उच्चैरुदात्तः

1-2-29 उच्चैः उदात्तः अच्

Sampurna sutra

Up

index: 1.2.29 sutra: उच्चैरुदात्तः


उच्चैः अच् उदात्तः

Neelesh Sanskrit Brief

Up

index: 1.2.29 sutra: उच्चैरुदात्तः


यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य ऊर्ध्वभागात् भवति, तस्य 'उदात्तः' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.2.29 sutra: उच्चैरुदात्तः


A vowel that is pronounced using the upper-half portion of its उच्चारणस्थान is known as उदात्त.

Kashika

Up

index: 1.2.29 sutra: उच्चैरुदात्तः


अचिति वर्तते। उदात्ताऽदिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव। ते इह तद्गुणेऽचि परिभाष्यन्ते। उच्चैरुपलभ्यमानो योऽच् स उदात्तसंज्ञो भवति। उच्चैः इति च श्रुतिप्रकर्षो न गृह्यते, उच्चैर्भाषते, उचैः पठतीति। किं तर्हि? स्थानकृतमुच्चत्वं संज्ञिनो विशेषणम्। ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते। तत्र यः समाने स्थाने ऊर्ध्वभगनिष्पन्नोऽच् स उदात्तसंज्ञो भवति। यस्मिन्नुचार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता क्ण्ठविवरस्य। ये। ते। के। उदात्तप्रदेशाःआद्युदात्तश्च 3.1.3 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.2.29 sutra: उच्चैरुदात्तः


ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥

Neelesh Sanskrit Detailed

Up

index: 1.2.29 sutra: उच्चैरुदात्तः


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'उदात्तः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणम् उच्चारणस्थानस्य केवलम् ऊर्ध्वभागात् भवति (इत्युक्ते, उच्चारणसमये उच्चारणस्थानस्य ऊर्ध्वभागे एव वायोः चलनम् भवति) , तस्य स्वरस्य 'उदात्तः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —

1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य ऊर्ध्वभागात् सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः उदात्तसंज्ञकः भवति ।

2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः ऊर्ध्वभागात् सम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः उदात्तसंज्ञकः भवति ।

3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः ऊर्ध्वभागात् सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः उदात्तसंज्ञकः भवति ।

4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः ऊर्ध्वभागात् सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः उदात्तसंज्ञकः भवति ।

5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च ऊर्ध्वभागात् सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः उदात्तसंज्ञकाः भवन्ति ।

6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च ऊर्ध्वभागात् सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः उदात्तसंज्ञकाः भवन्ति ।

अनेन प्रकारेण निर्दिष्टस्य स्थानस्य केवलम् ऊर्ध्वभागात् यस्य स्वरस्य उच्चारणम् भवति, सः स्वरः 'उदात्तः' नाम्ना ज्ञायते ।

  1. वस्तुतः उदात्त-अनुदात्त-स्वरित-संज्ञाः वेदानाम् उच्चारणस्य सन्दर्भे प्रसिद्धाः वर्तन्ते । तत्र उदात्तः = medium pitch, अनुदात्तः = low pitch, स्वरितः = high pitch इति भेदः कृतः अस्ति । एतासाम् एव संज्ञानाम् विधानम् पाणिनिमहर्षिणा अष्टाध्याय्यां उच्चैरुदात्तः 1.2.29, नीचैरनुदात्तः 1.2.30 तथा च समाहारः स्वरितः 1.2.31 एतैः त्रिभिः सूत्रैः उच्चारणस्थानस्य प्रभागानाम् आधारेण कृतम् अस्ति । अतः, एतेषु सूत्रेषु विद्यमानाः 'उच्चैः', 'नीचैः', तथा 'समाहारः' एते शब्दाः pitch-विषये निर्देशं न कुर्वन्ति अपितु उच्चारणस्थाने वायोः गतिः कस्मिन् प्रभागे विद्यते इत्येतस्य निर्देशं कुर्वन्ति इति अवश्यम् स्मर्तव्यम् ।

  2. उदात्तस्वरस्य लेखनसमये स्वरस्य अधः उत उपरि किमपि चिह्नम् न दीयते । यथा - अ इति उदात्तः स्वरः ।

