ऊकालोऽज्झ्रस्वदीर्घप्लुतः

1-2-27 ऊकालः अच् ह्रस्वदीर्घप्लुतः

Sampurna sutra

Up

ऊकालः अच् ह्रस्व-दीर्घ-प्लुतः

Neelesh Sanskrit Brief

Up

उ-ऊ-उ3 एतेषां उच्चारणकालः यस्य उच्चारणकालेन सह समानः, सः अच् क्रमेण ह्रस्वसंज्ञकः, दीर्घसंज्ञकः, प्लुतसंज्ञकः भवति ।

Neelesh English Brief

Up

Vowels are classified as ह्रस्व, दीर्घ and प्लुत based on the time taken for their pronunciation, as compared against the time of उ, ऊ and उ3 respectively.

Kashika

Up

ऊ इति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः। ह्रस्वदीर्घप्लुत इति द्वन्द्वैकवद्भावे पुँल्लिङ्गनिर्देशः। उ ऊ ऊ3 इत्येवंकालोऽज् यथाक्रमं ह्रस्वदीर्घप्लुत इत्येवंसंज्ञो भवति। उकालो ह्रस्वः — दधि। मधु। ऊकालो दीर्घः — कुमारी गौरी। ऊ३कालः प्लुतः — देवदत्त३ अत्र न्वसि। कालग्रहणं परिमाणार्थम्। दीर्घप्लुतयोर्ह्रस्वसंज्ञा मा भूत् — आलूय। प्रलूय। ह्रस्वस्य पिति कृति तुक् (६.१.७१) इति तुङ् न भवति। अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्। प्रतक्ष्य। प्ररक्ष्य। ह्रस्वाश्रयस्तुङ् मा भूत्। तित — उच्छत्रम्। <<दीर्घात्>> (६.१.७५) <<पदान्ताद् वा>> (६.१.७६) इति विभाषा तुङ् मा भूत्। ह्रस्वदीर्घप्लुतप्रदेशाः — <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> (१.२.४७)। <<अकृत्सार्वधातुकयोर्दीर्घः>> (७.४.२५)। <<वाक्यस्य टेःप्लुत उदात्तः>> (८.२.८२)॥

