अन्येभ्योऽपि दृश्यन्ते

3-2-75 अन्येभ्यः अपि दृश्यन्ते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि विच् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसीति निवृत्तम्। अन्येभ्योऽपि धातुभ्योऽनाकारान्तेभ्यो मनिन् क्वनिप् वनिप् इत्येते प्रत्यया दृश्यन्ते, विच्च। सुशर्मा। क्वनिप् — प्रात॒रित्वा॑ (ऋ० १.१२५.१)। प्रातरित्वानौ (काठ० सं० ३०.१)। वनिप् — वि॒जावाग्ने॒ (ऋ० ३.१.२३)। अग्रेगावा। विच् खल्वपि — रेड॑सि॒ (मा०सं० ६.१८)। अपिशब्दःसर्वोपाधिव्यभिचारार्थः। निरुपपदादपि भवति। धीवा॑ (शौ०सं० ३.५.६)। पी॑वा॒ (मै०सं० २.५.११)। दृशिग्रहणं प्रयोगानुसरणार्थम्॥

Siddhanta Kaumudi

Up

छन्दसीति निवृत्तम् । मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥

Laghu Siddhanta Kaumudi

Up

मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अन्येभ्योऽपि दृश्यन्ते>> - अन्येभ्योऽपि दृस्यन्ते । 'विजुपे छन्दसि'आतोमिन्क्वनिब्वनिपश्चे॑त्यधिकारे इदं इत्, इकार उच्चारणार्थः । विचि चकार इत् इकार उच्चारणार्थः ।

Padamanjari

Up

अन्येभ्योऽपि द्दश्यते॥ अपिशब्दः सर्वविधिव्यभिचारार्थ इति। विधीयतेऽनेनेति विधिःऊपाधिः। सर्वोपाधिव्यभिचारार्थ इति युक्तः पाठः। द्दशिग्रहणं प्रयोगानुसरणार्थमिति।'यथा प्रयोगे द्दश्यन्ते तथैव भवन्ति' इति वचनव्यक्त्याश्रयेणेति भावः॥