उदात्तसंज्ञायाः सूत्रेषु प्रयोगः

भिन्नेषु सूत्रेषु स्वराणाम् उच्चारणविशेषं दर्शयितुम् 'उदात्त'संज्ञायाः प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —

1) लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति सूत्रेण लङ्/लुङ्/लृङ्लकाराणाम् रूपेषु दृश्यमानः 'अट्' इति आगमः उदात्तसंज्ञकः अस्ति ।

2) आद्युदात्तश्च 3.1.3 इति सूत्रेण प्रत्यस्यस्य आदिस्वरस्य औत्सर्गिकम् उदात्तत्वम् विधीयते ।

3) वाक्यस्य टेः प्लुत उदात्तः 8.2.82 इत्यस्मिन् अधिकारे उक्तैः भिन्नैः सूत्रैः यः प्लुत-आदेशः भवति, सः उदात्तसंज्ञकः ज्ञेयः ।

Balamanorama

Up

index: 1.2.29 sutra: उच्चैरुदात्तः


उच्चैरुदात्तः - उदात्तसंज्ञामाह — उच्चैरुदात्तः । नादधर्मविशेष उच्चैस्त्वं नेह विवक्षितम्, उपांशूच्चार्यमाणे अव्याप्तेः । किन्तूच्चैश्शब्दोऽधिकरणशक्ति प्रधान ऊध्र्वभागे इत्यर्थे वर्तते । ऊध्र्वावयवस्य चावयव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते । उकालोऽजिति सूत्रादजित्यनुवर्तते, तदेतदाह-ताल्वादिष्वित्यादिना । सभागेष्विति । ताल्वादीनां सावयवत्वकथनमूध्र्वभागे इत्यस्योपपादनार्थम्, तेषामखण्डत्वे 'ऊध्र्वभागे' इत्यनुपपत्तेः । उदात्तमुदाहरति-आ ये इति । 'आये मित्रावरुणा' इत्यृचि आकार एकारश्च उदात्त इत्यर्थः ।

