3-2-74 आतः मनिन्क्वनिब्वनिपः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि विच् छन्दसि
छन्दसीति वर्तते, सुप्युपसर्गेऽपीति च। आकारान्तेभ्यो धातुभ्यः सुप्युपपदे छन्दसि विषये मनिन् क्वनिब् वनिब् इत्येते प्रत्यया भवन्ति। चकाराद् विज् भवति। सुदा॑मा॒ (ऋ० ६.२०.७)। अश्वत्थामा। क्वनिप् — सुधीवा। सुपीवा । वनिप् — भू॑रि॒दावा॑ (ऋ० ९.८७.४)। घृ॒त॒पावा॒ (शौ०सं० १३.१.२४)। विच् खल्वपि — की॒ला॒ल॒पाः (ऋ० १०.९१.१४)। शुभं॒याः (ऋ० ४.३.६)। रामस्योपदाः॥
सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः । ब्रह्मभ्रूणवृत्रेषु क्विप् - <{SK2998}> ॥
आतो मनिन्क्वनिब्वनिपश्च॥ अश्व इव तिष्ठति अश्वत्थामा, पृषोदरादित्वात्सकारस्य तकारः। सुधीवा, सुपीवेति। घुमास्थादिसूत्रेण ईत्वम्। चकारो विचोऽनुकर्षणार्थः। यद्येवम्, उतरत्रानुवृत्तिर्न स्यात्? एवं तर्हि चकारोऽप्युतरत्रानुवर्तिष्यते॥