टेः

6-4-155 टेः असिद्धवत् अत्र आभात् भस्य लोपः इष्ठेमेयस्सु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भस्य टेर्लोपो भवतीष्ठेमेयस्सु परतः। पटु — पटिष्ठः। पटिमा। पटीयान्। लघु — लघिष्ठः। लघिमा। लघीयान्। णाविष्ठवत् प्रातिपदिकस्य कार्यं भवतीति वक्त व्यम्॥ किं प्रयोजनम्? पुंवद्भावरभावटिलोपयणादिपरार्थम्। पुंवद्भावः — एनीमाचष्ट एतयति। श्येतयति। <<तसिलादिष्वा कृत्वसुचः>> ६.३.३५ इति इष्ठे पुंवद्भाव उक्त ः। रभावः — पृथुमाचष्टे प्रथयति। म्रदयति। टिलोपः — पटुमाचष्टे पटयति। लघयति। यणादिपरम् — स्थूलमाचष्टे स्थवयति। भारद्वाजीयास्तु पठन्ति — णाविष्ठवत् प्रातिपदिकस्य पुंवद्भावर — भावटिलोपयणादिपरविन्मतोर्लुक्कनर्थमिति। स्रग्विणमाचष्टे स्रजयति। वसुमन्तमाचष्टे वसयति। युवानमाचष्टे यवयति, कनयति। एतदुभयमप्युदाहरणमात्रम्, न परिगणनम्। प्रादयोऽपि हीष्यन्ते। प्रियमाचष्टे प्रापयति॥

Siddhanta Kaumudi

Up

भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । मार्दवम् ॥

Laghu Siddhanta Kaumudi

Up

भस्य टेर्लोप इष्ठेमेयस्सु। पृथोर्भावः प्रथिमा -

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<टेः>> - टेः । 'इष्ठेमेयस्सु' इत्यनुवर्तते । 'अल्लोपोऽनः' इत्यतो लोप इति च । तदाह — टेर्लोपः स्यादिष्ठेमेयस्स्विति । प्रथिमेति । पृथुशब्दादिमनिच् । चकार इत् । नकारादकार उच्चारणार्थः । ऋकारस्य रः, उकारस्य गुणं बाधित्वा टेर्लोपः । पार्थवमिति । इमनिजभावेइगन्ताच्च लघुपूर्वा॑दित्यण् । म्रदिमेति । मृदुशब्दादिमनिचि ऋकारस्य रः । 'टेः' इति टिलोपश्च । मार्दवमिति ।इगन्ताच्चे॑त्यण् ।

Padamanjari

Up

णाविष्ठ्ंअवदिति । सप्तमीसप्तमर्थाद्वतिः, णाविति प्रतियोगिनि सप्तमीनिर्द्देशात् तेनेष्ठनि यत्कार्यं तदतिदिश्यते, न त्विष्ठनो यत्कार्यं तदपि । तेन बहूनाचष्टे बहयदित्यत्र इष्ठस्य यिट् चेति णेर्यिण् भवति, तदभावे तत्सन्नियोगशिष्टो भूभावोऽपि न भवति । केचितु भूभावमुदाहरन्ति - भावयतीति । एतयतीति । टिलोबातिदेशेनैव सन्नियोगशिष्टत्वान्नकारनिवृतावपि सिद्धायां पुंवद्वचनं सन्नियोगशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थम्, तेन श्यैवेयः, ऐनेय इत्यादि सिद्धं भवति । अपर आह - इङ्विडमाचष्टे ऐडविडयति, दरदमाचष्टे दारदयतीत्येवमादौ पुंशब्दातिदेशार्थ पुंवद्वचनमिति । ननु चेडविडादीनामिष्ठनि पुंवद्भावो न दृष्टः, इष्ठन एव तत्रासम्भावात् । नेष्ठनि दृष्टस्यातिदेशः, किं तर्हि सम्भावितस्य अन्यथा अतिराजयतीत्यादौ टिलोपो न स्यात् । प्रातिपदिकग्रहणं प्रकृतिमात्रोपलक्षणम् । तेन द्रोणीमाचष्ठे इत्यादावपि टिलोपो भवति । नात्र पुंवद्भावोऽस्ति अभाषितपुंस्कात्वात् । लिङ्गविशिष्टपरिभाषया वा ङीबन्तस्य ग्रहणम् । उक्तं हि प्राक् - यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्ट्ंअ गृह्यते इति । स्थवयतीत्यादौ अत उपधायाः इति वृद्धिर्न भवति अङ्गवृते पुनर्वृतावविधिर्निष्ठितस्य इति वचनात् । अस्यार्थः - अङ्गधिकारविहिते कस्मिंश्चत्कार्थे वृते पुनः कार्यान्तरस्य वृतौ प्राप्तायामविधिस्तस्य कार्यस्य, तच्चेदङ्गं निष्ठितं भवति - प्रयोगार्हं भवति । यत्र त्वनिष्ठितमङ्गं तत्र भवत्येव वृत्तिः - प्रापयति, स्थापयतीति । कर्तारमाचष्ट इत्यादौ तृशब्दस्य तुरिष्ठेमेयः सु इति लोपो भवति न वेति । चिन्तयम् ॥ एस्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ॥ 6-4-156 ॥ यद्यपि प्रकृतो लोपशब्दो भवासाधनः, तथापीह कर्मसाधनोऽपि ज्ञायते, यणादि परं लोप इति सामानाधिकरण्येन निर्द्देशात् । तदाह - यणादिपरं लुप्यत इति । पूर्वग्रहणं विस्पष्टार्थमिति । इको गुणवृद्धी इति वचनाल्लुप्तावशिष्टस्य य इक् तस्य गुणो भविष्यतीति भावः । अत एव वचनादजादी प्रत्ययौ भवत इति । इमनिच तु पृथ्वादिष्वपठितेभ्यो न भवति, अनभिधानात् ॥