अमि पूर्वः

6-1-107 अमि पूर्वः संहितायाम् अचि एकः पूर्वपरयोः अकः

Sampurna sutra

Up

अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम्

Neelesh Sanskrit Brief

Up

अक्-वर्णात् अम्-प्रत्ययस्य अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।

Neelesh English Brief

Up

When a letter from the अक् प्रत्याहार is followed अकार of the अम्-प्रत्यय, both the letters are combined to form a पूर्वरूप-एकादेश.

Kashika

Up

अक इत्येव। अमि परतोऽकः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। वृक्षम्। प्लक्षम्। अग्निम्। वायुम्। पूर्वग्रहणं किम् ? पूर्व एव यथा स्यात्, पूर्वसवर्णोऽन्तरतमो मा भूदिति, कुमारीमित्यत्र हि त्रिमात्रः स्यात्। वा छन्दसीत्येव — शमीं॑ च(काठ० सं० ३६.६), शम्यं च। गौरीं च, गौ॒र्यं॑(ऋ०४.१२.६) च॥

Siddhanta Kaumudi

Up

अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥

Laghu Siddhanta Kaumudi

Up

अकोऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥

Neelesh Sanskrit Detailed

Up

अक्-वर्णात् प्रथमाद्वितीयाविभक्त्योः अजादिप्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यतेन पूर्वसवर्णदीर्घे प्राप्ते, अम्-प्रत्यये परे एतम् पूर्वसवर्णदीर्घं बाधित्वा प्रकृतसूत्रेण पूर्वरूपैकादेशः विधीयते ।कानिचन उदाहरणानि एतानि — 1. अजन्तशब्दानाम् द्वितीयैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण पूर्वरूपैकादेशः भवति — राम / हाहा / माला / मुनि / मति / नदी / साधु / धेनु / हूहू / वधू + अम् → रामम् / हाहाम् / मालाम् / मुनिम् / मतिम् / साधुम् / हूहूम् / वधूम् [ <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते तद्बाधित्वा <<अमि पूर्वः>> 6.1.107 इति पूर्वरूपैकादेशः] 2. त्यदादिगणस्य त्यद्, तद्, यद्, एतद्, किम् एतादृशानां शब्दानां द्वितीयैकवचनस्य प्रक्रियायाम् अपि प्रकृतसूत्रं प्रयुज्यते । यथा — तद् + अम् [द्वितीयैकवचनस्य अम्-प्रत्ययः] → तअ + अम् [<<त्यदादीनामः>> 7.2.102 इति अकारादेशः] → त + अम् [<<अतो गुणे>> 6.1.97 इति पररूपम्] → तम् [<<अमि पूर्वः>> 6.1.107 इति पूर्वरूपम् ]
एवमेव त्यम्, यम्, एतम् एतानि रूपाणि अपि सिद्ध्यन्ति । किम्शब्दस्य प्रक्रियायाम् <<किमः कः>> 7.2.103 इत्यनेन क इति आदेशे कृते ततः <<अमि पूर्वः>> 6.1.107 इति पूर्वरूपं कृत्वा कम् इति रूपं सिद्ध्यति । स्त्रीलिङ्गे अपि अदन्त-आदेशात् अनन्तरम् टाप्-प्रत्यये कृते ततः <<अमि पूर्वः>> 6.1.107 इति पूर्वरूपे कृते ताम्, त्याम्, याम्, एताम्, काम् इत्यादीनि रूपाणि सिद्ध्यन्ति ।

