1-1-42 शि सर्वनामस्थानम्
शि सर्वनामस्थानम्
'शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति ।
'शि' is also called 'सर्वनामस्थान'.
शि इत्येतत् सर्वनामस्थानसंज्ञं भवति। किमिदं शि इति? <<जश्शसोःशिः>> ७.१.२० इति शिरादेशः। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। सर्वनामस्थानप्रदेशाः — <<सर्वनामस्थाने चासंबुद्धौ>> ६.४.८ इत्येवमादयः॥
शि इत्येतदुक्तसंज्ञं स्यात् ॥
शि इत्येतदुक्तसंज्ञं स्यात्॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनामस्थान' इति संज्ञा । <<जश्शसोः शिः>> 7.1.20 इत्यनेन सूत्रेण नपुंसकात् परस्य जस्-प्रत्ययस्य शस्-प्रत्ययस्य च यः 'शि' इति आदेशः विधीयते, तस्य अनेन सूत्रेण 'सर्वनामस्थान' इति संज्ञा भवति ।
<<शि सर्वनामस्थानम्>> - शिसर्वनामस्थानम् । उक्तसंज्ञामिति । सर्वनामस्थानसंज्ञकमित्यर्थः । अनपुंसकस्येति पर्युदासाच्छीत्यस्य सर्वनामस्थानत्वेऽप्राप्ते वचनम् ।
कुण्डानीति । 'जश्शसोझ शिः' शर्वनामस्थाने' इति वर्तमाने 'नपुंसकस्य झलचः' इति नुम् । शर्वनामस्थाने चासम्बुद्धौ' इति दीर्घो यद्यपि 'जसः शीः' ङपुंसकाच्च' इति विहितस्य शीशब्दस्य शब्दलूपापेक्षया नपुंसक ह्रस्वत्वे 'शि' इति रूपं सम्भवति, तथापि लाक्षणिकत्वान्न तस्य ग्रहणम्, सर्वनामस्थानप्रदेशेषु शिग्रहणे सुटो ग्रहणं न स्यात् । शिसुटोरिति वचने नपुंसकसुटोऽपि ग्रहणं प्राप्नोति, अतः संज्ञा तावत्कर्तव्या । किमर्थं तु महती क्रियते ? के चिदाहुः-सर्वनाम तिष्ठत्यस्मिन्नति सर्वनामसोथानम्, नाम प्रतिपदिकम्, सर्वशब्दोऽवयवकार्त्स्यवचनः सर्वावयवयुक्तं यत्र नाम तिष्ठतीत्यर्थः, तेनान्यत्र न्यूनं नाम तिष्ठतीत्यर्थो गम्यते, किं सिद्धं भवति ? 'उपेयुषः' इत्यादौ सम्प्रसारणे कृते पूर्वकृतस्येटो निवृत्तिः सिद्धा भवति; अन्यथा निवृत्तिकारणाभावात् अवतिष्ठेतेति । एवं तु कस्मिन् प्रातिपदिके किं न्यूनमिति न ज्ञायेत ! तस्मात्पूर्वाचार्यानुपालब्धुमेषा महती संज्ञा प्रणीता ॥