चक्षिङः ख्याञ्

2-4-54 चक्षिङः ख्याञ् आर्धधातुके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चक्षिङः ख्याञादेशो भवत्यार्धधातुके। आख्याता। आख्यातुम्। आख्यातव्यम्। स्थानिवद्भावेन नित्यमात्मनेपदं न भवति, ञकारानुबन्धकरणसामर्थ्यात्। आख्यास्यति। आख्यास्यते॥ क्शादिरप्ययमादेश इष्यते॥ आक्शाता। आक्शातुम्। आक्शातव्यम्॥ वर्जने प्रतिषेधो वक्तव्यः॥ दुर्जनाः संचक्ष्याः। वर्जनीया इत्यर्थः॥ असनयोश्च प्रतिषेधो वक्तव्यः॥ नृ॒चक्षा॒ रक्षः॒ (शौ०सं० ८.३.१०) हिंसार्थोऽत्र धातुः। अने खल्वपि — विचक्षणः पण्डितः॥ बहुलं संज्ञाछन्दसोरिति वक्तव्यम्॥ अन्नवधकगात्रविचक्षणाजिराद्यर्थम्॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चक्षिङः ख्याञ्>> - चक्षिङः ख्याञ् । चक्षिङः ख्याञ् स्यादार्धधातुके परे इत्यर्थः ।

Padamanjari

Up

चक्षिङ्ः ख्याञ्॥ कर्त्रभिप्राये क्रियाफले आख्यास्यते, आचख्ये इत्यात्मनेपदं यथा स्यात्, तृजादौ चक्षितेत्यादि मा भूदिति च योगारम्भः। आख्यातेत्यादि'ख्या प्रकथने' इत्यस्यैव सिद्धम्। अत्र यथान्यासे आकारात्पूर्वो भागः खकारयकारात्मेति स्यादाख्यातेति, ककारशकारात्मापि त्विष्यते - आक्शातेति, तदेतदाह - क्शादिरप्ययमिति। ककारेऽकार उच्चारणार्थः। अपर आह - ख्यादिरेवायमादेश इति। अत्राप्यकार उच्चारणार्थः। तत्र चर्त्वे कृते क्शातेत्यादि भवति। कथमाख्यातेति खकारयकारयोः श्रवणम्? असिद्धकाण्डे णत्वविधानानान्तरं ख्शाञः शस्य यो वेति शस्य यत्वं विभाषा वक्तव्यम्। तत्र चर्त्वे यत्वं सिद्धमित्याख्यातेत्यादि यत्वपक्षे रूपम्, अन्यदा कशातेति रूपम्। अवश्यं च शस्य यत्वमित्याश्रयणीयम्। इह सुप्रचष्टे सुप्रख्यः, ठातश्चोपसर्गेऽ इति कः, ततो यत्वस्यासिद्धत्वात्सुप्रख्यस्य भाव इति'योपधाद्गुरूपोतमात्' इति वुञ् न भवति, अयोपधत्वात्। तस्मिन्सति ष्यञ् भवति - सौप्रख्यमिति। तथा सुप्रख्येन निर्वृते देशे भवः सौप्रख्यीयः, सौप्रख्यीयः, धन्वयोपधादिति वुञ् न भवति,'वृद्धाच्छः' एव भवति। अख्यातः, यत्वस्यासिद्धत्वाद्यण्वत्वा भावात्'संयोगादेः' इति नत्वं न भवति,'न ध्याख्यापृमूर्च्छिमदाम्' इत्यत्र ख्याग्रहणं न कर्तव्यं भवति। पुंसः ख्यानं पुंख्यानमित्यत्र यत्वस्यासिद्ध्त्वात्'पुमः खय्यम्परे' इति रुविधिर्न भवति। पर्याख्यानम्, यत्वस्यासिद्धत्वाच्छकारेणानटा व्यवायात्'कृत्यचः' इति णत्वाभावः। नटः ख्यातेत्यत्र यत्वस्यासिद्धत्वात् खरः शर्परत्वात्'शर्परे विसर्जनीयः' इतेयष विधिर्भवति। नन्वसिद्धे शस्य यवचनेऽपि'ख्या प्रकथने' इत्यस्यौत्पतिक एव यकार इति तत्र वुञादिप्रसङ्गः? एवं तर्हि सोऽपि ख्शादिः, शस्य यवचनमपि साधारणं द्रष्टव्यम्। नृचक्षा रक्ष इति। छान्दसः प्रसोगः। भाषायां तु नृचक्षौ रक्ष इति। विचक्षण इति। ठनुदातेतश्च हलादेःऽ इति युच्। वधक इति। अतो लोपस्य स्थानिवत्वाद्वृद्ध्यभावः। गात्रमिति। ष्ट्रनिगादेशः। अजिरमिति। ठजिरशिशिरऽ इति निपातनमनाद्दत्योक्तम्॥