7-3-98 रुदः च पञ्चभ्यः सार्वधातुके हलि ईट् अपृक्ते
रुदः पञ्चभ्यः अङ्गात् सार्वधातुके अपृक्ते पिति हलि ईट्
रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य ईट्-आगमः भवति ।
A सार्वधातुक-पित्-अपृक्त-हल्-प्रत्यय that follows the verbs रुद्, स्वप् , श्वस्, प्रण्, जक्ष् gets an ईट् आगम.
रुदादिभ्यः परस्य सार्वधातुकस्य हलादेरपृक्तस्य ईडागमो भवति। अरोदीत् । अरोदीः। अस्वपीत्। अस्वपीः। अश्वसीत् । अश्वसीः। प्राणीत्। प्राणीः। अजक्षीत्। अजक्षीः। पञ्चभ्य इति किम् ? अजागर्भवान् । अपृक्तस्येत्येव — रोदिति॥
हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ॥
प्रथमम् सूत्रे प्रयुक्तानां सर्वेषां शब्दानाम् संक्षेपेण परिचयं प्राप्नुमः - 1. किम् नाम अपृक्तम्? <<अपृक्त एकाल्प्रत्ययः>> 1.2.41 - सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते । 2. किम् नाम सार्वधातुकप्रत्ययः ? <<तिङ्शित्सार्वधातुकम्>> 3.4.113 - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । 3. किम् नाम पित्? पकारः यस्मिन् प्रत्यये इत्संज्ञकः अस्ति सः पित् । यथा - तिप्, सिप्, मिप् । 4. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् <<उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् >> इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति । रुदिर् अश्रुविमोचने, ञिष्वप् शये, श्वसँ प्राणने, प्र + अनँ (प्राणने), जक्षँ भक्षहसनयोः - एते पञ्च धातवः अदादिगणस्य धातवः । एतेभ्यः अङ्गात् परः सार्वधातुकः पित्-प्रत्ययः यदि अपृक्तहल्-वर्णरूपेण आगच्छति, तर्हि तस्य ईट्-आगमः भवति । यथा - 1) रुद् इत्यस्य लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया - रुद् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → अट् + रुद् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + रुद् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → अ + रुद् + शप् + ति [ <<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप्] → अ + रुद् + ति [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक् ।] → अ + रोद् + ति [<<पुगन्तलघूपधस्य च>> 7.3.86 इति उपधागुणः] → अ + रोद् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ + रोद + ईट् + त् [<<रुदश्च पञ्चभ्यः>> 7.3.98 इति ईडागमः] → अरोदीत् [वर्णमेलनम्] एवमेव अस्वपीत्, अश्वसीत्, अप्राणीत्, अजक्षीत् एतेषां रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः भवति । तथैव, मध्यमपुरुषैकवचनस्य अस्वपीः, अश्वसीः आदीनि रूपाणि अपि एवमेव सिद्ध्यन्ति । ज्ञातव्यम् - सार्वधातुके प्रत्यये परे <<रुदादिभ्यः सार्वधातुके>> 7.2.76 इत्यनेन इडागमे प्राप्ते अनेन सूत्रेण परत्वात् अपवादत्वात् च ईट्-आगमः भवति ।
<<रुदश्च पञ्चभ्यः>> - रुदश्च । 'नाभ्यस्तस्य' त्तः पिति सार्वधातुके इति,उतो वृद्धि॑रित्यतो हलीति, 'गुणोऽपृक्ते' इत्यतोऽपृक्ते इति,ब्राउव ई॑डित्यत ईडिति चानुवर्तते । 'रुद' इति पञ्चमी । 'रुदादिभ्य' इति विवक्षितमित्यभिप्रेत्य सूत्रशेषं पूरयति — हलादेरित्यादिना ।
रुदिः स्वपिः श्वसिरनिर्जक्षिः पञ्च रुदादयः । रुदः इति बहुवचनस्थान एकवचनम् ।'पञ्चभ्यः' इति निर्द्देशादाद्यर्थावगतिः ॥