सुडनपुंसकस्य

1-1-43 सुट् अनपुंसकस्य सर्वनामस्थानम्

Sampurna sutra

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


सुट् अनपुंसकस्य सर्वनामस्थानम्

Neelesh Sanskrit Brief

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


नपुंसकलिङ्गभिन्नशब्दात् विहितानाम् 'सुँ', 'औ', 'जस्', 'अम्', 'औट्' प्रत्ययानाम् 'सर्वनामस्थान' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


The सुँ, औ, जस्, अम्, and औट् प्रत्ययाः attached to a non-नपुंसकलिङ्ग word are called 'सर्वनामस्थान'.

Kashika

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


सुटिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र । नपुंसके न विधिः, न प्रतिषेधः । तेन जसः शेः सर्वनामस्थानसंज्ञा पूर्वेण भवत्येव । राजा, राजानौ, राजानः, राजानम्, राजानौ । सुडिति किम् ? राज्ञः पश्य । अनपुंसकस्य इति किम् ? सामनी, वेमनी ॥

Siddhanta Kaumudi

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


सुट् प्रत्याहारः । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥

Neelesh Sanskrit Detailed

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनामस्थान' इति संज्ञा । अनेन सूत्रेण पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् च विहितानाम् सुट्-प्रत्याहारस्य प्रत्ययानाम् 'सर्वनामस्थान' इति संज्ञा दीयते ।

सुट्-इति कश्चन प्रत्याहारः । स्वौजसमौट्... 4.1.2 अस्मिन् सूत्रे ये २१ प्रत्ययाः पाठ्यन्ते, तेषु विद्यमानाः प्रारम्भिकाः पञ्च प्रत्ययाः - 'सुँ, औ, जस्, अम्, औट्' - एतेषां ग्रहणम् 'सुट्' अस्मिन् प्रत्याहारे कृतम् अस्ति । एते प्रत्ययाः यदा पुंल्लिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा विधीयन्ते, तदा एतेषाम् 'सर्वनामस्थान' इति संज्ञा भवति ।

प्रयोजनम्

सर्वनामसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । द्वे उदाहरणे एतादृशे -

  1. नकारान्तस्य अङ्गस्य उपधावर्णस्य सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन दीर्घादेशः भवति -

राजन् + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः । राजन् इति पुंलिङ्गशब्दात् विहितः अयं प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति ।]

--> राजान् + औ [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन उपधादीर्घः]

--> राजानौ

  1. ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन गुणः भवति -

मातृ + अम् [द्वितीयैकवचनस्य 'अम्' प्रत्ययः । 'मातृ' इति स्त्रीलिङ्गशब्दात् विहितः अयं प्रत्ययः सर्वनामस्थानसंज्ञकः भवति ।]

→ मातर् + अम् [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन ऋकारस्य गुणः अकारः । उरण् रपरः 1.1.51 इति सः रपरः]]

→ मातरम्

Balamanorama

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


सुडनपुंसकस्य - तत्र किं सर्वनामस्थानमित्यत आह — सुडनपुंसकस्य ।शि सर्वनामस्थान॑मित्यतःसर्वानामस्थान॑मित्यनुवर्तते । अक्लीबं=नपुंसकभिन्नप्रातिपदिकं, तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः । तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्व्याचष्टे — सुडिति प्रत्याहार इति ।सु॑इत्यत्र औटष्टकारेणे॑ति शेषः । नतु टाटकारेण, प्रथमातिक्रमणे कारणाऽभावात् ।

Padamanjari

Up

index: 1.1.43 sutra: सुडनपुंसकस्य


सुडिति पञ्च वचनानीति । अनेनौटष्टकारेण प्रत्याहारः, न टाशब्दस्येति दर्शयति । आदिरन्त्येनेत्यत्रान्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्रत्याहारः । लकारे त्वकारस्येत्संज्ञाविधानसामर्थ्यात् प्रत्याहार इति भावः । नपुंसकादन्यत्रेति । अनेन पूर्युदासतां दर्शयति । प्रज्यप्रतिषेधे हि कुण्डानि तिष्ठन्तीति जसः शौ, पूर्वेण या प्राप्तिस्तस्या अपि प्रतिषेधशङ्कायाम् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति परिहर्तव्यं स्याद्, असमर्थसमासश्चाश्रयणीयः स्यात् । नपुंसके न विधिरिति । स्त्रीपुंससम्बन्धिनः सुट उपादानाद् । न प्रतिषेध इति । विधिप्रधानत्वात् पर्युदासस्य । तेनेत्यादि । यत एवं नपुंसकेनास्य व्यापारः तेन जसो यः शिस्तस्य पूर्वेण संज्ञा भवतीति । सामनी इति । नपुंसकाच्चेति शीभावः । 'विभाषा ङिश्योः' इत्यिल्लोपाभावे दीर्घो न भवति ॥