बहुलं छन्दसि

7-3-97 बहुलं छन्दसि सार्वधातुके हलि ईट् अस्तिसिचोः अपृक्ते

Sampurna sutra

Up

छन्दसि अस्तिसिचः अङ्गात् अपृक्ते सार्वधातुके हलि ईट् बहुलम्

Neelesh Sanskrit Brief

Up

अस्-धातोः अङ्गात् परस्य तथा सिच्-प्रत्ययान्त-अङ्गात् परस्य सार्वधातुकस्य अपृक्त-हल्-प्रत्ययस्य वेदेषु ईट्-आगमः बहुलं दृश्यते ।

Neelesh English Brief

Up

In the context of vedas - a सार्वधातुक प्रत्यय which contains only one हल् letter (and no अच् letter) might or might not get an 'ईट्' आगम when it follows either the अस् धातु or the सिच्-प्रत्यय.

Kashika

Up

अस्तिसिचोरपृक्तस्य सार्वधातुकस्य ईडागमो भवति बहुलं छन्दसि विषये। आप एवेदं सलिलं सर्वमाः। आसीदिति स्थान आः क्रियापदम्। अ॑ह॒र्वा॑व॑ त॑र्ह्या॑सी॒न्न॑ रा॑त्रिः॒ (मै०सं० १.५.१२)। सिचः खल्वपि — गोभि॑रक्षाः॒ (ऋ० ९.१०७.९)। प्र॒त्यञ्च॑मत्साः (ऋ० १०.२८.४)। अभैषीर्मा पुत्रकेति च भवति। छान्दसत्वाद् माङ्योगेऽप्यडागमो भवति — अक्षाः, अत्सा इति सिच इडभावश्च॥

Siddhanta Kaumudi

Up

सर्वमा इदम् (सर्व॑मा इ॒दम्) । आसीदिति प्राप्ते ॥ (अस्तेर्लङ् तिप्ईडभाव अपृक्तत्वाद्धल्ङ्यादिलोपः । रुत्वविसर्गौ । संहितायां तु भोभगो <{SK167}> इति यत्वम् । लोपः शाकल्यस्य <{SK67}> इति यलोपः । गोभिरक्षाः (गोभि॒रक्षाः॑) । सिच इडभावश्छान्दसः । अट् । शेषं पूर्ववत् । ह्रस्वस्य गुणः <{SK242}> । जसि च <{SK241}> ।<!जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः !> (वार्तिकम्) ॥ अधा शतकत्वो यूयम् (अधा॑ शतकत्वो यू॒यम्) । शतकतवः । पश्वेनृभ्यो यथा गवे (पश्वे॒नृभ्यो॒ यथा॒ गवे॑) । पशवे ॥ ठनाभ्यस्तस्याचि <{SK2503}> इति निषेधे ।<!बहुलं छन्दसीति वक्तव्यम् !> (वार्तिकम्) ॥ अनुषग्जुजोपत् (अनु॒षग्जुजो॑पत्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

वेदानां विषये <<अस्तिसिचोऽपृक्ते>> 7.3.96 इत्यनेन उक्तः नियमः वेदेषु प्रयुक्तः अपि दृश्यते, अप्रयुक्तः अपि दृश्यते । यथा - 'आप एव इदं सलिलं सर्वमाः' अस्मिन् वाक्ये अस्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् प्रयुक्तमस्ति 'आः' इति । अस्य प्रक्रिया एतादृशी - अस् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → आट् + अस् + ल् [<<आडजादीनाम्>> 6.4.72 इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः] → आ + अस् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → आ + अस् + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप्] → आ + अस् + ति [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक् ।] → आस् + ति [ <<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] → आस् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → आस् + त् [<<अस्तिसिचोऽपृक्ते>> 7.3.96 इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमे प्राप्ते <<बहुलं छन्दसि>> 7.3.97 इति अयमागमः न भवति ।] → आस् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्त-तकारस्य लोपः] → आः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गनिर्माणम् ।] एवंप्रकारेण ईडागमं विना अपि रूपसिद्धिः कृता दृश्यते । तथा च, केषुचन स्थलेषु ईट्-आगमः कृतः अपि दृश्यते । यथा - 'अहः वा अव तर्हि आसीत् न रात्रिः' । इत्यत्र लौकिकसंस्कृतवत् एव रूपसिद्धिः भवति । सिच्-प्रत्ययस्य उपस्थितौ अपि उभयोः प्रकारयोः रूपाणि दृश्यन्ते । यथा - 'गोभिः अक्षाः' अस्मिन् वाक्ये 'अक्षाः' इति 'क्षर् सञ्चलने' अस्य धातोः लुङ्-लकारस्य रूपमस्ति । तस्य प्रक्रिया इयम् - क्षर् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → क्षर् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → क्षर् + सिच् + ल् [<<च्लेः सिच्>> 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः । ] → क्षर् + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।] → अट् + क्षर् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + क्षर् + स् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → अ + क्षर् + स् + त् [<<इतश्च>> 3.4.100 इति इकारलोप] → अ + क्षर् + स् + त् [<<अस्तिसिचोऽपृक्ते>> 7.3.96 इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमे प्राप्ते <<बहुलं छन्दसि>> 7.3.97 इति अयमागमः न भवति ।] → अ + क्षर् + स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्त-तकारस्य लोपः] → अ + क्षार् + स् [<<अतो ल्रान्तस्य>> 7.2.2 इति अकारस्य वृद्धिः आकारः] → अक्षार् [<<रात्सस्य>> 8.2.24 इति रेफात् परस्य सकारस्य लोपः] → अक्षाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गनिर्माणम् ।] वेदेषु 'अभैषीः मा पुत्रक' एतादृशाः प्रयोगाः अपि दृश्यन्ते यत्र सिचि परे ईडागमः कृतः अस्ति । ज्ञातव्यम् - 'बहुलम्' शब्दस्य विषये अस्मिन् लेखे विस्तारेण उक्तमस्ति, तदपि पठ्येत ।

Balamanorama

Up

Padamanjari

Up

आ इति । अस्तेर्लङ्, तिप्, शपो लुप्, रुत्वविसर्जनीयौ अक्षाः, अत्सा इति ।'क्षर सञ्चलने' ,'त्सर च्छद्मगतौ' , लुङ्, तिपो हल्ङ्यादिलोपः, रात्सस्यऽ इति सिचो लोपः, दातुरेफस्य विसर्जनीयः । छान्दसत्वादिति ।'बहुलं च्छन्दस्यमाङ्योगे' पिऽ इत्यनेन न केवलममाङ्योगेऽडाटोरभावः क्रियते, किं तर्हि ? माङ्योगे तत्सद्भावोऽपीति भावः । इडभावश्च सिचेति । छान्दसत्वादित्यपेक्षते ॥