जाग्रोऽविचिण्णल्ङित्सु

7-3-85 जाग्रः अविचिण्णल्ङित्सु गुणः सार्वधातुकार्धधातुकयोः

Kashika

Up

index: 7.3.85 sutra: जाग्रोऽविचिण्णल्ङित्सु


जागृ इत्येतस्य अङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः। जागरयति। जागरकः। साधुजागरी। जागरंजागरम्। जागरो वर्तते। जागरितः। जागरितवान्। वृ̄द्धिविषये प्रतिषेधविषये च यथा स्यातिति जागर्तेरयं गुणः आरभ्यते। तस्मिन् कृते या अत उपधायाः 7.2.116 वृद्धिः प्राप्नोति सा न भवति। यदि हि स्यातनर्थक एव गुणः स्यात्, चिण्णलोश्च प्रतिषेधवचनमनर्थकम्। अविचिण्णल्ङित्सु इति किम्? जॄशॄस्तृर्जागृभ्यः क्विन् जागृविः। चिण् अजागारि। णल् जजागार। ङित् जागृतः। जागृथः। वि इति केचिदिकारमुच्चारणार्थं वर्णयन्ति, क्वसावपि वकारादौ गुणो न भवति। जजागृवान्। अजागरुः, अहं जजागर इत्यत्र प्रतिषेधः प्राप्नोति? न, अप्रतिषेधात्। अविचिण्णल्ङित्सु इति पर्युदासोऽयम्, अथवा जाग्रः इति प्रप्तिरसावानन्तर्याद् विचिण्णल्ङित्सु प्रतिषिध्यते। या तु जुसि च 7.3.83, सार्वधातुकार्धधातुकयोः 7.3.84 इति च प्राप्तिः , सा न प्रतिषिध्यते।

Siddhanta Kaumudi

Up

index: 7.3.85 sutra: जाग्रोऽविचिण्णल्ङित्सु


जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ॥

Balamanorama

Up

index: 7.3.85 sutra: जाग्रोऽविचिण्णल्ङित्सु


जाग्रोऽविचिण्णल्ङित्सु - जाग्रोऽवि । 'जाग्र' इति षष्ठी । 'मिदेर्गुणः' इत्यतो गुण इत्यनुवर्तते । तदाह — जागर्तेर्गुणः स्यादिति ।अविचिण्णल्ङित्स्वि॑ति च्छेदः । वि चिण् णल् हित् एषां द्वन्देव नञ्समासः । तदाह — विचिण्णल्ङिद्भ्योऽन्यस्मिन्निति । चिण्णल्पर्युदासाद्वृद्धिविषयेऽप्यस्य प्रवृत्तिः । ङित्पर्युदासाद्गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः । तदाह — वृद्धिविषये चेति । जजागतुरिति । अत्र कित्त्वेऽपि गुणः । जजागरुः । जजागरिथ जजागरथुः जजगार । जजागार — जजागर, जजागरिव जजागरिम । विचिण्णल्ङित्सु तु न गुणः । वि — जागृविः । चिण् — अजागारि । णल् — जजागार । ङित् — जागृतः । वृद्धिविषये यथा ण्वुलि — जागरकः । प्रतिषेधविषये यथा — जजागरतुः । कित्त्वेऽपि गुण इत्याद्यूह्रम् ।जागरिता । जागरिष्यति । जागर्तु — जागृतात् जागृताम् जाग्रतु । जागृहि — जागृतात् जागृतम् जागृत । जागराणि जागराव जागराम । लङ्याह — अजागरति । तिपि इकारलोपे हल्ङ्यादिना तकारलोपे रेफस्य विसर्ग इति भावः । अभ्यस्तत्वाल्लङो जेरदादेशे प्राप्ते आह — अब्यस्तत्वाज्जुसिति ।सिजब्यस्तविदिभ्यश्चे॑त्यनेनेति भावः । जक्षित्यादित्वादभ्यस्तत्वम् । अजागृ उस् इति स्थितेसार्वधातुकमपि॑दिति ङित्त्वादविचिण्णल्ङित्स्विति पर्यादासादप्राप्ते गुणे आह —

