लः कर्मणि च भावे चाकर्मकेभ्यः

3-4-69 लः कर्मणि च भावे च अकर्मकेभ्यः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्तरि

Sampurna sutra

Up

लः कर्तरि कर्मणि च, भावे कर्तरि च अकर्मकेभ्यः धातोः परश्च

Neelesh Sanskrit Brief

Up

लकाराः सकर्मकेभ्यः धातुभ्यः कर्तरि कर्मणि च भवन्ति । अकर्मकेभ्यः धातुभ्यः कर्तरि भावे च भवन्ति ।

Neelesh English Brief

Up

For the सकर्मक verb roots, the लकार can be used in the कर्तरि as well as the कर्मणि sense. For the अकर्मक verb roots, the लकार can be used in कर्तरि as well as भावे sense.

Kashika

Up

ल इत्युत्सृष्टानुबन्धं सामान्यं गृह्यते। प्रथमाबहुवचनान्तं चैतत्। लकाराः कर्मणि कारके भवन्ति, चकारात् कर्तरि च। अकर्मकेभ्यो धातुभ्यो भावे भवन्ति, पुनश्चकारात् कर्तरि च। गम्यते ग्रामो देवदत्तेन। गच्छति ग्रामं देवदत्तः। अकर्मकेभ्यः — आस्यते देवदत्तेन। आस्ते देवदत्तः। सकर्मकेभ्यो भावे न भवन्ति॥

Siddhanta Kaumudi

Up

लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥

Laghu Siddhanta Kaumudi

Up

लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च॥

Neelesh Sanskrit Detailed

Up

लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लृङ् - एतेषां दश-प्रत्ययानाम् सामुहिकम् नाम 'लकार' इति । एते प्रत्ययाः धातुभ्यः भिन्नेषु अर्थेषु विधीयन्ते । एतेषां प्रयोगस्य विषये अनेन सूत्रेण एतत् उच्यते - 1. यदि धातुः सकर्मकः अस्ति, तर्हि लकारस्य प्रयोगः कर्तरिप्रयोगे भवितुमर्हति, कर्मणिप्रयोगेऽपि भवितुमर्हति । कुत्र कर्तरिप्रयोगः करणीयः कुत्र च कर्मणिप्रयोगः करणीयः एतत् तु विवक्षाधीनम् एव। यथा - 'पठ्' इति सकर्मकः धातुः । अस्मात् धातोः कर्तरिप्रयोगे अपि लट्-लकारः भवितुमर्हति (यथा - रामः पुस्तकं पठति), तथा कर्मणिप्रयोेगे अपि लट्-लकारः भवितुमर्हति (यथा - रामेण पुस्तकं पठ्यते) । 2. यदि धातुः अकर्मकः अस्ति, तर्हि लकारस्य प्रयोगः कर्तरिप्रयोगे भवितुमर्हति, भावेप्रयोगेऽपि भवितुमर्हति । कुत्र कर्तरिप्रयोगः करणीयः कुत्र च भावेप्रयोगः करणीयः एतत् तु विवक्षाधीनम् । यथा - 'पत्' इति अकर्मकः धातुः । अस्मात् धातोः कर्तरिप्रयोगे अपि लट्-लकारः भवितुमर्हति (यथा - फलं पतति), तथा भावेप्रयोेगे अपि लट्-लकारः भवितुमर्हति (यथा - फलेन पत्यते) । ज्ञातव्यम् - 1. 'कर्तरि प्रयोगः' इत्युक्ते सः प्रयोगः यत्र लकारः कर्तारम् बोधयति । 'कर्मणि प्रयोगः' इत्युक्ते सः प्रयोगः यत्र लकारः कर्मपदम् बोधयति । 'भावे प्रयोगः' इत्युक्ते सः प्रयोगः यत्र लकारः क्रियायाः भावं बोधयति । 2. अस्मिन् सूत्रे 'अकर्मकेभ्यः' इत्येव उक्तमस्ति । परन्तु, 'अकर्मकेभ्यः कर्तरि भावे च भवन्ति' इत्यस्यैव अर्थः 'शेषेभ्यः कर्तरि कर्मणि च भवन्ति' इति जायते । शेषाः धातवः इत्युक्ते सकर्मकाः धातवः । अतएव 'सकर्मकेभ्यः धातुभ्यः' इति सूत्रार्थे उक्तमस्ति । 3. अस्मिन् सूत्रे 'लः' इति प्रथमाबहुवचनमस्ति, अतः सर्वेषाम् लकाराणाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । 4. अविवक्षितकर्माणः अपि अकर्मकाः इति किञ्चन वचनमस्ति । अस्य अर्थः अयम् - यत्र सकर्मकः धातुः कर्मपदं विना प्रयुज्यते, तत्र सः अकर्मकः अस्ति इत्येव मन्यते । अतः 'रामः पठति' इत्यत्र 'पठ्' धातुमकर्मकम् स्वीकृत्य वर्तमानसूत्रेण 'भावे प्रयोगे' तस्य लकाराः भवितुमर्हन्ति (न हि 'कर्मणि प्रयोगे') । अनेन प्रकारेण 'रामेण पठ्यते' इति भावेप्रयोगः सिद्ध्यति । 5. अस्मिन् सूत्रे 'च' इत्यस्य द्विवारं प्रयोगः कृतः अस्ति । अतः 'कर्तरि' इति अनुवृत्तिः 'कर्मणि' इत्यनेन सह अपि योज्यते, 'भावे' इत्यनेन सह अपि योज्यते । अतएव 'कर्मणि कर्तरि च' तथा 'भावे कर्तरि च' इति अन्वयः क्रियते ।

