प्राक् क्रीताच्छः

5-1-1 प्राक् क्रीतात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत्

Sampurna sutra

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


प्राक्-क्रीतात् छः

Neelesh Sanskrit Brief

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


प्राक्-क्रीतीय-अर्थेषु छ-प्रत्ययः औत्सर्गिकरूपेण भवति ।

Neelesh English Brief

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


The छ प्रत्यय is used as a default for the प्राक्-क्रीतीय meanings.

Kashika

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


तेन क्रीतम् 5.1.37 इति वक्ष्यति। प्रागेतस्मात् क्रीतसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः छप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति तस्मै हितम् 5.1.5 इति। वत्सेभ्यो हितः वत्सीयो गोधुक्। करभीयः उष्ट्रः। अकरभीयः। अवत्सीयः। अर्थोऽवधित्वेन गृहीतः, न प्रत्ययः। तेन प्राक् ठञः छन्ः इति नोक्तम्।

Siddhanta Kaumudi

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


॥ अथ तद्धिताधिकारे आर्हीये छयद्विधिप्रकरणम् ॥

तेन क्रीतम् <{SK1702}> इत्यतः प्राक् छोऽधिक्रियते ॥

Laghu Siddhanta Kaumudi

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः चतुर्थःमहोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः तेन क्रीतम् 5.1.37 इति यावत्सु सूत्रेषु आहत्य त्रयः अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राक्-क्रीतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण छ-प्रत्ययः भवति । अस्य छ-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।

छ-प्रत्ययस्य कानिचन उदाहरणानि -

अ) वत्सेभ्यः हितः = वत्स + छ = वत्सीय

आ) अङ्गाराय इदम् = अङ्गार + छ = अङ्गारीय (काष्ठम्)

इ) प्रासादः अस्याम् सा = प्रासाद + छ = प्रासादीय (भूमिः)

प्रक्रिया इयम् -

वत्स + छ

वत्स + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः]

वत्स् + ईय [यस्येति च 6.4.148 इति अकारलोपः]

→ वत्सीय

त्रयः प्राक्क्रीतीयाः अर्थाः एते -

  1. तस्मै हितम् 5.1.5

  2. तदर्थं विकृतेः प्रकृतौ 5.1.12

  3. तदस्य तदस्मिन् स्यादिति 5.1.16

ज्ञातव्यम् - यद्यपि अस्मिन् सूत्रे 'प्राक्-क्रीतीय' इति उक्तमस्ति, तथापि वस्तुतः तदस्य तदस्मिन् स्यादिति 5.1.16 इत्यस्मात् अनन्तरम् तेन क्रीतम् 5.1.37 सूत्रपर्यन्तम् कोऽपि अर्थः न उच्यते । अतः अस्य सूत्रस्य अधिकारः तदस्य तदस्मिन् स्यादिति 5.1.16 इत्यस्य परिखाया ढञ् 5.1.17 इत्यनेन पाठितः यः अपवादः , तावदेव प्रचलति । तस्मात् अग्रे ठञ्-प्रत्ययस्य अधिकारः आरभते ।

Balamanorama

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


प्राक् क्रीताच्छः - अथ पञ्चमाध्यायः । प्राक्क्रीताच्छः । क्रीतशब्दस्तद्धटितसूत्रपरः । तदाह — तेन क्रीतिमिति ।तेन क्रीत॑मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः, तेशु 'छ' इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत् । उश्च गवादयश्चेति द्वन्द्वात्पञ्चमी । उवर्णान्तादिति । प्रातिपदिकविशेषणत्वात्तदन्तविदिः ।उगिद्वर्णग्रहणवर्ज॑मित्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्रं प्राक्कीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषाऽनुपादाने उपतिष्ठते । नाभि नभं चेति । गवादिगणसूत्रम् । नाभिशब्दो नभादेशं यत्प्रत्ययं च प्राप्नोतीत्यर्थः । नभ्योऽक्ष इति । यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नाभिरित्युच्यते तस्मै हितोऽक्षदण्डः । स हि अनुगुणत्वान्नाभये हितः । नभ्यमञ्जनमिति । अञ्जनं-तैलसेकः । नाभेरञ्जनेकृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादञ्जनं नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्रते । भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह — रथनाभावेवेदममिति । शरीरावयवविशेष वाचिनाभिशब्दात्तुशरीरावयवाद्य॑दिति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः । शुनः संप्रसारणमिति । गवादिगणसूत्रम् । आन्शब्दाद्यत्स्यात्प्रकृतेः संप्रसारणं, तस्य संप्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यं — शुन्यमिति । शुने हितमित्यर्थः । ऊधसोऽनङ् चेति । इदमपि गणसूत्रम् । ऊधश्शब्दाद्यत्स्यात्प्रकृतेरनङादेशश्चेत्यर्थः । आदेशे ङकार इत्, नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः ।