Padamanjari

Up

index: 1.2.29 sutra: उच्चैरुदात्तः


उदातादिशब्दा इत्यादि । सत्यं प्रसिद्धा एव ते, कुत्र प्रसिद्धाः ? धर्ममात्रे स्वरे, न तु तद्वत्यचि । ततस्च ऽउदातादनुदातस्य स्वरितःऽ इति स्वरिताख्यस्य धर्मस्यैव विधिः स्यात्, न च धर्मधर्मिणोः स्थान्यादेशभावः संभवतीति ऽषष्ठी स्थानेयोगाऽ इत्यस्यानुपस्थानात् तदङ्गभूतम् ऽतस्मादित्युतरस्यऽ इत्येतदपि न प्रवर्तेतेति पूर्वस्याप्यचः स्वरितप्रसङ्गः । स्यादेतत्-यथा ऽकृपो रो लःऽ इत्यत्र ऋकारस्य रेफस्य लृकारस्थे लकारेऽपि विहिते कृत्स्नस्य वर्णस्य कृत्स्न एव वर्णो भवति, तद्वदिहापि धर्मिणोरेव स्थान्यादेशभावो भविष्यतीति युक्तं तत्र रेफलकारावृकारलृकारयोरात्मभूतौ न तावन्तरेण तावुच्चारयितुं शक्यौ, इह तूदातादिकमन्तरेणाप्यच उच्चारणं शक्यम्, दृष्ट्ंअ च भाषायामिति धर्ममात्रमेवादेशः स्यात् । नन्वेवं स्थिते स्थान्यपि धर्म एवेति युक्त एव परिभाषाव्यापारः, सत्यम्; वर्णमात्रधर्मोऽयमुदातादिरिति व्यामोहनिवर्तनेनाचामेवायं धर्मो न हलामिति दर्शयितुमिदमारब्धम् । अत एव वर्णधर्मे इति सामान्येनोक्तम् । तद्गुणेऽचीति । स उदातादिर्गुणो यस्य । एतेन वस्तुतोऽज्धर्मत्वमुदातादेर्दर्शितम् । तथा हि, अन्तरेणापि हलमच एष धर्मा दृश्यते-आ ते पितर्मरुतां सुम्नमेरु, यथा आकारस्य, नान्तरेणयं व्यञ्जनस्योच्चारणमपि भवति, कुत एव स्वरः ! यदि च हलामप्येते गुणास्ततो हलामचां च पृथक् स्वरोऽप्युपलभ्येत । यतस्तु खल्वचामेव स्वरमनुविदधति हलस्ततो निश्चीयते-अजुपरागादेषु स्वरप्रतिभासो न स्वत इति । अजुपरगश्च पूर्वपरसंनिधानेऽपि परेणैव भवति, न पूर्वेण । परिभाष्यन्त इति । केचिदाहुः-प्रदेशे लोकप्रसिद्ध्या हलामचां च ग्रहणे प्राप्तेऽचामेव ग्रहणं नियम्यते इति परिभाषेयमिति । अन्ये तु -धर्मिण्यप्रसिद्धत्वात् संज्ञात्वेन परिभाष्यन्ते इति व्याचक्षते । उच्चै रित्यस्याधिकरणप्रधानत्वात् क्रियापेक्षत्वाच्चाधिकरणस्योपलभ्यमान इत्युक्तम् ॥ श्रुतिप्रर्षो न गृह्यत इति । यदि गृह्यते उपांशुप्रयोगे न स्यादित्यव्याप्तिः, श्रुतिप्रकर्षस्य चानवस्थितत्वाद्यदेव कञ्चित्प्रत्युच्चैस्तदेव कञ्चित्प्रति नीचैरिति सर्वमुदातं स्यात्, सर्वं चानुदातमित्यमतिव्याप्तिव्यस्था च स्याद् इति भावः । स्थानकृतमित्यादि । उच्चता नाम प्रमाणविशेष ऊर्ध्वतापर्यातः, तत्र ताल्वादिबसंन्धो वर्णानामन्तरङ्ग इति स्थानसंबन्धिन्युच्चता गृह्यते, तत्कृतमुच्चैस्त्वं संज्ञिनो विशेषणम् । ननु पूर्वमुच्चैरुपलभ्यमान इति ताल्वादिस्थानवृत्तिरुच्चैः-शब्दो दर्शितः, इह तूच्चैःस्थाननिषपन्नत्वाद् अजेवोच्चैरित्युच्यते इति उक्तिविरोधः, न; पूर्वमक्षरार्थ उक्तः, इह तु वस्त्वर्थो व्याख्यातः । ननु चोच्चैः स्थान उपलभ्यमान इत्याश्रितेऽपि प्रांशुपुरुषोच्चारितोऽनुदातोप्युदात एव स्याद्, वामनपुरुषोच्चारित उदातोऽप्यमुदातः स्यात्; तत्रान्योऽन्यमुच्चतानीचतायोगाद्, अत आह-ताल्वादिषु हीति । ताल्वादीनि स्थानानि भागवन्ति, भागाश्चौतराधर्येण व्यवस्थिताः । तत्र यः समान इति । एकपर्यायोऽयं समान शब्दः । तेनायमर्थः-एकस्मिंस्ताल्वादिके स्थाने ऊर्ध्वाधरभगयुक्ते ऊर्ध्वभागेनोच्चार्यमाणोऽजदातसंज्ञो भवति । एवं चोच्चैरित्यस्योर्ध्वभाग इत्यर्थः । सर्वश्चायमर्थो लोकप्रसिद्धेरेव लभ्यते, सूत्रं तु व्यामोहनिवृत्यर्थम् । ऊर्ध्वभागनिष्पतेरप्रत्यक्षत्वात् तन्निश्चये लिङ्गमाह-यस्मिन्निति । आयाम इत्यस्य विवरणं निग्रहः । रूक्षतेत्यस्य विवरणमस्निग्धतेति । संवृततेति । अणुता । अत एव वायुः शनैर्निष्क्रामन् गलावयवान् शोषयतीति स्वरस्य रूक्षता भवति । ये ते के इति । यतत्किंभ्यो जसि त्यादद्यत्वम्, ऽजसः शीऽ, आद्गुणः,ऽएकादेश उदातेनोदातः ऽ ॥