मधुबभ्र्वोर्ब्राह्मणकौशिकयोः

4-1-106 मधुबभ्र्वोः ब्राह्मणकौशिकयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे यञ्

Sampurna sutra

Up

'तस्य गोत्रे अपत्यम्' (इति) मधु-बभ्र्वोः ब्राह्मण-कौशिकयोः यञ्

Neelesh Sanskrit Brief

Up

गोत्रापत्यस्य निर्देशार्थम् मधु-शब्दात् ब्राह्मणस्य निर्देशं कर्तुम् तथा बभ्रु-शब्दात् कौशिकगोत्रोत्पन्नस्य निर्देशं कर्तुम् यञ्-प्रत्ययः भवति ।

Kashika

Up

मधुशब्दाद् बभ्रुशब्दात् च गोत्रापत्ये यञ् प्रत्ययो भवति यथासंख्यं ब्राह्मणे कौशिके वाच्ये। माधव्यो भवति ब्राह्मणश्चेत्। माधव एवान्यः। बाभ्रव्यो भवति कौशिकश्चेत्। बाभ्रव एवान्यः। बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम्। गर्गादिषु पाठोऽप्यन्तर्गणकार्यार्थः। <<सर्वत्र लोहितादिकतन्तेभ्यः>> ४.१.१८ इति। बाभ्रव्यायणी॥

Siddhanta Kaumudi

Up

गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> - मधुबभ्व्रोः । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे यञिति । मधुशब्दाद्वभ्रुशब्दाच्च गोत्रापत्ये यञ्स्याद्वाहृणे कौशिके च यथासङ्ख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिर्गर्गाद्यन्तर्गणै इति भावः । बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियञि बाभ्रव्यशब्दात्सर्वत्र लोहितादिकतन्तेभ्यः॑ इति ष्फः ।आयन्नादेशः, षित्त्वान्ङीषिति भावः ।

Padamanjari

Up

गण एव बभ्रुकौशिक इति वक्तव्यम्, एवं हि द्विबेभ्रुग्रहणं न कर्तव्यं भवति ? तथा तु न कृतमित्येव ॥