उञि च पदे

8-3-21 उञि च पदे पदस्य पूर्वत्र असिद्धम् संहितायाम् भोभगोअघोअपूर्वस्य अशि व्योः लोपः

Sampurna sutra

Up

अपूर्वस्य पदस्य य्वोः लोपः उञि

Neelesh Sanskrit Brief

Up

अकारात् परस्य पदान्तयकारवकारयोः संहितायाम् उञ्-पदे परे लोपः भवति ।

Neelesh English Brief

Up

A पदान्तयकार and a पदान्तवकार coming after an अकार is removed when followed by the पद उञ् in the context of संहिता.

Kashika

Up

अवर्णपूर्वयोर्व्योः पदान्तयोर्लोपो भवत्युञि च पदे परतः। स॑ उ॒ एकविं॒श॑व॒र्तनिः (मै०सं० २.७.२०)। स उ एकाग्निः। पद इति किम्? तन्त्र उतम्, तन्त्रयुतम्। वेञः संप्रसारणे कृत उञिति भूतपूर्वण ञकारेण शक्यते प्रतिपत्तुमिति। अथोञित्येवंरूपो निपातः प्रतिपदोक्तोऽस्ति, तदा लाक्षणिकत्वाद् वेञादेशस्य ग्रहणमिह नास्ति, उत्तरार्थं पदग्रहणं क्रियते॥

