6-4-130 पादः पत् असिद्धवत् अत्र आभात् भस्य
पादः भस्य अङ्गस्य पत्
भसंज्ञकस्य पाद्-शब्दस्य अङ्गस्य पद्-इत्यादेशः भवति ।
The भसंज्ञक अङ्ग of the word पाद् gets पद् as आदेश.
पाद इति पादशब्दो लुप्ताकारो गृह्यते। तदन्तस्याङ्गस्य भस्य पदित्ययमादेशो भवति। स च <<निर्दिश्यमानस्यादेशा भवन्ति>> इति पाच्छब्दस्यैव भवति, न तदन्तस्य सर्वस्य। द्विपदःपश्य। द्विपदा। द्विपदे। द्विपदिकां ददाति। त्रिपदिकां ददाति। वैयाघ्रपद्यः॥
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपद्भ्यामित्यादि ॥ अग्निं मन्थतीत्यग्निमत् । अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमद्भ्यामित्यादि । ऋत्विग् <{SK373}> इत्यादिसूत्रेणाञ्चेः सुप्युपपदे क्विन् ॥
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः॥ सुपदः। सुपदा। सुपाद्भ्याम्॥ अग्निमत्, अग्निमद्। अग्निमथौ। अग्निमथः॥
भसंज्ञकस्य 'पाद्' इत्यस्य पद् इति आदेशः भवति । यथा - 'सुपाद्' शब्दस्य तृतीयैकवचनस्य रूपम् = सुपाद् + टा → सुपद् + टा → सुपदा । अत्र केचन विशेषाः ज्ञेयाः - 1. काशिकाकारः अस्य सूत्रस्य व्याख्याने वदति - 'अत्र पादशब्दः लुप्त-अकारः गृह्यते' । इत्युक्ते, वस्तुतः 'पाद्' इति शब्दः संस्कृतभाषायाम् नैव विद्यते । 'पाद' उत 'पद्' एतौ एव साधुशब्दौ । परन्तु कुत्रचित् 'पाद' इति अदन्तशब्दस्य अकारस्य लोपं कृत्वा 'पाद्' इति शब्दः सिद्ध्यति । तादृशस्य 'पाद्' शब्दस्य अत्र ग्रहणम् इष्यते - इति । यथा, 'शौभनौ पादौ यस्य सः' इत्यस्मिन् अर्थे बहुव्रीहिसमासे कृते 'सु + पाद' इति स्थिते अग्रे <<पादस्य लोपोऽहस्त्यादिभ्यः>> 5.4.138 इत्यनेन अकारलोपं कृत्वा 'सुपाद्' इति शब्दः सिद्ध्यति । अस्य भसंज्ञायां सत्याम् 'पाद्' इत्यस्य 'पद्' आदेशः भवेत् इति वर्तमानसूत्रेण स्पष्टीक्रियते । एवमेव, 'द्वौ द्वौ पादौ' इत्यत्रापि <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> 5.4.1 इत्यनेन तत्पुरुषसमासं अकारलोपं च कृत्वा 'द्विपाद्' इति प्राप्ते 'वुन्' प्रत्यये परे तस्य भसंज्ञा भवति, अतः वर्तमानसूत्रेण 'पाद् ' शब्दस्य 'पद्' आदेशं कृत्वा 'द्विपदिका' इति शब्दः सिद्ध्यति । अस्य सम्पूर्णा प्रकिया <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> 5.4.1 इत्यत्र निर्दिष्टा अस्ति । 2. 'सुपाद् + टा' इति स्थिते वस्तुतः <<येन विधिस्तदन्तस्य>> 1.1.72 इत्यनेन सुपाद्-शब्दस्य सम्पूर्णस्य 'पद्' आदेशः भवेत् । परन्तु अस्मिन् विषये एका परिभाषा पाठ्यते - <<निर्दिश्यमानस्य आदेशाः भवन्ति>> । अनया परिभाषया यत्र कस्यचन पदार्थस्य विशिष्टरूपेण निर्देशं कृत्वा आदेशविधानं कृतमस्ति, तत्र तस्मात् शब्दादेव प्रत्ययः विधीयते, तदन्तात् न । अतः 'सुपाद् + टा' इत्यत्र केवलम् 'पाद्' शब्दस्यैव 'पद्' आदेशः भवति, न हि 'सुपाद्' शब्दस्य । 3. सूत्रेऽस्मिन् यद्यपि 'पत्' इत्युच्यते तथापि आदेशः 'पद्' अयमेव विधीयते ति । पद्-इत्यस्य दकारस्य <<वाऽवसाने>>8.4.56 इत्यनेन चर्त्वम् कृत्वा सूत्रे 'पत्' इति निर्देशः कृतः अस्ति ।
पादिति पादशब्दो लुप्ताकारो गृह्यत इति । पादयतेः क्विबन्तस्याप्यत्र ग्रहणमिति येन विधिस्तदन्तस्य इत्यत्र भाष्यकारेणोक्तम् । तस्मादपिशब्दाध्याहारेणायं ग्रन्थो योज्यः । लुप्ताकारः पादशब्दोऽपि गृह्यते, पादयतिः क्विबन्तोऽपि । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति वक्तव्यातदन्तस्याङ्गस्येत्यत्रापि तस्य चाङ्गस्येति द्रष्टव्यम् । तदन्ते तु वक्तव्यमस्तीति तसेयैव प्राधान्येनोपन्यासः, तद्दर्शयति - स चेति । यद्यपि पाच्छब्देन तदन्तः समुदायः प्रत्याय्यते, तथापि विशेषणत्वेन यो निर्द्दिश्यते तत्रापि यतः षष्ठी श्रूयते तस्यैवादेशः, न प्रतीयमानस्य समुदायस्येत्यर्थः । द्विपद इति । द्वौ पादावस्येति बहुव्रीहिः, संख्यासुपूर्वस्य इत्यन्तलोपः । द्विपदिकामिति । पादशतस्य संख्यादेः इति वुन्, लोपश्च । व्याघ्रपाच्छब्दो गर्गादिः ॥