Padamanjari

Up

index: 5.1.1 sutra: प्राक् क्रीताच्छः


अतिदोहनाद्वत्सान्प्रति हितो न भवति गोधुगित्येवं प्रकृत्या नञा च युगपत्प्रत्ययार्थस्य सम्बन्धः, प्रधानभूतश्च प्रत्ययार्थः। भवति च प्रधानस्य सापेक्षस्यापि वृत्तिः, प्रधानत्वादेवानेकोपकार्यत्वस्याविरोधात्,'सामान्याप्रयोगः' इति लिङ्गाच्च। किञ्च - विशेषतोऽत्र ज्ञापकमस्ति यदयं नत्रो गुणप्रतिषेधे'सम्पाद्यर्हहितालमर्थास्तद्धिताः' इत्याह, तज्ज्ञापयति -'भवत्येवञ्जातीयके' पि विषये तद्धितःऽ इति, अन्यथा सम्पाद्यर्हहितालमर्था ये तद्धितास्तदन्तान्युतरपदानि नत्रो गुणप्रतिषेधे प्रवृत्तिनिमितप्रतिषेधे वर्तमानात्पराणि न सम्भवेयुः। तत्र पूर्वं प्रत्ययः, प्रश्चान्नञ्समासः। अत एव यत्नसाध्यत्वादवत्सीय इत्यादेरुपन्यासः। यस्तु वत्सादन्यस्मै हितः, यो वा वत्सीयादन्यः, न तत्र किञ्चिदयत्नसाध्यम् । अथ किमर्थमियानवधिरुपादीयते, यावता न ह्यस्य'प्राग्वतेष्ठञ्' इत्यारभ्य ये योगाः'तेन क्रीतम्' इत्येतस्मात्प्राक् पठिताः, तेषु व्यापारोऽस्ति, न हि तत्र कश्चिदर्थो निर्द्दिश्यते, ततश्च'प्राक्ठञः' इति वक्तव्यम्,'प्राग्वतेष्टञ्' इत्ययमेव च प्रत्यासन्नष्ठञग्रहीष्यते, न विप्रकृष्टः'लोकसर्वलोकाट्ठञ्' इत्यादिः? इत्यत आहार्थोऽवधित्वेन गृहीत इति। गृहीतो ग्रहीतुमिष्टः। अयमभिप्रायः - अवश्यमत्रार्थोऽवधित्वेन ग्राह्यः, अन्यथा'प्राक् ठञः' इत्युच्यमानेऽवधिना सजातीयस्यावधिमतोऽभावादर्थाः, प्रकृतयो वाऽवधिमत्वेन गृह्यएरन्-प्राक् ठञो येऽर्थाः, या वा प्रकृतय इति। तत्र प्रकृतिपक्षेऽधिकारस्य नदीस्रोतोरूपेण प्रतिप्रकृत्युपश्थानाद् ठुगवादिभ्यो यच्छश्चऽ इति यच्छयोः सन्निधानादविशेषादुत्सर्गापवादभावो न स्यात्, तव्यतव्यानीयरामिव विकल्प एव स्यात्। अर्थे त्ववधित्वेन गृहीते प्राक् क्रीताद्येऽर्थास्तेष्वस्योपस्थानं भवति। अवधिसजातीयो ह्यवधिमान् भवति, यथा -'मासात्परः' इति कालः प्रतीयते,'ग्रामात्पूर्वः' इति देशः, ठलोऽन्त्यात्पूर्वःऽ इत्यलेव, ततोऽतिप्रसङ्गो न भवति। कथम्? समानार्थे प्रकृतिविसेषा दुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छ्ंअ बाधते। यथा - तक्रंकौण्डिन्ये दधि, अतोऽर्थोऽवधित्वेन गृहीत इति। ननु च'प्राक ठञः' इत्युच्यमाने भवतु नामैघं प्राक्ठञो याः प्रकृतय इति, तथापि यदादिविषषये छाए न भविष्यति, ज्ञापकात्, यदयम्'विभाषा हविरपूपादिभ्यः' इति विभाषां शास्ति, तज्ज्ञापयति-नान्यविषये छाए भवतीति, एवं च कृत्वा च्छ इत्येवाधिकारोऽस्तु, नार्थोऽवधिनिर्देअसेन, ज्ञापकाच्च प्रतिसूत्रमुपस्थानेऽप्यन्यविषये न भविष्यति, प्राग्वतेष्ठञित्यादिके तु प्रकारणे नास्याधिकारः, अधिकारन्तरेणावष्टब्धत्वात् ? सत्यम्; प्रतिपतिगौरवपरिहारार्थस्त्ववधिनिर्देशः, स चावधिरर्थ एव निर्देश्यः, न प्रत्ययः, अन्यथा'लशुनं च भक्षितं व्याधिश्च न निवृतः' इत्येतदापद्येत ॥ उगवादिभ्यो यत् ॥