तनूकरणे तक्षः

3-1-76 तनूकरणे तक्षः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्नुः अन्यतरस्याम्

Sampurna sutra

Up

index: 3.1.76 sutra: तनूकरणे तक्षः


कर्त्तरि सार्वधातुके तनूकरणे तक्षः श्नुः अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 3.1.76 sutra: तनूकरणे तक्षः


कर्तरि सार्वधातुके प्रत्यये परे तक्षूँ (तनूकरणे) अस्मात् धातोः श्नु-विकरणप्रत्ययः विकल्पेन भवति ।

Neelesh English Brief

Up

index: 3.1.76 sutra: तनूकरणे तक्षः


In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb तक्ष् with the meaning 'to peel off / to scrape off' gets the श्नु विकरण optionally.

Kashika

Up

index: 3.1.76 sutra: तनूकरणे तक्षः


तक्षू त्वक्षू तनूकरणे, अस्मात् तनूकरणे वर्तमानातनतरस्यां श्नुप्रत्ययो भवति। अनेकार्थत्वाद् धातूनां विशेषणौपादानम्। तक्ष्णोति काष्ठम्, तक्षति काष्ठम्। तनूकरणे इति किम्? संतक्षति वाग्भिः।

Siddhanta Kaumudi

Up

index: 3.1.76 sutra: तनूकरणे तक्षः


श्नुः स्याद्वाशब्विषये । तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ । ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः ।{$ {!657 उक्ष!} सेचने$} । उक्षांचकार ।{$ {!658 रक्ष!} पालने$} ।{$ {!659 णिक्ष!} चुम्बने$} । प्रणिक्षति ।{$ {!660 तृक्ष!} {!661 ष्ट्रक्ष!} {!662 णक्ष!} गतौ$} । तृक्षति । स्तृक्षति । नक्षति ।{$ {!663 वक्ष!} रोषे$} । संघात इत्येके ।{$ {!664 मृक्ष!} संघाते $}। म्रक्ष इत्येके ।{$ {!665 तक्ष!} त्वचने$} । त्वचनं संवरणं त्वचोग्रहणं च । पक्ष परिग्रह इत्येके ।{$ {!666 सूर्क्ष!} आदरे$} । सुसूर्क्ष । अनादर इति तु क्वाचित्कोऽपपाठः । अवज्ञावहेलनमसूर्क्षणमित्यमरः ।{$ {!667 काक्षि!} {!668 वाक्षि!} {!669 माक्षि!} काङ्क्षायाम्$} ।{$ {!670 द्राक्षि!} {!671 ध्राक्षि!} {!672 ध्वाक्षि!} घोरवासिते च$} ।{$ {!673 चूष!} पाने$} । चुचूष ।{$ {!674 तूष!} तुष्टौ$} ।{$ {!675 पूष!} वृद्धौ$} ।{$ {!676 मूष!} स्तेये$} ।{$ {!677 लूष!} {!678 रूष!} भूषायाम्$} ।{$ {!679 शूष!} प्रसवे$} । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः ॥{$ {!680 यूष!} हिंसायाम्$} ।{$ {!681 जूष!} च$} ।{$ {!682 भूष!} अलंकारे$} । भूषति ।{$ {!683 ऊष!} रुजायाम्$} । ऊषांचकार ।{$ {!684 ईष!} उञ्छे$} ।{$ {!685 कष!} {!686 खष!} {!687 शिष!} {!688 जष!} {!689 झष!} {!690 शष!} {!691 वष!} {!692 मष!} {!693 रुष!} {!694 रिष!} हिंसार्थाः$} । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठादिः । चकास । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥

Neelesh Sanskrit Detailed

Up

index: 3.1.76 sutra: तनूकरणे तक्षः


तक्षूँ (तनूकरणे) इति भ्वादिगणस्य धातुः । अस्मात् धातोः कर्तरि शप् 3.1.68 इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण विकल्पेन श्नु-प्रत्ययः विधीयते । श्नु-प्रत्ययस्य अभावे पुनः औत्सर्गिकरूपेण शप्-प्रत्ययविधानम् भवति । यथा - तक्ष्णोति, तक्षति ।

अस्मिन् सूत्रे 'तनूकरणे' इति उक्तमस्ति, अतः भ्वादिगणस्य 'तक्षँ त्वचने' अस्य धातोः अयं विकरणप्रत्ययः न भवति । अतः 'तक्षँ त्वचने' धातोः कर्तरि शप् 3.4.68 इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्ययः एव विधीयते । यथा - तक्षति ।

Balamanorama

Up

index: 3.1.76 sutra: तनूकरणे तक्षः


तनूकरणे तक्षः - तनूकरणे । शेषपूरणेन सूत्रं व्याचष्टे — श्नुः स्याद्वा शब्विषये इति ।स्वादिभ्यः श्नु॑रित्यतः श्नुरिति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तनूकरणेऽर्थे विद्यमानात्तक्षधातोः श्नुः स्यात्कत्र्रर्थे सार्वधातुके इति फलितम् । नच तक्षूधातोस्तनूकरणार्थकत्वाऽव्यभिचारात् श्नुविधौ तनूकरणग्रहणं व्यर्तमिति वाच्यम्, अत एव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तक्ष्णोतीत्यादि । अक्षूवद्रूपाणि । लुङि सिचि इट्पक्षेनेटी॑ति वृद्धिनिषेधे अतक्षीदिति, इडभावे तु अताक्षीदिति च रूपमक्षवत् । एवं त्वक्षूधातुरपि । णिक्षधातुर्णोपदेशः । प्रक्षिणतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् । त्रण ष्ट्रक्ष गताविति । त्रयोऽप्यकारमध्याः । द्वितीयः षोपदेशः । तदाह — रुआक्षतीति । षस्य सत्वे ष्टुत्वनिवृत्तिरिति भावः । णक्षदातुर्णोपदेशः । सिचिनेटी॑ति हलन्तलक्षणवृद्धिनिषेधः । वक्ष रोष इति । वक्ष रोष इति । दन्त्योष्ठआदिः । म्रक्षधातुरकारमध्यः । त्वचनशब्दस्य विवरणं — संवरणमिति । सूक्र्षदातू रेफमध्यः । अपपाठत्वे हेतुमाह — अवज्ञेति । सूक्र्षधातोरनादरार्थकत्वे असूक्र्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः । घोरवाशिते चेति । चात् काङ्क्षायामपि । घोरवाशितं — क्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः । ईष उञ्छ इति । ईदुपधः । कषेत्यारभ्य दश धातवः । तत्र तृतीयो दशमश्च इदुपधः । शिषधातुरनिट्कः । क्रादिनियमात्थलि वसि मसि च नित्यमिट् अजन्ताकारवत्त्वाऽभावेन थलि वेट्कत्वाऽभावात् । शिशेषिथ । शिशिषिव शिशिषिम । अशिक्षदिति । 'शल इगुपधा' दिति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः । ववषतुरिति ।न शसददे॑ति निषेधादेत्तवाभ्यासलोपौ न । रुषधातुः सेट्कः । रोषति । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ रुरुषथुः रुरुष । रुरोषिव रुरुषिम ।

Padamanjari

Up

index: 3.1.76 sutra: तनूकरणे तक्षः


तनूकरणे तक्षः॥अनेकार्थत्वादिति । अत एव विशेषणोपादानादनेकार्थ्वं विज्ञायते। प्रदर्शनार्थस्तु गणे धातूनामर्थनिर्द्देशः। सन्तक्षति वाग्भिरिति। निर्भर्त्सयतीत्यर्थः॥