पुमः खय्यम्परे

8-3-6 पुमः खयि अम्परे पदस्य पूर्वत्र असिद्धम् संहितायाम् रु

Sampurna sutra

Up

पुमः रुँ अम्-परे खयि

Neelesh Sanskrit Brief

Up

'पुम्' शब्दात् परः संहितायाम् खय्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् पुम्-शब्दस्य मकारस्य रुँ आदेशः भवति ।

Neelesh English Brief

Up

In the context of संहिता, when the word पुम् is followed by a letter from खय् प्रत्याहार which in turn is followed by a letter form अम् प्रत्याहार, the मकार of पुम् is converted to रुँ.

Kashika

Up

पुमित्येतस्य रुर्भवत्यम्परे खयि परतः। पुँस्कामा, पुंस्कामा। पुँस्पुत्रः, पुंस्पुत्रः। पुँस्फलम्, पुंस्फलम्। पुँश्चली,पुंश्चली। पुंस्कामेत्यत्र विसर्जनीयस्य <<कुप्वोः क पौ च>> ८.३.३७ इति प्राप्नोति। तस्मादत्र सकार एवादेशो वक्तव्यः। द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात् स इत्यनुवर्तते। रुत्वं त्वनुवर्तमानमपि नात्राभिसंबध्यते, संबन्धानुवृत्तिस्तस्येति। खयीति किम्? पुंदासः। पुंगवः। अम्पर इति किम्? पुंक्षीरम्। पुंक्षुरम्। परग्रहणं किम्? पुमाख्यः। पुमाचारः॥

Siddhanta Kaumudi

Up

अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे अप्रत्ययस्ये <{SK155}>ति षत्वपर्युदासात् क पयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुंकानामिति सः । पुँस्कोकिलः । पुंस्कोकिलः । पुँस्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि किम् । पुंदासः ॥<!ख्याञादेशे न !> (वार्तिकम्) ॥ पुंख्यानम् ॥