  1. प्रकृतसूत्रस्य प्रयोगः युष्मद्/अस्मद्-सर्वनाम्नोः प्रथमाविभक्तेः त्रयाणां रूपाणां सिद्धौ अपि भवति । यथा — युष्मद् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → युष्मद् + अम् [<<ङेः प्रथमयोरम्>> 7.1.28 इति सुँ-प्रत्ययस्य अम्-आदेशः] → त्व अद् + अम् [<<त्वाहौ सौ>> 7.2.94 इति युष्म्-इत्यस्य त्व-आदेशः] → त्व अ ० + अम् [<<शेषे लोपः>> 7.2.90 → त्व + अम् [<<अतो गुणे>> 6.1.97 इति पररूपम्] → त्वम् [<<अमि पूर्वः>> 6.1.107 इति पूर्वरूपम् ]
    एवमेव युवाम्, यूयम्, त्वाम्, अहम्, आवाम्, वयम्, माम् — एतेषाम् प्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः भवति ।
  2. अकारान्तनपुंसकलिङ्गशब्दाम् प्रथमैकवचनस्य, द्वितीयैकवचनस्य सम्बोधनैकवचनस्य रूपसिद्धौ अपि इदं सूत्रम् उपयुज्यते — फल + सुँ / अम् → फल + अम् [<<अतोऽम्>> 7.1.24 ] → फलम् [<<अमि पूर्वः>> 6.1.107 ] लङ्लकारस्य अम्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रयोगः बालमनोरमायाम् भू-धातोः विषये लङ्लकारस्य उत्तमपुरुषैकवचनस्य अम्-प्रत्यये परे इदम् एव सूत्रम् उपयुज्य रूपसिद्धिः क्रियते । तत्र <<इतश्च>> 3.4.100 इत्यस्मिन् सूत्रे उच्यते - अभवम् इति मिपः अमादेशे शपि गुणे अवादेशे, पूर्वरूपम् — इति । इत्युक्ते, बालमनोरमाकारस्य मतेन अभव + अम् इत्यत्र <<अतो गुणे>> 6.1.97 इति सूत्रम् परत्वात् बाधित्वा <<अमि पूर्वः>> 6.1.107 इत्यनेन पूर्वरूपैकादेशे कृते 'अभवम्' इति रूपं सिद्ध्यति । वस्तुतस्तु अयं विषयः चिन्त्यः, यतः <<अमि पूर्वः>> 6.1.107 इत्यस्य विशेषप्रयोगस्य लङ्लकारस्य प्रक्रियायाम् न हि किञ्चन प्रयोजनम् वर्तते — तत्र <<अतो गुणे>> 6.1.97 इत्यनेन गुणैकादेशे कृते अपि साधु रूपम् एव सिद्ध्यति । अपि च, <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यस्य अपवादरूपेण पाठितम्, अतएव केवलं द्वितीयैकवचनस्य अम्-प्रत्ययस्य विषये विद्यमानम् इदं सूत्रम् तिङन्तप्रक्रियायाम् कथं प्रयोगम् अर्हति इत्यस्मिन् विषये अन्यत्र कुत्रापि न किञ्चिदपि विवरीतम् अस्ति । यदि च <<अमि पूर्वः>> 6.1.107 इति सूत्रम् सर्वेषाम् अपि 'अम्' शब्दानाम् कृते उपयोक्तुम् शक्यम् स्यात्, तर्हि अव्ययसंज्ञके 'अम्' शब्दे परे अस्य प्रयोगस्य अतिप्रसङ्गः स्यात् । अतः इदम् सूत्रम् केवलम् प्रथमा-द्वितीययोः अम्-प्रत्ययस्य कृते एव प्रयोक्तव्यम् इत्येव उचितः निर्णयः । प्रथमाद्वितीयां विहाय अन्येषु विभक्तिप्रत्ययेषु परेषु अस्य सूत्रस्य प्रयोगः युष्मद्/अस्मद्-सर्वनाम्नोः चतुर्थ्यैकवचनस्य प्रक्रियायाम् प्रत्ययस्य अम्-आदेशः भवति । एतादृशे आदेशे कृते <<अमि पूर्वः>> 6.1.107 इत्यनेन पूर्वरूपे कृते अपि इष्टं रूपं सिद्ध्यति, अथ वा <<अतो गुणे>> 6.1.97 इति पररूपे कृते अपि इष्टरूपं सिद्ध्यति । यथा — युष्मद् / अस्मद् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → युष्मद् / अस्मद् + अम् [<<ङे प्रथमयोरम्>> 7.1.28 इति अमादेशः] → तुभ्यद् / मह्यद् + अम् [<<तुभ्यमह्यौ ङयि>> 7.2.95 इति तुभ्य / मह्य - आदेशः] → तुभ्य + मह्य + अम् [<<शेषे लोपः>> 7.2.90 इति दकारलोपः] → तुभ्यम् / मह्यम् [<<अमि पूर्वः>> 6.1.107 इति पूर्वरूपैकादेशः, अथ वा <<अतो गुणे>> 6.1.97 इति पररूपैकादेशः] यद्यपि अत्र <<अमि पूर्वः>> 6.1.107 इत्यस्य प्रयोगः कर्तुं शक्यः, तथापि एतादृशस्य प्रयोगस्य साधुत्वार्थम् <<अमि पूर्वः>> 6.1.107 इति सूत्रम् नैव रचितम् ; अपि तु अम्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन प्राप्तस्य अनिष्टस्य पूर्वसवर्णदीर्घस्य बाधं कृत्वा इष्टस्य अकारैकादैशस्य प्राप्त्यर्थम् <<अमि पूर्वः>> 6.1.107 इति सूत्रम् विरचितम् अस्ति — इति स्मर्तव्यम् । वैदिकप्रयोगेषु विकल्पः वैदिकप्रयोगेषु कुत्रचित् <<अमि पूर्वः>> 6.1.107 इति सूत्रम् विना अपि द्वितीयैकवचनस्य रूपम् प्रयुक्तं दृश्यते । यथा, गौरीं च गौर्यं च (ऋग्वेदः 10.126.8) - इत्यत्र 'गौरी' शब्दस्य प्रथमाद्विवचनस्य अम्-प्रत्यये परे <<अमि पूर्वः>> 6.1.107 इत्यनेन प्राप्तम् पूर्वरूपम् विकल्प्यते, येन पक्षे <<इको यणचि>> 6.1.77 इति यणादेशं कृत्वा 'गौर्यम्' इति रूपम्, पक्षे च <<अमि पूर्वः>> 6.1.107 इत्यनेन पूर्वरूपं कृत्वा 'गौरीम्' इत्यपि रूपं सिद्ध्यति । एतादृशानाम् रूपाणाम् साधुत्वज्ञापनार्थम् <<वा छन्दसि>> 6.1.107 इति पूर्वसूत्रम् अत्र सम्पूर्णरूपेण अनुवर्त्यते, येन 'अमि पूर्वः, छन्दसि वा' इति सूत्रम् सिद्ध्यति, येन वेदेषु अस्य सूत्रस्य पाक्षिकत्वम् स्पष्टम् भवति । सूत्रे 'अचि' इत्यस्य अनुवृत्तिः सिद्धान्तकौमुद्याम् अस्मिन् सूत्रे 'अचि' इति पदस्य <<इको यणचि>> 6.1.77 इत्यतः अनुवृत्तिः स्वीक्रियते । 'अमि अचि' इति अस्य अन्वयं कृत्वा 'अम्-इत्यस्य अच्-वर्णे परे' इति अर्थविधानम् अत्र कृतम् अस्ति । अस्य प्रयोजनम् बालमनोरमायाम् उच्यते — अचि इति अननुवृत्तौ अकः अमि परे पूर्वपरयोः पूर्वरूपमैकादेशः स्याद् इति लभ्यते, तथा सति अमः मकारसहितस्य पूर्वरूपम् स्यात्, तत् मा भूत् इति अजनुवृत्तिः । — अमि पूर्वः सूत्रे बालमनोरमा । परन्तु एतादृशी अनुवृत्तिः वस्तुतः नैव आवश्यकी, यतः 'अमि' इत्यत्र <<आदेः परस्य>> 1.1.54 इत्यनेन आदिवर्णस्यैव ग्रहणम् सम्भवति । अयमेव बिन्दुः तत्त्वबोधिन्याम् अपि स्पष्टीकृतः अस्ति — कथं तर्हि काशिकादौ अमि परतः इत्येव उक्तम्, न तु अमि अचि इति चेद्, अत्र आहुः — <<तस्मादित्युत्तरस्य>> 1.1.67, <<आदेः परस्य>> 1.1.54 इति आदेः एव आदेशः इति निर्णिते <<एकः पूर्वपरयोः>> 6.1.84 इति आदेशः पूर्वपरयोः वर्णयोः एव भविष्यति, इत्याशयेन न उक्तम् । — अमि पूर्वः सूत्रे तत्त्वबोधिनी ।

