्यो हितः कृष्णतिल्यः , राजमाषेभ्यो हितं राजमाष्यम् । 2. <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> । इत्युक्ते, प्राग्वतीय-अधिकारे अपि सङ्ख्यापूर्वपदवाचिभ्यः अलुगन्तेभ्यः प्रातिपदकेभ्यः तदन्तविधिः भवति । यथा - [अ] <<पारायणतुरायणचान्द्रायणं वर्तयति>> 5.1.72 अस्मिन् अर्थे पारायणशब्दात् तु औत्सर्गिकः ठञ्-प्रत्ययः भवत्येव, परन्तु 'द्विपारायञण' शब्दात् अपि तदन्तविधिना ठञ्-प्रत्ययः एव भवति । द्विपारायणं वर्तयति सः द्वैपारायणिकः । यदि अत्र तदन्तविधिः न अभविष्यत्, तर्हि' द्विपारायणं वर्तयति' इत्यत्र कस्यापि प्रत्ययस्य प्रसक्तिः न अजनिष्यत - यतः <<पारायणतुरायणचान्द्रायणं वर्तयति>> 5.1.72 इत्यत्र पाठितः 'वर्तयति' इति अर्थः पारायण-तुरायण-चान्द्रायण-एतेभ्यः त्रिभ्यः प्रातिपदिकेभ्यः एव उक्तः अस्ति । [आ] 'अलुगन्तेभ्यः' इति किम् तत् पश्यामः - द्वाभ्यां शूर्पाभ्यां क्रीतम् = द्वि + शूर्प + अञ् [<<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इत्यनेन द्विगुः समासः, <<शूर्पादञन्यतस्याम्>> 5.1.26 इति अञ्-प्रत्ययः । अत्रापि सङ्ख्यापूर्वपदत्वात् तदन्तविधिना अञ्-प्रत्ययः भवति] → द्विशूर्प [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति अञ्-प्रत्ययस्य लुक्] एतादृशम् निर्मितः 'द्विशूर्प' अयम् शब्दः 'लुप्तप्रत्ययान्तः' अस्ति । अग्रे 'द्विशूर्पेण क्रीतम्' इति स्थिते द्विशूर्प-शब्दात् अपि तदन्तविधिना <<शूर्पादञन्यतस्याम्>> 5.1.26 इत्यनेन वैकल्पिकः अञ् भवेत् वा - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - 'लुगन्तायाः प्रकृतेः न इष्यते' । इत्युक्ते, अत्र प्रकृतिः स्वयं लुप्तप्रत्ययान्ता अस्ति, अतः अत्र तदन्तविधिः न कर्तव्यः, इति । अतः अत्र तु औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । द्विशूर्पेण क्रीतम् द्विशौर्पिकम् ।

Balamanorama

Up

<<असमासे निष्कादिभ्यः>> - असमासे । इति यावदिति ।तेनक्रिती॑मित्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । आर्हीयेष्विति ।तदर्हती॑त्येतत्पर्यन्तमनुक्रान्तेषुतेन क्रीत॑मित्याद्यर्थेष्वित्यर्थः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः । समासे तु ठञ्ेव]इति । परमनिष्कादिशब्दादित्यर्थः ।

Padamanjari

Up

ठञोऽपवाद इति। येन नाप्राप्तिन्यायेन निष्कादिभ्यो हि द्रोणपर्यन्तेभ्यः परिमाणशब्दात्षष्ठिशब्दाट्ठकः पर्युदासे ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। तदन्ताप्रतिषेधस्येति। तदन्तविधावप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्प्रत्ययो विज्ञायते, एवं तर्हि'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इति केवलेभ्यो नोपपद्यते ? नैष दोषः; अस्मासग्रहणेन हि ग्रहणवत्परिभाषाया निवृत्तिराख्याता, तन्निवृतौ'येन विधिस्तदन्तस्य' इति तदन्तता, अत्र स्वस्य च रूपस्य प्रकृतत्वात्केवलादपि भवति। यस्तु मन्यते - पूर्वत्रोपादानसामर्थ्यात्केवलादपि स्यादिति, तस्य हि लाघवार्थं केवलानां पाठः स्यादिति यत् किञ्चिदेतत्। इत उतरं चेति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता'ग्रहणत्रता प्रातिपदिकेन तदन्तविधिर्न भवति' इति प्रतिष्ध्यते ? अस्याः परिभाषाया अनित्यत्वं च तस्या गर्गादिषु'वाजासे' इति समासप्रतिषेधाद् गम्यते। नित्यत्वे हि सति वाजशब्दादुत्प्द्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति समासे प्रतिषेधं न कुर्यात्। द्विशूर्पमिति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा न तावगदेषा लुगन्ता प्रकृतिरिति'संख्यापूर्वपदादपि'शूर्पादञ्न्यतरस्याम्' इत्यञेव क्रियते, तस्य ठध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्' इति लुक्। द्विशोर्पिकमिति।'परिमाणान्तस्यासंज्ञाशाणयोः' इत्युतरपदवृद्धिः। यदुक्तम् - ठित उतरं संख्यापूर्वपदानं तदन्तविधिरिष्यतेऽ इति, यच्चोक्तम् -'लुगन्तायास्तु प्रकृतेर्नेष्यते' इति, तदुभयमाप्तागमेन स्थिरीकर्तुमाह - तथा चोक्तमित्यादिना ॥