Siddhanta Kaumudi

Up

अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि पदे । स उ एकाग्निः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते तर्ह्युत्तरार्थं पदग्रहणम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<चादयोऽसत्वे>> 1.4.57 अस्मिन् सूत्रे निर्दिष्टे चादिगणे उञ् इति कश्चन निपातः विद्यते ।अस्य शब्दस्य कोऽपि विशिष्टः अर्थः नास्ति, अयं शब्दः सामान्यरूपेण सम्बोधनस्य अर्थे कोपं / वैमत्यं दर्शयितुम् प्रयुज्यते । उञ् is just a filler word in the language, typically used like 'oh no', when one wants to except some kind of anger or disagreement. अस्मिन् शब्दे परे अकारात् परस्य पदान्तयकारस्य पदान्तवकारस्य च संहितायाम् <<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन प्राप्तं वैकल्पिकं लोपं बाधित्वा प्रकृतसूत्रेण नित्यं लोपः भवति । यथा — 1. तद्-शब्दस्य प्रथमा-एकवचनस्य रूपे परे 'उञ्' इति शब्दः विद्यते चेत् प्रकृतसूत्रस्य प्रयोगेण रूपसिद्धिः भवति — तद् + सुँ + उञ् + एकाग्नि → तद् स् उ एकाग्नि [इत्संज्ञालोपः] → सद् स् उ एकाग्नि [<<तदो सः सावनन्त्ययोः>> 7.2.106 इति तकारस्य सकारः] → स अ स् उ एकाग्नि [<<त्यदादीनामः>> 7.2.102 इति दकारस्य अकारः] → स स् उ एकाग्नि [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → स रुँ उ एकाग्नि [<<ससजुषोः रुः>> 8.2.66 इति रुँत्वम्] → स य् उ एकाग्नि [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति यकारः] → स उ एकाग्नि [<<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन विकल्पेन यकारलोपे प्राप्ते <<उञि च पदे>> 8.3.21 इति नित्यम् यकारलोपः] 2. वने उ अस्मिन् इत्यत्र प्रकृतसूत्रस्य प्रयोगेण नित्यम् यकारलोपः क्रियते — वने उ अस्मिन् → वनय् उ अस्मिन् [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → वन उ अस्मिन् [<<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन विकल्पेन यकारलोपे प्राप्ते <<उञि च पदे>> 8.3.21 इति नित्यम् यकारलोपः] 3. साधो उ अहम् इत्यत्र प्रकृतसूत्रस्य प्रयोगेण नित्यम् वकारलोपः क्रियते — साधो उ अहम् → साधव् उ अहम् [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → साध उ अहम् [<<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन विकल्पेन वकारलोपे प्राप्ते <<उञि च पदे>> 8.3.21 इति नित्यम् वकारलोपः] लक्षणसिद्धस्य उञ्-शब्दस्य विषये सूत्रस्य अप्राप्तिः <<लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्>> अनया परिभाषया प्रकृतसूत्रेण केवलम् प्रतिपदोक्त-उञ्-शब्दस्यैव ग्रहणं क्रियते, न हि सूत्रप्रयोगेण सिद्धस्य उञ्-शब्दस्य । अतएव, वेञ्-धातोः वकारस्य क्त-प्रत्यये परे <<वचिस्वपियजादीनां किति>> 6.1.15 इत्यनेन सम्प्रसारणे कृते सिद्धः उकारः यद्यपि लुप्त-ञकारेण सह 'उञ्' इति शब्दरूपम् स्वीकरोति, तथापि तस्य प्रकृतसूत्रेण ग्रहणं नैव भवति; अतश्च तन्त्र + सुँ + उतम् इत्यत्र <<ससजुषोः रुः>> 8.2.66 इति रुँत्वे कृते, <<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति यत्वे कृते <<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन केवलम् विकल्पेन यकारलोपः भवति, प्रकृतसूत्रेण नित्यम् लोपः न विधीयते । अतः तन्त्रयुतम् तथा च तन्त्र उतम् एते द्वे अपि रूपे सिद्ध्यतः । सूत्रे विद्यमानः 'पदे' इति शब्दः व्यर्थः अस्मिन् सूत्रे निर्दिष्टः निपातसंज्ञकः 'उञ्' शब्दः पदसंज्ञकः एव अस्ति, अतः तस्य निर्देशार्थम् पुनः 'पदे' इति शब्दः अस्मिन् सूत्रे न आवश्यकः । अपि च, इदं सूत्रम् स्वयमेव पदाधिकारे विद्यते, अतः अत्र पुनः 'पदे' इति ग्रहणम् अनावश्यकम् एव अस्ति । अयमेव विषयः तत्त्वबोधिन्याम् 'वस्तुतस्तु उत्तरत्र अपि न उपयुज्यते, पदस्य इत्यनुवृत्त्या एव निर्वाहात्' इति निर्देशेन स्पष्टीकृतः अस्ति । अस्य सूत्रस्य भाष्ये तु उत्तरार्थं तर्हि पदग्रहणं कर्तव्यम् इति निर्देशः कृतः अस्ति । प्रकृतसूत्रे विद्यमानः पदे इति शब्दः अग्रे <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इत्यस्मिन् सूत्रे उपयुज्यते, यतः तत्र हस्व-अकारात् परेभ्यः ङकारणकारनकारेभ्यः परस्य पदादि-अच्-वर्णस्य एव ङमुडागमः इष्यते । अतएव दण्डिन् इत्यत्र 'दण्डिन्'शब्दस्य ह्रस्व-इकारात् अनन्तरम् विद्यमानः यः नकारः, तस्मात् परस्य आकारस्य (अपदादित्वात्) नकारागमः न भवति । यद्यपि अयं दोषः <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इत्यस्मिन् सूत्रे पदस्य इत्यधिकारग्रहणेन, तथा च पदान्तङकारणकारनकारेभ्यः परस्य अच्-वर्णस्य आगमः भवति इति उक्त्वा निवारयितुम् शक्यते; तथापि तदर्थम् पदस्य इति शब्दस्य पदात् इति विभक्तिपरिवर्तनं आवश्यकं वर्तते, तादृशम् च न करणीयम् — इति नागेशेन प्रदीपोद्द्योते निर्दिष्टम् अस्ति । जिज्ञासवः अस्मिन् विषये अधिकं ज्ञातुम् <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इति सूत्रस्य सूत्रार्थः द्रष्टव्यः । वस्तुतस्तु, <<भुवश्च महाव्याहृतेः>> 8.2.71 अस्मिन् सूत्रे महाव्याहृतेः इति शब्दस्य ग्रहणेन <<लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्>> इति परिभाषा पाणिनिस्वीकृता अस्ति वा इति प्रश्नः जायते । अतः अस्याः परिभाषायाः अनुपस्थितौ, अप्रयोगे वा अपि वेञ् धातोः सम्प्रसारणे कृते प्राप्तस्य उञ् शब्दस्य विषये इदं सूत्रम् नैव प्रवर्तेत इति स्पष्टीकर्तुम् पाणिनिना अस्मिन् सूत्रे पदे इति शब्दः स्थापितः स्यात् इति युक्ततरम् प्रतिभाति ।