Balamanorama

Up

<<अमि पूर्वः>> -अकः सवर्ण॑ इति बाधित्वा 'अतो गुण' इति पररूपं प्राप्तम्-तद्बाधित्वा॒प्रथमयो॑रिति पूर्वसवर्णदीर्घे प्राप्ते — अमिपूर्वः । 'अकः सवर्णे दीर्घ' इत्यतोऽक इति पञ्चम्यन्तमनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् ।इको यणची॑त्यतोऽचीत्यनुवर्तते । तदाह — अकोऽम्यचीति । अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः ।राम॑मिति मकारादकारस्य अमवयवाऽकारस्य च पूर्वरूपमकार एको भवति । अचीत्यनुवृत्तौअकोऽमि परे पूर्वपरयोः पूर्वरूपमेकादेशः स्या॑दिति लभ्यते । तथा सति अमो मकारसहितस्य पूर्वरूपं स्यात् । तन्मा भूदित्यजनुवृत्तिः । रामाविति । राम औडिति स्थिते हलन्त्यमिति टकारस्य इत्संज्ञायां लोपः औटष्टकारः सुडिति प्रत्याहारार्थः ।

Padamanjari

Up

'दूर्घात्' इति नानुर्क्तते, आरम्भसामर्थ्यात्। पूर्वग्रहणमित्यादि। यः पूर्वः श्रुतः, स एव यथा स्यात्, कः पुनरन्यः प्राप्नोति ? तत्राह -पूर्वसवर्णो दीर्घो मा भूदिति। क्वचितु समासः पठ।ल्ते, स कर्मधारयो द्रष्टव्य। एतदुक्तं भवति -असतीह पूर्वह्रहणे प्रकृतं पूर्वग्रहणमनुवर्त्यम्, तस्मिंश्चानुवर्तमाने तत्सम्बद्धं सवर्णग्रहणमप्यनुवर्त्यम्, ततश्च पूर्वस्य यः सवर्णः स एवान्तरतमः प्रसज्येत, तत्र को दोषः ? न तावद्वृक्षमित्यातदौ द्विमात्रस्य स्थानित्वेन द्विमात्रप्रसह्गः, वचनसामर्थ्यात्'प्रथयोः पूर्वसवर्णः' इत्येव दीर्घस्य सिद्धत्वात् ? अत आह -कुमारीमित्यत्रेति। वा च्छन्दसीत्येवेति। एतच्च वाक्यभेदेन सम्बद्ध्यते, अन्यथा भाषायां न स्यात्। शम्यं चेति। विकल्पविदानसामर्थ्यात्पूर्वत्वाभावे पूर्वसवर्णदीर्घोऽपि न भवति, तयोरत्र विशेषाभावादिति यणादेश एव भवति ॥