Laghu Siddhanta Kaumudi

Up

अम्परे खयि पुमो रुः। पुँस्कोकिलः, पुंस्कोकिलः॥

Neelesh Sanskrit Detailed

Up

सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> 8.3.1 इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् षष्ठं सूत्रम् । 'पुम्' शब्दात् अनन्तरम् संहितायाम् खय्-वर्णः, तस्मात् च अनन्तरम् संहितायाम् अम्-वर्णः वर्तते चेत् पुम्-शब्दस्य मकारस्य अनेन सूत्रेण रुँ आदेशः भवति । खय् = वर्गप्रथमाः, वर्गद्वितीयाः = ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प् । आहत्य दश व्यञ्जनानि । अम् = स्वराः, अन्तःस्थाः, वर्गपञ्चमाः, हकारः । सर्वे स्वराः + आहत्य दश व्यञ्जनानि । संस्कृते 'पुम्' इति कश्चन पृथक् शब्दः नास्ति, अपितु 'पुम्' इत्यनेन 'पुम्स्' इति शब्दस्य आदिस्थस्य अंशं निर्देशः क्रियते । पुम्स्-शब्दस्य अन्तिमसकारस्य यदा लोपः क्रियते, तदा अवशिष्टस्य 'पुम्' शब्दस्य विषये इदं सूत्रं प्रवर्तते, इति अत्र आशयः । यथा, 'पुमान् कोकिलः' इत्यत्र कर्मधारयसमासे अस्य सूत्रस्य प्रयोगं कृत्वा 'पुँस्कोकिलः / पुंस्कोकिलः' इति द्वे रूपे भवतः । प्रक्रिया इत्थम् — पुमान् च असौ कोकिलः च [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] →‌ पुम्स् + कोकिल [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुँलोपः] → पुम् + कोकिल [समस्तपदस्य पूर्वपदम् तस्य पदत्वं नैव जहाति, अतः पदसंज्ञायां सत्यां <<संयोगान्तस्य लोपः>> 8.2.23 इति पदान्ते विद्यमानस्य सकारस्य लोपः क्रियते ।] → पुरुँ + कोकिल ['क्' इति खय्-वर्णः, तस्मात् अनन्तरम् 'अ' इति अम्-वर्णः विद्यते । अतः <<पुमः खय्यम्परे>> 8.3.6 इति मकारस्य रुँत्वम् भवति ।] → पुँरुँ कोकिल / पुंरुँ कोकिल [<<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति विकल्पेन अनुनासिकत्वम् । तदभावे <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इति अनुस्वारः] → पुँःकोकिल / पुंःकोकिल [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गादेशः] → पुँस्कोकिल / पुंस्कोकिल [विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इत्यनेन षत्वे प्राप्ते तद्बाधित्वा <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन सत्वम् भवति ।] अनेनैव प्रकारेण अन्यानि अपि बहूनि उदारहणानि दातुम् शक्यन्ते । यथा — 1. पुमान् च असौ खरः → पुम्स् + खरः → पुम् + खरः → पुँस्खरः, पुंस्खरः । 2. पुमान् च असौ पुत्रः → पुम्स् पुत्रः → पुम् + पुत्रः → पुँस्पुत्रः, पुंस्पुत्रः । 3. पुमान् च असौ क्नूतश्च (wet) → पुम्स् + क्नूत → पुम् + क्नूत → पुँस्क्नूत, पुंस्क्नूत । 4. पुमान् त्वम् → पुम्स् + त्वम् → पुम् + त्वम् → पुँस्त्वम्, पुंस्त्वम् । अत्र प्रक्रियायाम् <<विसर्जनीयस्य सः>> 8.3.34 इत्यनेनैव सत्वं भवितुम् अर्हति । 5. पुमान् चालकः → पुम्स् + चालक → पुम् + चालक → पुँस्चालक, पुंस्चालक → पुँश्चालक, पुंश्चालक । अत्र प्रक्रियायाम् <<विसर्जनीयस्य सः>> 8.3.34 इत्यनेनैव सत्वं कृत्वा ततः <<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वे कृते रूपं सिद्ध्यति । 6. पुमान् टङ्कपतिः → पुम्स् + टङ्कपति → पुम् + टङ्कपति → पुँस्टङ्कपति, पुंस्टङ्कपति → पुँष्टङ्कपति, पुंष्टङ्कपति । अत्र प्रक्रियायाम् <<विसर्जनीयस्य सः>> 8.3.34 इत्यनेनैव सत्वं कृत्वा ततः <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे कृते रूपं सिद्ध्यति । अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन <<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति अनुनासिकादेशः भवति, तदभावे च <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः । पुम्स्-शब्दस्य व्युत्पत्तिः ; विसर्गस्य नित्यम् सकारादेशविधानम् पुम्स् इति शब्दः <<पातेर्डुम्सुन्>> इति उणादिसूत्रेण (४.