Siddhanta Kaumudi

Up

उश्च ऊश्च उ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥

Laghu Siddhanta Kaumudi

Up

उश्च ऊश्च उ3श्च वः; वां काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादिभेदेन त्रिधा॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः वर्तन्ते 'ह्रस्वः', 'दीर्घः', 'प्लुतः' एताः तिस्रः संज्ञाः । स्वराणाम् उच्चारणकारस्य आधारेण तेषां एताः संज्ञाः दीयन्ते । एतासाम् तिसृणाम् अपि संज्ञानाम् विधानम् पाणिनिना अस्मिन् एकस्मिन्नेव सूत्रे कृतम् अस्ति, तदर्थं च सः 'ऊकालः' इति शब्दं प्रयुङ्क्ते । 'ऊकालः' इत्यत्र विद्यमानः 'ऊ' इति अंशः ह्रस्व-उकारः, दीर्घ-ऊकारः, तथा प्लुत-उ3कारः —इत्येतेषां सवर्णदीर्घं कृत्वा निर्मितः अस्ति । 'उ', 'ऊ', 'उ3' इत्येतेषाम् उच्चारणस्य यः कालः, तादृशः कालः यस्य स्वरस्य उच्चारणार्थम् आवश्यकः, सः स्वरः यथासङ्ख्यम् ह्रस्व-दीर्घ-प्लुत-शब्देन ज्ञायते, इति अस्य आशयः । तदित्थम् — 1. ह्रस्वः — यस्य स्वरस्य उच्चारणकालः 'उ' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, एकमात्रिकः) अस्ति, सः स्वरः 'ह्रस्वः' नाम्ना ज्ञायते । 'अ', 'इ', 'उ', 'ऋ', 'ऌ' एते स्वराः ह्रस्वसंज्ञकाः सन्ति । 2. दीर्घः — यस्य स्वरस्य उच्चारणकालः 'ऊ' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, द्विमात्रिकः) अस्ति, सः स्वरः 'दीर्घः' नाम्ना ज्ञायते । 'आ', 'ई', 'ऊ', 'ॠ', 'ए', 'ऐ', 'ओ', 'औ' एते स्वराः दीर्घसंज्ञकाः सन्ति । 3. प्लुतः — यस्य स्वरस्य उच्चारणकालः 'उ3' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, त्रिमात्रिकः) अस्ति, सः स्वरः 'प्लुतः' नाम्ना ज्ञायते । 'अ3', 'इ3', 'उ3', 'ऋ3', 'ऌ3' 'ए3', 'ऐ3', 'ओ3', 'औ3' एते स्वराः प्लुतसंज्ञकाः सन्ति । अस्मिन् विषये एका कारिका अपि प्रसिद्धा वर्तते - एकमात्रो भवेत् ह्रस्वः, द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयः, व्यञ्जनं त्वर्धमात्रिकम् ॥ व्यञ्जनस्य उच्चारणस्य कालः अर्धमात्रा, ह्रस्वस्वरस्य उच्चारणकालः एका मात्रा, दीर्घस्वरस्य उच्चारणकालः द्वे मात्रे, प्लुतस्वरस्य च उच्चारणकालः तिस्रः मात्राः — इति अस्याः कारिकायाः आशयः । परन्तु सर्वेषाम् अपि स्वराणाम् एते सर्वे भेदाः न विद्यन्ते । तत्र इदं ज्ञेयम् - 1. अ, इ, उ, ऋ — एतेषाम् सर्वेषाम् त्रयः अपि ह्रस्व-दीर्घ-प्लुतभेदाः भवन्ति । 2. — इत्यस्य दीर्घभेदः नास्ति, अतः तस्य केवलं ह्रस्व-प्लुत-भेदौ भवतः । 3. ए, ऐ, ओ, औ — एतेषाम् ह्रस्वभेदः नास्ति, अतः एतेषाम् केवलम् दीर्घ-प्लुत-भेदौ भवतः । ह्रस्व-दीर्घ-प्लुत-संज्ञाः स्वराणामेव विद्यन्ते, न हि व्यञ्जनानाम् । सर्वाणि व्यञ्जनानि तु अर्धमात्रिकानि एव सन्ति । ह्रस्व-दीर्घ-प्लुत-संज्ञानाम् प्रयोजनम् ह्रस्वादीनां संज्ञानां प्रयोगः अष्टाध्याय्यां बहुषु सूत्रेषु कृतः अस्ति । एतासां प्रयोगेण भिन्नाः विधयः उच्यन्ते । प्रत्येकं संज्ञाम् अधिकृत्य एकम् उदाहरणम् अधः दत्तम् अस्ति — 1. ह्रस्वस्वरात् अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य ह्रस्वस्वरस्य 'तुक्' इति आगमः भवति । यथा — पृच्छ्यते इति (कृद्वृत्तिः) = प्रछँ (ज्ञीप्सायाम्, तुदादिः, <{06.0149}>) + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → प्रछ् + अनीय [इत्संज्ञालोपः] → प्र तुक् छ् + अनीय [ह्रस्व-अकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र <<छे च>> 6.1.73 इत्यनेन अकारस्य 'तुक्' इति आगमः भवति । <<आद्यन्तौ टकितौ>> 1.1.46 इति अयम् आगमः अकारात् अनन्तरम् आगच्छति ।] → प्र त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → प्र च् छ् + अनीय [<<स्तोः श्चुना श्चुः>> इति श्चुत्वम्] → प्रच्छनीय 2. अपदान्त-दीर्घस्वरात् अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य दीर्घस्वरस्य 'तुक्' इति आगमः भवति । यथा — = म्लेछँ (अव्यक्ते शब्दे, भ्वादिः, <{01.0233}>) + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → म्लेछ् + अनीय [इत्संज्ञालोपः] → म्ले तुक् छ् + अनीय [अपदान्त-दीर्घ-एकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र <<दीर्घात्>> 6.1.75 इत्यनेन एकारस्य 'तुक्' इति आगमः भवति । <<आद्यन्तौ टकितौ>> 1.1.46 इति अयम् आगमः एकारात् अनन्तरम् आगच्छति ।] → म्ले त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → म्ले च् छ् + अनीय [<<स्तोः श्चुना श्चुः>> इति श्चुत्वम्] → म्लेच्छनीय 3. प्लुतस्वरात् परः अच्-वर्णः विद्यते चेत् संहितायाम् सत्याम् अपि सन्धिः न भवति । यथा — कृष्ण३ + अत्र → कृष्ण३ अत्र [<<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन प्लुतस्वरस्य अच्-वर्णे परे प्रकृतिभावः । अतः अत्र <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घः न भवति ।] सूत्रे 'ऊकाल'ग्रहणस्य सन्दर्भः कुक्कुटः यदा उच्चैः आक्रोशति, तदा तस्य मुखात् उवर्णस्य त्रयः अपि स्वरभेदाः उत्सृजन्ति । इत्युक्ते, अवर्णस्य इवर्णस्य वा अपेक्षया उवर्णस्य ह्रस्व-दीर्घ-प्लुत-भेदाः जनैः कुक्कुटस्य आक्रोशे सरलतया श्रूयन्ते । अतएव अत्र सूत्रे 'आकालः' उत 'ईकाल' इत्यस्य अपेक्षया 'ऊकालः' इति शब्दनिर्देशः क्रियते ।

