1-3-6 षः प्रत्ययस्य धातवः इत् आदिः
उपदेशे प्रत्ययस्य आदिः षः इत्
प्रत्ययस्य औपदेशिकस्वरूपस्य आदिस्थः षकारः इत्संज्ञकः भवति ।
The letter ष् at the beginning of the औपदेशिक form of a प्रत्यय is called 'इत्' ।
षकारः प्रत्ययस्यादिरित्संज्ञो भवति। <<शिल्पिनि ष्वुन्>> ३.१.१४५ — नर्तकी। रजकी। प्रत्ययस्येति किम्? षोडः। षण्डः। षडिकः। आदिरित्येव — ‘अविमह्योष्टिषच् (प० उ०१.४५) — अविषः। महिषः॥
प्रत्ययस्यादिः ष इत्स्यात् ॥
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यस्मात् <<लशक्वतद्धिते>> 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् पञ्चमं सूत्रम् । अनेन सूत्रेण प्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य षकारस्य इत्संज्ञा विधीयते । एतादृशः आदिस्थः षकारः अष्टाध्याय्याम् आहत्य 17 प्रत्ययानाम् औपदेशिकस्वरूपे वर्तते । एतेषु त्रयः प्रत्ययाः कृत्संज्ञकाः सन्ति, अन्ये चतुर्दश प्रत्ययाः तद्धितसंज्ञका सन्ति ।एतेषम् आवली इयम् —
1. त्रयः कृत्संज्ञकाः प्रत्ययाः — षाकन्, ष्ट्रन्, ष्वुन् ।
2. चतुर्दश तद्धितसंज्ञकाः प्रत्ययाः — ष, षच्, षङ्गवच्, षिकन्, षेण्यण्, ष्कन्, ष्टरच्, ष्ठच्, ष्ठन्, ष्ठल्, ष्फक्, ष्यङ्, ष्यञ्, ष्फ ।
एतेषु सर्वेषु आदौ विद्यमानस्य षकारस्य <<षः प्रत्ययस्य>> 1.3.5 इत्यनेन इत्संज्ञा भवति । अतः एते सर्वे प्रत्ययाः 'षित्-प्रत्ययाः' नाम्ना अपि ज्ञायन्ते ।
<<षः प्रत्ययस्य>> - षऋ प्रत्ययस्य । 'आदिर्ञिटुडवः' इत्यत आदिरित्यनुवर्तते ।उपदेशेऽजनुनासिक इ॑दित्यत इदिति च । तदाह — प्रत्ययस्यादिरिति । षकारस्य इत्संज्ञायां तस्य लोपः ।
रजकीति।'षिद्गौरादिभ्यश्च' इति ङीष्। कथं पुनरत्रोपधालोपः, यावता अनिदितां हल उपधायाः क्ङिति इत्युच्यते? ज्ञापयतिरञ्जेरक्ङित्यपि क्वचिदुपधालोपो भवतीति । षोड इति। षड् दन्ता अस्य वयसि दन्तस्य दतृ षष उत्वम्, दतृदशधासूतरपदादेः ष्टुअत्वम् । षषोऽन्त्यस्योत्वमुतरपदादेर्डकारः, षोडन्तमाचष्टे इति णिचि टिलोपे पचाद्यचि णिलोपः।'षणु दाने' 'ञमन्ताड्डः' , उणादयो बहुलम् इति बहुलवचनात् इत्संज्ञासत्वयोरभावः। षडिक इति। अनुकम्पितः षड्ङ्गुलिः बह्वचो मनुष्यनाम्नष्ठज् वा'ठाजादावूर्द्धं द्वितीयादचः' इति ङ्गुलिशब्दस्य लोपः, यस्येतिलोपस्य स्थानिवद्भावात् षकारान्तेऽवधौ भसंज्ञाया अभावादन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वम्। अत्रेत्संज्ञायां ङीष्प्रसङ्गः। यद्यप्येते समुदाया न क्वाप्युपदिश्यन्ते, षकारस्तु षष उत्वम्, षणु दाने इत्युपदेशस्थो भवति। अविषः महिष इति। अविमह्यएष्टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति; ईकारस्य टित्वादेव सिद्धेः। न च पक्षे ङीषर्थः षकारः, ङीपोषऽपि चितः परस्योदातनिवृत्तिस्वरेणोदातत्वात्, सत्यम्; अन्यतरस्यैव श्रवणार्थ उपदेशः स्यादिति टकारस्यापि शङ्क्योत॥