१७७) पा-धातोः डुम्सुन् इति उणादिप्रत्ययं कृत्वा सिद्ध्यति । उणादिप्रत्ययान्तशब्दानां विषये वस्तुतः भाष्ये पक्षद्वयम् विद्यते — उणादयः व्युत्पन्नानि प्रातिपदिकानि इति एकः पक्षः, उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति अपरः पक्षः । तत्र आदिमे पक्षे 'पुम्स्' इति शब्दम् 'डुम्सुन्' प्रत्ययान्तम् स्वीकृत्य, तत्र विद्यमानः मकारः प्रत्ययस्य अवयवरूपेण स्वीक्रियते । अस्यां स्थितौ पुँःकोकिल / पुंःकोकिल इत्यत्र <<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इत्यस्य प्राप्तिः नास्ति अपितु विसर्गस्य विकल्पेन <<कुप्वोः ≍क≍पौ च>> 8.3.37 इति जिह्वामूलीयः भवति । द्वितीये पक्षे तु 'पुम्स्' शब्दम् अव्युत्पन्नं मत्वा मकारः प्रत्ययस्य अवयवरूपेण स्वीक्रियते, येन पुँःकोकिल / पुंःकोकिल इत्यत्र <<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इत्यनेन षत्वं प्राप्नोति ।अनेन प्रकारेण उभयत्र सकारभिन्नः कश्चन आदेशः सम्भवति । तद्बाधित्वा प्रक्रियायाम् नित्यम् सकारादेशं कर्तुम् भाष्ये द्वे पद्धती दत्ते स्तः — 1. <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः — सम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति — इति अस्य वार्त्तिकस्य आशयः । अस्य उदाहरणानि क्रमेण एतानि — i) सम् + सुट् + कर्तृ इत्यत्र सम्-इत्यस्य मकारस्य <<समः सुटि>> 8.3.5 इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गादेशे कृते, सँःस्कर्तृ / संःस्कर्तृ इति सिद्धे अग्रे विसर्गस्य <<वा शरि>> 8.3.36 इत्यनेन विकल्पेन सकारादेशः प्राप्नोति, तद् बाधित्वा वार्त्तिकेन नित्यम् एव सकारादेशः भवति, येन सँस्स्कर्तृ / संस्स्कर्तृ इति प्रयोगौ सिद्ध्यतः । ii) पुम् + काम इत्यत्र पुम्-इत्यस्य मकारस्य <<पुमः खय्यम्परे>> 8.3.6 इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गादेशे कृते, पुँःकाम / पुंःकाम इति सिद्धे अग्रे विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इत्यनेन नित्यम् षकारादेशे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन पुँस्काम / पुंस्काम इति प्रयोगौ सिद्ध्यतः । iii) कान् + कान् इत्यत्र कान्-इत्यस्य नकारस्य <<कानाम्रेडिते>> 8.3.12 इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गादेशे कृते, काँःकान् / कांःकान् इति सिद्धे अग्रे विसर्गस्य <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन विकल्पेन जिह्वामूलीये प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन काँस्कान् / कांस्कान् इति प्रयोगौ सिद्ध्यतः ।
2. पूर्वस्मिन् सूत्रे सकारप्रश्लेषं कृत्वा <<समः स्सुटि>> इति सूत्रविधानम् — <<समः सुटि>> 8.3.5 इति पूर्वस्मिन् सूत्रे भाष्यकारेण सकारप्रश्लेषं कृत्वा <<समः स्सुटि>> इति द्विसकारकः निर्देशः करणीयः - इति उक्तम् अस्ति । अत्र प्रश्लिष्टः सकारः प्रकृतसूत्रे अपि अनुवर्त्यते चेत् <<पुमः स् खय्यम्परे>> इति सूत्रम् अत्र सिद्ध्यति । पुम्-इत्यस्य मकारस्य सकारादेशः भवति इति सूत्रार्थः करणीयः, इति अत्र आशयः अस्ति । एतादृशे आदेशे कृते अत्र यद्यपि रुँ इति नास्ति, तथापि <<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशम्, पक्षे च अनुस्वारागमम् कृत्वा पुँस्कोकिलः / पुंस्कोकिलः इति द्वे रूपे अवश्यं सम्भवतः । दलकृत्यम् 1. खयि इति किमर्थम् ? पुमान् च असौ देवश्च अत्र रुँत्वम् न भवति, अतः पुंदेव / पुन्देव इत्येव रूपे भवतः । 2. अम्परे इति किमर्थम् ?पुमान् च असौ क्षत्रियश्च अत्र रुँत्वम् न भवति, अतः पुंक्षत्रियः / पुङ्क्षत्रियः इत्येव रूपे भवतः । वार्त्तिकम् - <!ख्याञादेशे न!> अदादिगणस्य चक्षिङ्-धातोः आर्धधातुके प्रत्ययस्य विषये <<चक्षिङ् ख्याञ्>> 2.4.54 इति यः ख्याञ्-आदेशः भवति, तस्मिन् परे पुम्-इत्यस्य मकारस्य रुँत्वम् न भवति — इति अस्य वार्त्तिकस्य आशयः । यथा - चक्षिङ्-धातोः क्तिन्-प्रत्यये कृते ख्यातिः इति यः शब्दः सिद्ध्यति तस्य विषये इदं सूत्रं न प्रवर्तते — पुंसः ख्यातिः [<<षष्ठी>> 2.2.8 इति तत्पुरुषसमासः] → पुम्स् + ख्याति [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुँलोपः] → पुम् + ख्याति [समस्तपदस्य पूर्वपदम् तस्य पदत्वं नैव जहाति, अतः पदसंज्ञायां सत्यां <<संयोगान्तस्य लोपः>> 8.2.23 इति पदान्ते विद्यमानस्य सकारस्य लोपः क्रियते ।] → पुंख्याति / पुङ्ख्याति [<<पुमः खय्यम्परे>> 8.3.6 इत्यनेन रुँत्वे प्राप्ते <!ख्याञादेशे न!> इति वार्त्तिकेन तत् निषिध्यते । अतः <<मोऽनुस्वारः>> 8.2.23 इति अनुस्वारः, <<वा पदान्तस्य>> 8.4.59 इति वैकल्पिकः परसवर्णः च भवति । ]