Balamanorama

Up

<<ऊकालोऽज्झ्रस्वदीर्घप्लुतः>> - तदेवमणादिसंज्ञासु सिद्धासु अचो ह्रस्वादिसंज्ञां विधत्ते — ऊकालोऽजिति । 'ह्रस्वदीर्घप्लुत' इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्षम् । उ ऊ ऊ३ इति त्रयाणां एकमात्रद्विमात्रत्रिमात्राणां द्वन्द्वसमासे सति सवर्णदीर्घेण ऊ इति प्रश्लिष्टनिर्देशः । तेषां कालः ऊकालः । कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः । ऊकालः कालो यस्येति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति द्विपदो बहुव्रीहिः । ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह — वां काल इवेत्यादिना । 'वः' इति ऊशब्दस्य प्रथमाबहुवचनम् । वामिति षष्टीबहुवचनम् । वां काल इव कालो यस्येति फलितार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहिः । क्रमादिति । यथासंख्यसूत्रलभ्यमेतत् । इहैव तत्सूत्रमुपन्यसितुमुचितम् । नच उ ऊ ऊ३ इत्युवर्णानां कथं ह्रस्वदीर्घप्लुतसंज्ञाः, तेषामूकालसदृशकालत्वाऽभावात्, सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम् । ऊ शब्दस्यात्र एकमात्रद्विमात्रत्रिमात्रकुक्कुटरुतानुकरणत्वात् । स इति । सः=ह्रस्वः दीर्घः प्लुतश्च अच्, प्रत्येकमुदात्तादिभेदेन=उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषण, त्रिधा = त्रिभिः प्रकारैर्वर्तत इत्यर्थः ।