Balamanorama

Up

<<लः कर्मणि च भावे चाकर्मकेभ्यः>> - लः कर्मणि च । वाक्यद्वयमिदं सूत्रम् ।लः कर्मणि चे॑ति प्रथमं वाक्यम् । 'ल' इति प्रथमाबहुवचनान्तम् । चकारेणकर्तरि कृ॑दित्यतःकर्तरी॑त्यनुकृष्यते ।धातो॑रित्यधिकृतम् । लकाराः कर्मणि कर्तरि च धातोः स्युरिति लभ्यते । सकर्मकधातुविषयमेवेदम्, अकर्मकेषुकर्मणी॑त्यस्य बाधितत्वात् । तदाह लकाराः सकर्मकेभ्य इति । एवं च सकर्मकेभ्यो भावे लकारान भवन्ति । सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तुदेवदत्तेन घटं क्रियते॑ इत्यादौ भावलकारेण कर्मणोऽनभिहितत्वाद्द्वितीया स्यादिति भावः । 'भावे चाकर्मकेभ्यः' इति द्वितीयं वाक्यम् । अत्रापि चकारेण कर्तैवानुकृष्यते, न तु कर्म, असंभवात् । तदाह — अकर्मकेभ्यो भावे कर्तरि चेति । अत्राऽकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते । तेन 'देवदत्तेन भुज्यते' इत्यत्र सतोऽप्योदनरूपकर्मणोऽविवक्षायां भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः ।

Padamanjari

Up

'लः' इति लङ्लटोरकारानुबन्धयोः सामान्येन ग्रहणमेकवचनं चेति शङ्कामपाकरोति - ल इत्युत्सृष्टानुबन्धसामान्यमेकं गृह्यत इति । प्रथमाबहुवचनं चैतदिति । सामान्यस्यैकत्वेऽपि'जात्याख्यायामेकस्मिन् बहुवचनम्' । अथादेशापेक्षया षष्ठ।लेकवचनं कस्मान्नाश्रीयते - लः लस्य य आदेश इति, यथा -'लः परस्मैपदम्' इति ? उच्यते; एवं विज्ञायमाने लादेशानामनेनार्थो निदिश्येत, ततश्चाम्विषयस्य लकारस्यार्थो न निर्दिष्टः स्यात्, लुगत्रादेशः । न चाबावरूपस्य तस्यार्थादेशनं युज्यते, ततश्चासौ'कर्तरि कृत्' इति कर्तर्येव स्यात् । ननु च तस्य आमःऽ इति लुकापहारे सत्यनुप्रयोगे ये लादेशास्तैरेव भावादीनामभिव्यक्तिर्भविष्यति ? नैतदस्ति; यदा ह्यम्विषयो लकारः कर्तर्येवेति स्थितम्, तदा विरोधाद्भावकर्मवाचिप्रत्ययपरोऽनुप्रयोगो नैव प्राप्नोति, श्रुतस्यैव च संबन्धोपपतावादेश इत्यध्याहारो न युक्तः । तस्मात्प्रथमाबहुवचननान्तमेव युक्तम् । तत्र द्विविधो लकारः - तिङ्भावी, अतिङ्भावी च । तत्र तिङ्भावनिनः कृत्संज्ञानिषेधात्'कर्तरि कृत्' इत्यस्यानुपस्थानात्स्वार्थे भावे विधानं प्राप्नोति, अतिङ्भाविनस्तु'कर्तरि कृत्' इति वचनात्कर्तर्येव साधुत्वं प्राप्नोति, न भावकर्मणोः - आस्यमानं शय्यमानमित्यादाविति वचनमिदमारभ्यते । ननु च भावकर्मणोरात्मनेपदं विधीयते, शेषात्कर्तरि परस्मैपदम्, ततश्च लकारस्य भावकर्मकर्तारोऽर्था अनुमास्यन्ते । यद्वा लकारस्य प्रयोगेऽसमवायादादेशानामेव तेऽर्था भविष्यन्ति, नार्थ एतेन ? इत्याशङ्क्याह - सकर्मकेभ्यो भावे न भवन्तीति । अनारभ्यमाण एतस्मिन्यथा भावे विधीयमाना घञादयः सकर्मकेभ्योऽपि भावे भवन्ति - ओदनस्य पाकः, सूत्रस्य कृतिरिति, तथा'भावकर्मणोः, इत्यनेन भावे आत्मनेपदं सकर्मकेभ्यो' पि स्यात्, ततश्तच पच्यते यवगूं देवदतेनेति प्रयोगः प्राप्नोति, अतः'भावे चाकर्मकेभ्यः' इति वक्ष्यामीत्ययमारब्धः । अथ तत्रैव'भावकर्मणोरकर्मकात्' इत्युच्यते, तत्राकर्मकग्रहणं कर्तव्यं स्यात्, ननु चेहापि क्रियते ? इहावश्यं कर्तव्यम् -'तयोरेव कृत्यक्तखलर्था भावे चाकर्मकेभ्यः' इति, तस्मात्सकर्मकेभ्यो भावे मा भूदित्यवमर्थमयमारम्भ इति स्थितम् । किं चाम्विषयस्य लकारस्यार्थादेशनार्थमपीदं वक्तव्यम्; इतरथा पूर्वोक्तदोषप्रसङ्गादित्यलमियता ॥