Balamanorama

Up

<<पुमः खय्यम्परे>> - पुमः । 'रु' ग्रहणमनुवर्तते । अम् परो यस्मादिति विग्रहः । तदाह-अम्परे खयीति । 'पुमान्-कोकिल' इति कर्मधारयेसुपो धातुप्रातिपदिकयो॑रिति सुब्लुकि 'संयोगान्तस्य लोप' इति सकारलोपे पुम्-कोकिल इति स्थिते मस्य रुत्वम्, अनुनासिकानुस्वारविकल्पः, विसर्गः,संपुंकाना॑मिति सः । ननु 'विसर्जनीयस्य स' इत्येव सिद्धेसंपुंकाना॑मित्यत्रपु॑ग्रहणं व्यर्थमित्यत आह । व्युत्पत्तीत्यादि । ᳵकᳶपयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः । 'विसर्जनीयस्य स' इति सत्वापवादं कुप्वो ᳵकᳵ चेति विधिं बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आह — अप्रत्ययस्येति षत्वपर्युदासादिति । पूञो डुम्सुन्नित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वाद्विसर्गस्येति भावः । ननूणादयोऽव्युत्पन्नानि प्रातिपदिकानीत्यायनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्ति नास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम् । तत्र व्युत्पत्तिपक्षे पुंस्शब्दस्य डुम्सुन्प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्याऽप्रत्ययस्येति पर्युदासेनेदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः । अतस्तत्र कुप्वोरिति विधिं बाधितुंसंपुंकाना॑मिति पुंग्रहणमित्यर्थः । अव्युत्पत्तीति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाऽभावपक्षेऽप्रत्ययस्येति पर्युदासस्यात्राऽप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुंसंपुकाना॑मिति पुंग्रहणमित्यर्थः । 'पुँस्कोकिल' इत्यनुनासिकपक्षे रूपम् । 'पुंस्कोकिल' इत्यनुस्वारपक्षे रूपम् । 'पुंस्कोकिल' इत्यनुस्वारपक्षे रूपम् । ननु चक्षिङ् व्यक्तायां वाचि॑अस्मात् ल्युट्, अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो मस्य रुत्वं स्यादित्यत आह — ख्याञादेशे नेति । भाष्ये 'चक्षिङः ख्शा' ञिति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरंख्शाञश्शस्य यो वे॑ति पठितमिति वक्ष्यते । एवंच यत्वस्याऽसिद्धतया खकारस्याऽम्परकत्वाऽभावात्पुनः खयी॑ति रुत्वं नेत्यर्थः । पुंख्यानमिति । 'मोऽनुस्वारः'वा पदान्तस्ये॑ति परसवर्णविकल्पः । नचवर्जने प्रतिषेधः, असनयोश्चे॑त्यनादेशे परे प्रतिषेधात्कथमत्र ख्याञादेश इति वाच्यं, ख्शाञादेशप्रयोजनपरवार्तिके पुंख्यानमित्यादिप्रयोगात्तदुपपत्तेः ।

Padamanjari

Up

पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्देशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कायित्वात् । अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य; खया प्रत्याहारेण साहचर्यात् । पुंश्चलीति । पचादौ चलडिति पाठान्ङीप्, पुंश्चलीति षष्ठीसमासः । पुंस्कामेति । पुमांसं कामयत इति'शीलिकामिभिक्षाचरिभ्यो णः' इति णः । तस्मादत्र सकार एवादेशो वक्तव्य इति ।'कुप्वोः ःकःपौ च' इत्यत्रैतद्वक्तव्यम् । द्विसकारकनिर्देशपक्षे त्विति । यदा पूर्वसूत्रे'द्विसकारको निर्देशः' इति पक्षः, तदेत्यर्थः । स इत्यनुवर्तते इति । ननु च रुरपि प्रकृतः, सोऽपि प्राप्नीतीत्यत आह - रुत्वं त्विति । असम्बन्धे कारणमाह - सम्बन्धानुवृत्तिस्तस्यति । इतिकरणो हेतौ, यस्मादसौ स्वसम्बन्धिना यः सम्बन्धस्तमनुवर्तते तं न जहाति तस्मादित्यर्थः । यद्वा - सम्बध्यत इति सम्बन्धः । यस्मादिह स्वसम्बद्धमेव तदनुवर्तते तस्मादित्यर्थः । रुत्वं खल्विहानुवर्तमानमपि'मतुवसो रु सम्बुद्धौ' इति स्वेन सम्बन्धिना सम्बद्धमेवानुवर्तते, तस्य प्रयोजनम् - सम्बन्ध्यन्तरेण रोः सम्बन्धो मा मूदिति । पुंदासादयः षष्ठीसमासाः । पुंगव इति ।'गोरतद्धितलुकि' इति टच्समासान्तः । परग्रहणे क्रियमाणे खयि परतो योऽम् तत्रेत्यपि विज्ञायेत, ततश्च पुमक्षः पुमाचारः - इत्यत्रैव स्यात्; तस्मात्परग्रहणम् ॥