7-3-88 भूसुवोः तिङि गुणः न पिति सार्वधातुके
भूसुवोः तिङि गुणः न
भू-धातोः तथा सु-धातोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति ।
For the verbs भू and सु, the अङ्ग does not undergo a गुण when followed by a सार्वधातुक तिङ्-प्रत्यय.
भू सू इत्येतयोस्तिङि सार्वधातुके गुणो न भवति। अभूत्। अभूः। अभूवम्। सुवै, सुवावहै, सुवामहै। सूतेर्लुग्विकरणस्येदं ग्रहणम्। सुवतिसूयत्योर्विकरणेन तिङो व्यवधानम्। विकरणस्यैव ङित्त्वाद् गुणाभावः, सिद्धः। तिङीति किम्? भवति। सार्वधातुक इत्येव — व्यतिभविषीष्ट। अथ बोभवीतीति यङ्लुकि गुणप्रतिषेधः कस्माद् न भवति? ज्ञापकात्, यदयं बोभूतु ७.४.६५ इति गुणाभावार्थं निपातनं करोति॥
भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥
भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम॥
भू (सत्तायाम्) तथा षूङ् (प्राणिगर्भविमोचने) एतयोः धात्वोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति । 1) भू-धातुः वस्तुतः भ्वादिगणस्य धातुः अस्ति, अतः सार्वधातुके तिङ्-प्रत्यये परे अस्मात् शप्-विकरणप्रत्ययः विधीयते । परन्तु लुङ्लकारस्य विषये 'च्लि' इतस्य विकरणप्रत्ययस्य 'सिच्' आदेशे कृते <<गातिस्था...>> 2.4.77 इत्यनेन सिच्-इत्यस्य लोपः भवति, अतः भू-धातोः साक्षात् परः सार्वधातुकः तिङ्-प्रत्ययः आगच्छति । अस्यामवस्थायाम् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन उकारस्य गुणादेशे प्राप्ते अनेन सूत्रेण सः निषिध्यते । प्रक्रिया इयम् - भू + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → भू + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति च्लि] → भू + सिच् + ल् [<<च्लेः सिच्>> 3.1.44 इति सिच्] → भू + ल् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> 2.4.77 इति लोपः] → अट् + भू + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + भू + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ + भू + ति [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन उकारस्य गुणादेशे प्राप्ते <<भूसुवोस्तिङि>> 7.3.88 इति निषेधः] → अभूत् [<<इतश्च>> 3.4.100 इति इकारलोपः] 2) षूङ्-इति अदादिगणस्य धातुः अस्ति, अतः अस्मात् परस्य शप्-विकरणस्य <<अदिप्रभृतिभ्यः शपः>> 2.4.72 इत्यनेन लोपः भवति । अस्याम् स्थितौ सार्वधातुके तिङ्प्रत्यये परे अस्य उकारस्य यः लोपः विधीयते सः <<भूसुवोस्तिङि>> 7.3.88 इत्यनेन निषिध्यते । यथा, अस्य धातोः लोट्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् - षूङ् → सू [<<धात्वादे षः सः>> 6.1.64 इति सत्वम्] → सू + लट् [<<लोट् च>> 3.3.162 इति लोट्] → सू + इट् [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः] → सू + शप् + इट् [<<कर्तरि शप्>> 3.1.68 इति शप्] → सू + इ [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → सू + ए [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति इकारस्य एकारादेशः] → सू + ऐ [<<एत ऐ>> 3.4.93 इति ऐ-आदेशः] → सू + आ + ऐ [<<आडुत्तमस्य पिच्च>> 3.4.92 इति पित् आडागमः] → सू + ऐ [<<आटश्च>> 6.1.90 इति वृद्धिः] → स् उवङ् + तिप् [ पित्संज्ञके सार्वधातुके तिङ्-प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य ऊकारस्य गुणे प्राप्ते <<भूसुवोस्तिङि>> 7.3.88 इत्यनेन निषिध्यते । अतः <<अचिश्नु..>> 6.4.77 इति उवङ्-आदेशः भवति] → सुव् ऐ → सुवै
<<भूसुवोस्तिङि>> - भूसुवोस्तिङि । 'मिदेर्गुण' इत्यतो 'गुण' इति,नाभ्यास्तस्याचि पिती॑त्यतो नेति सार्वधातुक इति चानुवर्तते । तदाह — एतयोरिति । भू सू इत्यनयोरित्यर्थः । इहषूङ् प्राणिगर्भविमोचने॑ इतिलुग्विकरणस्यैव ग्रहणं, न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि, तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशह्कितुमाह —
अभूदिति । लुङ्,'गातिस्था' इत्यादिना सिचो लुक् । सुवै, सुवावहै, सुवामहै इति ।'षूङ् प्राणिगर्भविमोचने' , लोट्, चेरेत्वम्, ठेत ऐऽ, ठाडुतमस्य पिच्चऽ, शपो लुक्, उवङदेशः । सुवतिसूयत्योस्त्विति ।'षू प्रेरणे' तुदादिः,'षूङ् प्राणिप्रसवे, दिवादिः । भवतीति । शपि गुणः । व्यतिभविषीष्टेति । आशिषि लिङ्, ठ्लिङशिषि' इत्यार्धधातुकसंज्ञा,'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । अथेति । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्प्रसङ्गः । ज्ञापकादिति । सूतेस्तु निपातनाभावाद् गुणनिषेधो भवत्येव - सोषुवीतीति ॥