Padamanjari

Up

index: 7.3.85 sutra: जाग्रोऽविचिण्णल्ङित्सु


अविचिण्णल्ङ्त्सु पिरत इति । विचिण्णलिङ्द्भ्योऽन्ये ये प्रत्ययास्तेषु परत इत्यर्थः । जागारयतीत्यादीनि वृद्धिविषये उदाहरणानि । जागरितः, जागरितवानिति प्रतिषेधविषये । किं पुनः कारणं वृद्धिप्रतिषेधविषयाण्येवोदाहरणानि उपन्यस्तानि ? तत्राह - वृद्धिविषये, प्रतिषेधविषये चेति । अन्यत्र पूर्वेणैव गुणस्य सिद्धत्वादेतद्विषय एवायं गुणः, तत्राप्युभयविषयः, कथम् ? चिण्णलोः प्रतिषेधात् वृद्धिविषये तावद्भवति, ङ्त्प्रितिषेधात् प्रतिषेधविषयेऽपीति । तस्मिन्कृत इति । ठङ्गवृते पुनर्वृतौऽ इत्येतदनाश्रित्योच्यते । सा न भवतीति । किं कारणम् ? इत्याह - यदि हीति । यद्यपि जागरितः, जगरितवानित्यत्र गुणविधिश्चरितार्थः, तथापि वृद्धिविषयेऽप्येतद्विधानमित्युक्तम्, तत्रास्यानर्थक्यमुच्यते । किञ्चेत्याह - चिण्णलोश्चेति । यदि गुणे कृते ठत उपधायाऽ इति वृद्धिः स्याच्चिण्णलोर्गुणप्रतिषेधोऽनर्थकः स्यात् । अस्तु तत्रापि गुणः; वृद्धौ सत्यामजागारि, जजागारेति सिद्धम् । जागृत इति । लट्, तस्, अदादित्वाच्छपो लुक्,'सार्वधातुकमपित्' इति ङ्त्विम् । अत्र वीति केचिदिति । ठविचिण्णल्ङ्त्सुऽ इत्यित्र यो वकारात्पर इकारस्तमुच्चारणार्थं वर्णयन्ति, तत्र'यस्मिन्विधिः' इति वकारादौ प्रतिषेधः । किमर्थं पुनस्त एवं वर्णयन्ति ? इत्यत आह - क्वसावपीति । जजागृवानिति ।'नेड्वशि कृति' इति इट्प्रतिषेधः । तत्र क्रादिनियमादिट् प्राप्तः'वस्वेकाजाद्घसाम्' इति नियमान्न भवति । ये तु क्विपो लोपाद्वर्णाश्रये प्रत्ययलक्षणप्रतिषेधाच्च पर्युदासं नेच्छन्ति, तेषां जागरिति गुणो भवत्येव । अन्ये त्वाहुः - यथा अतृणेडिति प्रत्ययलक्षणेनेभागमी भवति, वर्णस्य प्रत्ययविशेषणत्वात्; एवं क्विपोऽपि पर्युदासः, ततस्तु जागृदिति भवति । चोदयति - कथमजागरुरिति । एवं मन्यते - प्रसज्यप्रतिषेधोऽयं विचिण्णल्ङ्त्सु नि भवतीति, ततश्च'जुसि च' इत्यस्यापि गुणस्य प्रतिषेधः स्यात्, तथोतमे णलि णित्वाभावपक्षे गुण इष्यते -'सार्वधातुकार्धधातुकयोः' इति, तस्यापि प्रतिषेधः प्राप्नोतीति । परिहरति - नाप्रतिषेधादिति । नायं दोषः, कुतः ? अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः, कस्तर्ह्ययम् ? इत्याह - अविचिण्णल्ङ्त्स्विति पिर्यदासोऽयमिति । पर्युदासे हि विचिण्णल्ङ्त्सु नि विधिर्न प्रतिषेधः, ततोऽन्यत्र विधानम्, तेन जुसि णलि च लक्षणान्तरेण प्राप्तो गुणो भवत्येव । प्रसज्यप्रतिषेधेऽप्याह - अथ वेति । ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः । केचिद्दर्विरित्यत्र गुणदर्शनादौणादिकं विच्प्रत्यययं वर्णयन्ति, तेषां जागृविरित्यत्र गुणः प्राप्नोति । न च वेः प्रतिषेधवैयर्थ्यम्; क्विपि क्वसौ च चरितार्थत्वात् । तस्माज्जागर्तेः किद्वक्तव्यः ॥