शर्पूर्वाः खयः

7-4-61 शर्पूर्वाः खयः अभ्यासस्य शेषः

Sampurna sutra

Up

अभ्यासस्य आदिः शर्-पूर्वाः खयः हल् शेषः

Neelesh Sanskrit Brief

Up

अभ्यासे यदि शर्-वर्णात् परः खय्-वर्णाः सन्ति तर्हि ते सर्वे अवशिष्यन्ते, अन्ये हल्-वर्णाः लुप्यन्ते ।

Neelesh English Brief

Up

For an अभ्यास, all खय् letters that follows शर् letters are retained, all other हल् letters are removed.

Kashika

Up

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते, अन्ये हलो लुप्यन्ते। चुश्च्योतिषति। तिष्ठासति। पिस्पन्दिषते। शर्पूर्वाः इति किम्? पपाच। खयः इति किम्? सस्नौ। खर्पूर्वाः खय इति वक्तव्यम्। उचिच्छिषति इत्यत्र उच्छेः अन्तरङ्गत्वात् तुकि कृते द्विर्वचनम्, तत्र हलादिः शेषे सति अभ्यासे तकारः श्रूयेत।

Siddhanta Kaumudi

Up

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेषः <{SK2179}> इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत ।{$ {!4 गाधृ!} प्रतिष्ठालिप्सयोर्ग्रन्थे च$} । गाधते । जगाधे ।{$ {!5 बाधृ!} लोडने$} । लोडनं प्रतिघातः । बाधते ।{$ {!6 नाथृ!} {!7 नाधृ!} याच्ञोपतापैश्वर्याशीःषु$} ।<!आशिषि नाथ इति वाच्यम् !> (वार्तिकम्) ॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते ।{$ {!8 दध!} धारणे$} । दधते ॥

Laghu Siddhanta Kaumudi

Up

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्तेऽन्ये हलो लुप्यन्ते। तस्तार। तस्तरतुः। तस्तरे। गुणोऽर्तीति गुणः। स्तर्यात्॥

Neelesh Sanskrit Detailed

Up

<<हलादि शेषः>> 7.4.60 इत्यनेन अभ्यासे विद्यमानेभ्यः हल्-वर्णेभ्यः केवलं प्रथमस्थाने विद्यमानः हल्-वर्णः अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते । परन्तु यदि अभ्यासे शर्-वर्णस्य खय्-वर्णेन सह संयोगः अस्ति, तर्हि संयोगे विद्यमानः खय्-वर्णः एव अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते - अयमस्य सूत्रस्य अर्थः । यथा - 1. 'स्पर्ध्' अस्मिन् धातौ सकारात् परः पकारः अस्ति । अतः अस्य धातोः द्वित्वे कृते 'स्पध् स्पर्ध्' इति स्थिते <<हलादि शेषः>> 7.4.60 इत्यनेन पकारलोपे प्राप्ते अपवादत्वात् <<शर्पूर्वाः खयः>> 7.4.61 इत्यनेन पकारः अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते । अतः अत्र सकारलोपः धकारलोपः च भवति, पकारः अवशिष्यते । अतएव स्पर्ध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् 'पस्पर्ध' इति भवति । 2. 'स्था' इत्यस्य द्वित्वे 'स्था स्था' इति स्थिते अनेन सूत्रेण थकारः अवशिष्यते, अतः 'था स्था' इति स्थितिः भवति । अग्रे अन्यां प्रक्रियां कृत्वा 'तस्थौ' इति रूपम् जायते । 3. 'श्च्युत्' धातोः द्वित्वे 'श्च्युत् श्च्युत्' इति स्थिते अभ्यासे 'श् + च् + य् =' अयम् संयोगः अस्ति । अतः अनेन सूत्रेण अत्र चकारः अवशिष्यते, शकार-यकार-तकाराणाम् लोपः भवति । अत' 'चु श्चुत्' इति स्थितिः जायते । अग्रे प्रक्रियां कृत्वा 'चुश्च्योत' इति रूपं सिद्ध्यति । ज्ञातव्यम् - 1. शर् प्रत्याहारे श्, ष्, स् एते वर्णाः आगच्छन्ति । खय्-प्रत्याहारे वर्गप्रथमाः वर्गद्वितीयाः च आगच्छन्ति । 2. अस्मिन् सूत्रे 'शर्पूर्वाः खयः' इति बहुवचनमस्ति । अतः यदि अभ्यासे द्वौ अधिकाः वा शर्-पूर्वाः खय्-वर्णाः सन्ति तर्हि ते सर्वे अवशिष्यन्ते । परन्तु अस्य उदाहरणानि न लभन्ते ।

