5-1-15 चर्मणोः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तदर्थं विकृतेः प्रकृतौ
index: 5.1.15 sutra: चर्मणोऽञ्
'तदर्थम् चर्मणः प्रकृतौ' (इति) विकृतेः अञ्
index: 5.1.15 sutra: चर्मणोऽञ्
प्रकृतिवाचकस्य 'चर्मन्' शब्दस्य विकृतिं दर्शयितुम् चतुर्थीसमर्थात् विकृतिवाचकेभ्यः शब्दात् अञ्-प्रत्ययः भवति ।
index: 5.1.15 sutra: चर्मणोऽञ्
चर्मणः इति षष्ठी। चर्मणो या विकृतिः तद्वाचिनः प्रातिपदिकातञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ 5.1.12 इत्येतस्मिन् विषये। छस्य अपवादः। वार्ध्रं चर्म। वारत्रं चर्म।
index: 5.1.15 sutra: चर्मणोऽञ्
चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् । वर्ध्र्यै इदं वार्ध्रं चर्म । वारत्रं चर्म ॥
index: 5.1.15 sutra: चर्मणोऽञ्
चर्मणः यः विकारः, तस्मात् चतुर्थीसमर्थात् चर्मणः निर्देशं कर्तुम् तदर्थम् विकृतेः प्रकृतौ 5.1.12 इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण अञ्-प्रत्ययः विधीयते ।
यथा - चर्मणः परिवर्तनं कृत्वा वर्ध्रस्य (leather band) निर्माणं क्रियते । अत्र 'चर्मन्' इति प्रकृतिः, 'वर्ध्र' इति विकृतिः । अत्र 'चर्मन्' इत्यस्य निर्देशार्थं चतुर्थीसमर्थात् वर्ध्र-शब्दात् अञ्-प्रत्ययः भवति । यथा -
वर्ध्राय इदम् चर्म
= वर्ध्र + अञ्
→ वार्ध्र + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ वार्ध्र् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ वार्ध्र
वर्ध्राय इदम् वार्ध्रम् चर्म । तथैव - वरत्रायै इदम् वारत्रम् चर्म । ('वरत्रा' इति 'वर्ध्र' इत्यस्यैव पर्यायवाची शब्दः)।
ज्ञातव्यम् -
'उपानह्' (पादत्राणम्) इत्यत्रापि निर्माणम् चर्मणः भवितुमर्हति । अतः 'उपानहे इदम् चर्म' इत्यस्मिन् अर्थे उपानह्-शब्दात् अपि वर्तमानसूत्रेण अञ्-प्रत्ययस्य प्रसक्तिः विद्यते । परन्तु तत् बाधित्वा ऋषभोपानहोर्ञ्यः 5.1.14 इत्यनेन पूर्वसूत्रेण अत्र उपानह्-शब्दात् ञ्य-प्रत्ययः विधीयते - उपानहे इदम् औपानह्यम् चर्म ।
'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः तदर्थम् विकृतेः प्रकृतौ 5.1.12 इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः)।
index: 5.1.15 sutra: चर्मणोऽञ्
चर्म्मणोऽञ् - चर्मण्यपीति । चर्मणि प्रकृतित्वेन वाच्येऽपि अयं ञ्य एवचर्मणोऽ॑ञित्ययं परमपि पूर्वविप्रतिषेधेन बाधित्वा भवतीत्यर्थः । एतच्च 'उगवादिभ्यः' इति सूत्रभाष्ये स्थितम् । औपानह्रमिति । उपानदर्तं चर्मेत्यर्थः । चर्मणोऽञ् । 'चर्मण' इति षष्ठन्तं विकृतावन्वेति । तदाह — चर्मणो या विकृतिस्तद्वाचकादिति ।तादथ्र्यचतुथ्र्यन्ता॑दिति शेषः । अञ्स्यादिति ।प्रकृतौ वाच्याया॑मिति शेषः । वध्रर्यै इद॑मिति पाठान्तरम् । 'वृधिवपिब्यां रन्' इति वृधेः रनि लघूपधगुणे रपरत्वे वध्र्रशब्दश्चर्मवाचकः, तस्माद्विकारे अणि वार्ध्री रज्जुः ।
index: 5.1.15 sutra: चर्मणोऽञ्
चर्मण इति षष्ठीति। पञ्चम्यां तु चर्मन्शब्दात्यर्मार्थायां प्रकृतौ प्रत्ययः स्यात् - चर्मणे द्वीपीत्यादौ, न चैवमभिधानमस्ति ॥