उतो वृद्धिर्लुकि हलि

7-3-89 उतः वृद्धिः लुकि हलि पिति सार्वधातुके

Kashika

Up

index: 7.3.89 sutra: उतो वृद्धिर्लुकि हलि


सार्वधातुके पितीति वर्तते। उकारान्तस्य अङ्गस्य वृद्धिर्भवति लुकि सति हलादौ पिति सार्वधातुके। यौति। यौषि। यौमि। नौति। नौषि। नौमि। स्तौति। स्तौषि। स्तौमि। उतः इति किम्? एति। एषि। एमि। लुकि इति किम्? सुनोति। सुनोषि। सुनोमि। हलि इति किम्? यवानि। रवाणि। पिति इत्येव, युतः। रुतः। अपि स्तुयाद् राजानम् इत्यत्र हि ङिच्च पिन्न भवतीति पित्त्वप्रतिषेधाद् वृद्धेरभावः। न अभ्यस्तस्य इत्येतदिह अनुवर्तते, योयोति, रोरोति इत्येवमाद्यर्थम्।

Siddhanta Kaumudi

Up

index: 7.3.89 sutra: उतो वृद्धिर्लुकि हलि


लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्न इति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् ।{$ {!1034 रु!} शब्दे$} ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.89 sutra: उतो वृद्धिर्लुकि हलि


लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्वभ्यस्तस्य। यौति। युतः। युवन्ति। यौषि। युथः। युथ। यौमि। युवः। युमः। युयाव। यविता। यविष्यति। यौतु, युतात्। अयौत्। अयुताम्। अयुवन्। युयात्। इह उतो वृद्धिर्न, भाष्ये -'पिच्च ङिन्न ङिच्च पिन्न' इति व्याख्यानात्। युयाताम्। युयुः। यूयात्। यूयास्ताम्। यूयासुः। अयावीत्। अयविष्यत्॥ {$ {! 4 या !} प्रापणे $} ॥ याति। यातः। यान्ति। ययौ। याता। यास्यति। यातु। अयात्। अयाताम्॥

Balamanorama

Up

index: 7.3.89 sutra: उतो वृद्धिर्लुकि हलि


उतो वृद्धिर्लुकि हलि - उतो वृद्धिर्लुकि हलि ।नाभ्यस्याचि पिति सार्वधातुके॑ इति अचिवर्जमनुवर्तते । लुकीति विषयसप्तमी, दर्शनाऽभावस्य लुकः परत्वाऽसंभवात् ।तदाह — लुग्विषय इत्यादिना । यौतीति । गुणं बाधित्वा वृद्धिः । युत इति । अपित्त्वान्न वृद्धिः । युवन्तीति । अपित्त्वाद्वृद्ध्यभावे ङित्त्वाद्गुणाऽभावे उवङिति भावः । यौषि युथः युथ । यौमि युवः युमः । युयावेति । युयुवतुः युयुवुः । युयविथ युयुवथुः युयुव । युयाव-युयव युयुविव युयुविम । यवितेति । उवङं बाधित्वा परत्वाद्गुण- । यविष्यति । यौतु युतात् युताम् युवन्तु । हौ अपित्त्वान्न वृद्धिः । युहि — युतात् युतम् युत । आटि पित्त्वेऽपि हलादित्वाऽभावान्न वृद्धिः । पित्त्वेन ङित्त्वाऽभावाद्गुणः । यवानि यवाव यवाम । अयौत् अयुतामयुवन् । अयौः अयुतमयुत । अयवमयुव अयुम । विधिलिङ्याह — युयादिति । अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह - इह उतो वृद्धिर्नेति । कुत इत्यत आह — भाष्ये इति । व्याख्यानादिति । 'हलः श्नः शानज्झौ' इति सूत्रव्याख्यावसरे वचनादित्यर्थः । ननु यासुडागमसहितस्य तिपः पित्त्वात्पिच्च ङिन्ने॑त्युक्तवचनेनयासुट् परस्मैपदेषु॑ इति ङित्त्वस्याऽप्यभावात्क्ङिति चे॑त#इ गुणनिषेधाऽभावाद्गुणः स्यादित्यत आह — विशेषविहितेनेत्यादि, बाधादित्यन्तम् ।यासुट् परस्मैपदेषु॑ इति विशेषविहितेन यासुटो ङित्त्वेन तत्सहितस्य तिपोङिच्च पिन्ने॑ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाधान्ङित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः । आशीर्लिङ्याह — यूयादिति । आर्धधातुकत्वान्न वृद्धिः ।अकृत्सार्वधातुकयो॑रिति दीर्घः । यूयास्तामित्यादि । लुङ्याह — अयावीदिति । सिचि वृद्धिः ।इट ईटी॑ति सिज्लोपः । अयाविष्टामित्यादि । अयविष्यत् ।

Padamanjari

Up

index: 7.3.89 sutra: उतो वृद्धिर्लुकि हलि


यवानीति । लोडुतमैकवचनम् । अपि स्तुयादिति । अपिः सम्भावने कर्मप्रवचनीय इति ठुपसर्गात्सुनोतिऽ इत्यादिना षत्वं न भवति । ङ्च्चि पिन्न भवतीति । यासुडादेः सार्वधातुकस्य साक्षाच्छिष्ट्ंअ ङ्त्विमनवकाशम्, तिबादीनां तु पित्वं लकारान्तरेषु सावकाशम्, तेन'ङ्च्चि पिन्न भवति' इति'पिच्च डिन्न भवति' इति वचनद्वयसद्भावेऽपि'ङ्च्चि पिन्न भवति' इत्येतदेवात्र प्रवर्तत इति भावः ।'क्ङिति च' इति प्रतिषेधस्त्वत्र न लभ्यते, किं कारणम् ? इक इत्येवमिक्संशब्दनेन या वृद्धिस्तस्याः स प्रतिषेधः, इह तु ठुतःऽ इति निर्दिष्टस्थानिकत्वादिक्परिभाषा नोपतिष्ठते ॥