Balamanorama

Up

<<शर्पूर्वाः खयः>> - किन्तु लिटस्तादेशेलिटस्तझयो॑रिति तस्यैशिलिटि धातो॑रिति द्वित्वे 'हलादिः शेषः' इत्यभ्यासे प्रथमहल्व्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते — शूर्पर्वाः । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । 'शर्पूर्वाः' इत्यत्र शर्पूर्वो येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शर्न शिष्यते । शिष्यन्त इति । 'हलादिः शेषः' इत्यतः शेष इत्यनुवृत्तं कर्मणि घञन्तं बहुवचनान्ततया विपरिणम्यत इति भावः । तथा च प्रकृते अभ्यासे खय् पकारः शिष्यते ।न न्द्राः संयोगादय॑ इति रेफस्य द्वित्वनिषेधो न शङ्क्यः, द्वितीयैकाजवयवस्यैव तन्निषेधात् । तदाह — पस्पर्ध इति । नच व्रवश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यं, हलादिः शेष इत्यतो हि आदिरित्यप्यनुरवर्तते । शव्र्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः । पस्पर्धाते, पस्पर्धिरे, पस्पर्धिषे पस्पर्धाथे, पस्पधिंध्वे , पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि । स्पर्धितेति । लुटि एध धातुवद्रूपाणि सुगमानीति भावः । स्पर्धिष्यत इति । लृटि एधदातुवद्रूपाणीति भावः । स्पर्धतामिति । लोटि एधवद्रूपाणीति भावः । अस्पर्धतेति । लङि एधिवद्रूपाणीति भावः । हलादित्वादडेव न त्वाडिति विशेषः । स्पर्धेतेति । विधिलिङि एधिवद्रूपाणि । अडागमः, न त्वाडिति विशेषः । अस्पर्धिष्यतेति । लृङि एधिवद्रूपाणि । अस्पर्धिष्टेति । लुङि एधिवद्रूपाणि । अडागमः, न त्वाडिति विशेषः । अस्पर्धिष्यतेति । लृङि एधिवद्रूपाणि । अडागमो विशेषः, न त्वाट् । गाधृ प्रतिष्ठेति । चतुर्थान्तो धातुः । ऋकारोनाग्लोपिशास्वृदिता॑मिति निषेधार्थः । अजगाधत् प्रतिष्ठा — आधारे स्थितिः । ग्रन्थः — ग्रन्थनं, रचनम् । जगाधे इति । लिटि द्वित्वादि । अभ्यासस्य ह्रस्वः । चुत्वम् । बाधृ इति । प्रतिघातः — पीडनम् । नाथृनाधृ इति । द्वितीयचतुर्थान्तौ धातू । उपतापः — ज्वरप्रयुक्ता पीडा । आशीः — आशासनम् । द्वितीयान्तस्य नाथृधातोर्विशेषमाह — आशिषि नाथ इति । अत्र 'नाथ' इति षष्ठी । 'अनुदात्तङित' इत्यत आत्मनेपदमित्यनुवर्तते । अनुदात्तेत्वादेव सिद्धे नियमार्थमिदं वार्तिकं तदाह — अस्याशिष्येवेति । आशासनार्थवृत्तेरेव नाथधातोरात्मनेपदम् । याच्ञाद्यर्थवृत्तेषुशेषात्कर्तरी॑ति परस्पैपदमेवेत्यर्थः । नाथत इति । आशास्ते इत्यर्थ- । अन्यत्रेति । याच्ञाद्यर्थे विद्यमानस्येत्यर्थः । अथ चतुर्थान्तस्य नाधधातोरुदाहरति — नाधते इति । दधेति । चतुर्थान्तोऽयम् ।

Padamanjari

Up

पूर्वेण शरां शेषे प्राप्ते खयां शेषो विधीयते, नत्रैकाभ्यासविषयेणानादिशेषेणादिशेषो बाध्यते; सत्यपि सम्भवे बाधनं भवतीति न्यायात् । किञ्चासम्भवोऽप्यत्र शक्यते वक्तुम्, कथम् ? शेषशब्दोऽयं निवृत्तिमदवस्थानमाह, न चोबयोरवस्थाने निवृत्या विशिष्टमवस्थान सम्भवति । चुश्च्योतिषतीति ।'श्च्युतिर् क्षरणो' । पिस्पन्दिषत इति ।'स्पदि किञ्चिच्चलने' , अनुदातेत् । सस्नाविति ।'ष्णा शौचे' । खर्पूर्वा इति । सूत्रे शर्ग्रहणमपनीय खर्ग्रहणं कर्तव्यमित्यर्थः । उचिच्छिषतीति । ठुच्छी विवासेऽ। अन्तरङ्गत्वादिति । उपदेशानन्तरमेव प्राप्तत्वादन्तरङ्गत्वातुकि कृते द्विवर्चनमिति । तच्च'पूर्वत्रासिद्धम्' इति चुत्वस्यासिद्धत्वात् सतुक्क एव भवति, तत्र कृते यद्यत्र हलादिशेषः स्यात्, अभ्यासे तकारः श्रूयेत । एतच्च'पूर्वत्रासिद्धीयमद्विर्वचने' इत्येतदनाश्रित्योक्तम् । तदाश्रयणे तु चुत्वे कृते तस्य सिद्धत्वात् च्छिस्शब्दस्य द्विर्वचने चकारशेषेणैव रूपं सिध्यति; न चेदमस्ति -'निमिताभावे नैमितकस्याप्यभावः' इति, येन चुत्वं निवर्तते ॥