Padamanjari

Up

ऊः कालो यस्य स ऊकालः ऽतपरस्तत्कालस्यऽ इतिवन्निर्देशः समर्थनीयः । एतच्च संज्ञिनो विशेषणम्, च ऽऊऽ इत्येकस्यैव शब्दस्योच्चारणाद्विशेषणस्यैकत्वात् संज्ञाप्येकैवेति यश्चोदयेत् तं प्रत्याह - ऊ इति त्रयाणामित्यादि । प्रश्लेषणमु प्रश्लिष्टम्, तेन निर्देशः उ प्रश्लिष्टनिर्देशः । तेन विशेषणत्रयपरिच्छिन्नास्त्रयः संज्ञिन इत्यर्थः । प्रश्लेषणे प्रमाणमाह-ह्रस्वेति । ह्रस्वदीर्घप्लुत इति न तावदेका संज्ञा; गौरवादनावृतेश्च । अतस्तिसृणां संज्ञानां द्वन्द्वोऽयम् । न चैकस्यानेकसंज्ञाकरणे प्रयोजनमस्ति । लुगादिसंज्ञास्वपि तद्भावितत्वेन प्रत्ययादर्शनस्य भेद आशितः, प्रकारान्तरासम्भवाद् । इह तु निर्देश एव त्रयाणां सम्भवति । तस्मात्संज्ञानां त्रित्वात् संज्ञिनामपि त्रित्वमनुमीयत इति भावः । ऽबहुवचननिरासार्थमेकवद्भावःऽ इत्युक्तम्, समाहारद्वन्द्व इत्यर्थः । ऽस नपुंसकम्ऽ कैत्येततु न भवतीत्याह-पुंल्लिङ्गमनिर्देश इति । सौत्र इति भावः । प्रश्लेषे क्रममाह- उ ऊ ऊ3 इत्येकं काल इति । उकारादीनां परिच्छेदको यः कालो निमेषादिः, तत्काल इत्यर्थः । कुतः पुनरवसितमेष एव क्रम इति ? आदौ मध्ये वा त्रिमात्रे प्लुताश्रयः प्रकृतिभावः प्राप्नोति, तथा मध्येऽन्ते वा मात्रिके ऽद्वन्द्वे घिऽ इत्येतद्वाध्येतेति चेति, न; अनेन हि प्लुतसंज्ञा, ततश्चादौ मध्ये वा पठितस्य त्रिमात्रस्य प्लुतसंज्ञैव न, कुतः प्रकृतिभावः ! यदि च मात्रिको मध्येऽन्ते वा स्यात्, ह्रस्वसंज्ञैव न स्यात् कुतो घिसंज्ञा ! कुतस्तरां पूर्वनिपातः ! एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् ऽविभाषा पृष्टप्रतिवचने हेःऽ इति हेः प्लुतं शास्ति, तज् ज्ञापयति-नान्ते मात्रिक इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । अनन्तरतमप्लुतार्थमेतत्स्यादिति चेत्, न हि सत्यां गतौ परिभाषा बाध्या । यच्च ऽसुपि चऽ इति दीर्घत्वं शास्ति, तज् ज्ञापयति-न मध्ये मात्रिक इति । कथं यो मध्ये स दीर्घः ? दीर्घस्य दीर्घवचनमनर्थकम् । यच्च ऽओमभ्यादानेऽ इत्योमः प्लुतं शास्ति, तज् ज्ञापयति - द्विमात्रिको नान्त्य इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । दधि,मध्विति । रूपोदाहरणे । कुमारीत्यादि कार्योदाहरणम् ऽहल्ङ्याब्भ्यःऽ इति दीर्घाश्रयः सुलोपो भवति । देवदत3 अत्र न्वसीति । ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः । देवदत त्वमत्र भवसीति प्रश्नः । नुशब्द प्रश्नं द्योतयति । देवदतशब्दात्परस्य सोः ऽससजुषो रुःऽ इति रुत्वम्, ऽअतो रोरप्लुतात्ऽ इत्युत्वे प्रतिषिद्धे ऽभोभगोअघोअपूर्वस्य योऽशिऽ इति यत्वम्, ऽलोपः शाकल्यस्यऽ । उकारोऽयमण्, तेन द्विमात्रयोरपि ग्रहणाद् ह्रस्वसंज्ञा प्राप्नोति । न च दीर्घप्लुतसंज्ञाभ्यां बाधः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशाभ्युपगमाद्, अत आह-कालग्रहणमिति । कालग्रहणं तावदुकारादिभिः प्रत्येकमभिसम्बध्यते, ऊकाल इत्यस्मिन्वाक्ये सत्यपि सवर्णग्रहणे कालशब्दस्य न पुनः प्रत्येकपरिसमाप्तिर्युज्यते, कुतः ? एकस्यैव श्रुतत्वात् । द्विमात्रत्रिमात्रौ हि संज्ञित्वेन प्रतीयेते, न तु साक्षादुच्चरितौ । एवं चैकत्वाद्वहुव्रीहेरेक एव संज्ञी, तत्रैकस्य विरुद्धकालद्वयासम्भवेन सवर्णग्रहणाभावाच्छ्4%अत एवोकारः कालविशेषणमिति कालग्रहणं संज्ञिनः परिमाणार्थम् । यद्वा-ऊ अजित्येव कालार्थो लभ्यते, कथम् ? उकारादयोऽच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते, अपि तु तैरच् । न चाज्मात्रस्योकारादित्वमुपपद्यत इति सामानाधिकरण्यान्यथानुपपत्या तत्सदृशस्याचः प्रतिपतिः । तत्र च स्थानसाम्यमसम्भवान्न गृह्यते, प्रयत्नसाम्यं चाव्यभिचारीति कालसाम्यमेव ग्रहीष्यते, नार्थः कालग्रहणेन । तत्क्रियते श्रूयमाणेनैव कालं विशेषयितुमिति कालग्रहणं परिमाणार्थम् । आलुयेति । ह्रस्वाश्रयस्तुङ् न भवति । तितौच्छत्रमिति । असत्यज्ग्रहणे चद्वयसमुदायस्य प्रत्येकवर्णकालसंकलनया द्विमात्रत्वाद्दीर्घसंज्ञा स्याद् । यस्तु मध्येऽर्द्धमात्राकालः सवर्णकालो न भवतीति समुदायस्य द्विमात्रत्वं न व्याहन्तीति स्यादेव प्रसङ्गे । अज्ग्रहणे तु न भवति; अच्समुदायस्यानच्त्वात् । यद्यपि वर्णग्रहणे जातिग्रहणम्, सा तु जातिरेकैकव्यक्तिव्यङ्ग्या न समुदायव्यङ्ग्या, तेन दीर्घसंज्ञायामभावात् ऽदीर्घात्ऽऽपदान्ताद्वाऽ इति तुग्विकल्पो न भवति । न च सत्यपि विकल्पे तेन मुक्ते ह्रस्वाश्रयस्तुग् लभ्यते; समुदाये कार्यमारभ्यमाणेऽवयवानां स्वकार्यं प्रत्यव्यापारात् ॥