Balamanorama

Up

<<उञि च पदे>> - उञि च पदे । अपूर्वस्येति, पदस्येति, व्योरिति लोप इति चानुवर्तते । तदाह — अवर्णेति । स उ एकाग्निरिति । 'उ' इति निपातः । सस् उ इति स्थिते सस्य रुः, भोभगो इत्यपूर्वत्वाद्यत्वम् । लोपश्शाकल्यस्येति विकल्पनिवृत्त्यर्थमिदम् । वकारोदाहरणं तुअसा उ एकाग्नि॑रिति वृत्तिः । पदे किमिति । उञः पदत्वाऽव्यभिचारात्पदे इति तद्विशेषणस्य किं प्रयोजनमिति प्रश्नः । तन्त्रयुतमिति । तन्त्रे-उतमिति विग्रहः । अयादेशः । अत्र यकारस्य लोपनिवृत्त्यर्थं पदग्रहणमिति भावः । नन्वत्र उञ्परकत्वाऽभावादेव लोपनिवृत्तिसम्भवात्पदग्रहणं व्यर्थमेवेत्यत आह — वेञ, इति । 'वेञ् तन्तुसन्ताने' इत्यतः क्तप्रत्यये, 'वचिस्वपियजादीनाम्' इति वकारस्य संप्रसारणे उकारे, पूर्वरूपे, उतमिति रूपम् । अत्र उञ्परकत्वे ।ञपि तस्य उञः पदत्वाऽभावात्तस्मिन् परे यस्य लोपो न भवतीत्यर्थः । ननु स उ एकाग्निरित्यत्र उञ् प्रतिपदोक्तः, चादौ पठितत्वात् । उतमित्यत्र तु उञ् लाक्षणिकः , संप्रसारणादिविधिनिष्पन्नत्वात् । ततश्चलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहण॑मिति परिभाषया चादिपठितस्यैव उञोऽत्र ग्रहणं भविष्यति । नतु उतमित्यत्र उञोऽपि । अतः पदग्रहणं व्यर्थमेवेत्यत आह-यदीति । उत्ररार्थमिति । ङमो ह्रस्वादचीत्यर्थमित्यर्थः । एतच्चात्रैव भाष्ये स्पष्टम् ।

Padamanjari

Up

भूतपूर्वेण ञकारेणेति । भूलोदाहरणेऽपि भूतपूर्वेणैव ञकारेणोञिति प्रतिपतिः; अनुबन्धस्य प्रयोगेऽसमवायात् । उतरार्थमिति ।'ङ्मो ह्रस्वादच्छि ङ्मुण्नित्यम्' इत्येष विधिरजादौ पदे यथा स्यात्, इद मा भूत् - दण्डिनेति । नैतदस्ति प्रयोजनम्;'पदस्य' इति वर्तते । इह तर्हि परमदण्डिना, अत्र हि सुबन्तस्य समास इति पदत्वमस्ति ? नास्ति; उक्तं हि ठुतरपदत्वे चापदादिविधौऽ इति । तदेतत्पदग्रहणं तिष्ठतु तावत् । अयमपि नित्यार्थो योगः ॥