न कवतेर्यङि

7-4-63 न कवतेः यङि अभ्यासस्य चुः

Kashika

Up

index: 7.4.63 sutra: न कवतेर्यङि


कवतेः अभ्यासस्य यङि परतः चुः न भवति। कोकूयते उष्ट्रः। कोकूयते स्वरः। कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः। तयोः चुत्वम् एव भवति। चोकूयते। यङि इति किम्? चुकुवे।

Siddhanta Kaumudi

Up

index: 7.4.63 sutra: न कवतेर्यङि


कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥

Padamanjari

Up

index: 7.4.63 sutra: न कवतेर्यङि


कवतेरित्यादि ।'कूङ् शब्दे' इति तुदादिः,'कु शब्दे' इत्यदादिः,'कुङ् खुङ्' इति भूवादिः शब्दार्थ एव । तत्रासति विकरणनिर्देशे'कोः' इत्यच्यमाने त्रयाणमपि ग्रहणं स्याद् । अथ तौदादिको दीर्घान्तः ? एवमपि द्वयोर्ग्रहणं स्यात् । न च निरनुबन्धकत्वादादादिकस्यैव ग्रहणम्; लुग्विकरणत्वात् । तस्माद्भौवादिकस्यैव यथा स्यादिति विकरणनिर्द्देशः ॥