7-3-87 न अभ्यस्तस्य अचि पिति सार्वधातुके गुणः पुगन्तलघूपधस्य
index: 7.3.87 sutra: नाभ्यस्तस्याचि पिति सार्वधातुके
अभ्यस्तसंज्ञकस्य अङ्गस्य लघूपधस्य अजादौ पिति सार्वधातुके गुणो न भवति। नेनिजानि। वेविजानि। परिवेविषाणि। अनेनिजम्। अवेविजम्। पर्यवेविषम्। अभ्यस्तस्य इति किम्? वेदानि। अचि इति किम्? नेनेक्ति। पिद्ग्रहणमुत्तरार्थम्। सार्वधातुके इति किम्? निनेज। लभूपधस्य इत्येव, जुहवानि। अजुहवम्। बहुलं छन्दसीति वक्तव्यम्। जुजोषतिति यथा स्यात्। पस्पशाते। चाकशीति। वावशीति। यङ्लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम्। पस्पशाते इत्यत्र अभ्यासह्रस्वत्वं च। प्रकृत्यन्तराणां वा स्पशिकशिवशीनाम् एतानि रूपाणि।
index: 7.3.87 sutra: नाभ्यस्तस्याचि पिति सार्वधातुके
लघूपधगुणो न स्यात । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त ।{$ {!1094 विजिर्!} पृथग्भावे$} । वेवेक्ति । वेविक्ते । विवेजिथ । अत्र विज इट् <{SK2536}> इति ङित्वं न । ओविजी इत्यस्यै तत्र ग्रहणात् । णिजिविजी रुधादावपि ।{$ {!1095 विष्लृ!} व्याप्तौ$} । वेवेष्टि । वेविष्टे । लृदित्त्वादङ् । अविषत् । तङि क्सः । अजादौ क्सस्याचि <{SK2337}> इति अल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ॥ अथ आगणान्ताः परस्मैपदिनश्छान्दसाश्च ॥{$ {!1096 घृ!} क्षरणदीप्त्योः$} । जिघर्म्यग्रिं हविषा घृतेन । भृञामित् <{SK2496}>, बहुलं छन्दसि <{SK3598}> इति इत्वम् ।{$ {!1097 हृ!} प्रसह्यकरणे$} । अयं स्रुवो अभिजिहर्ति होमान् ।{$ {!1098 ऋ!} {!1099 सृ!} गतौ$} । बहुलं छन्दसि <{SK3598}> इत्येव सिद्धे अर्तिपिपर्त्योश्च <{SK2493}> इतीत्वविधानादयं भाषायामपि । अभ्यासस्यासवर्णे <{SK2290}> इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः । इडत्त्यर्ति - <{SK2384}> इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति ।{$ {!1100 भस!} भर्त्सनदीप्त्योः$} । बभस्ति । घसिभसोर्हलिच <{SK3550}> इत्युपधालोपः । झलो झलि <{SK2281}> इति सलोपः । बब्धः । बप्सति ।{$ {!1101 कि!} ज्ञाने$} । चिकेति ।{$ {!1102 तुर!} त्वरणे$} । तुतोर्ति । तुतूर्तः । तुतुरति ।{$ {!1103 धिष!} शब्दे$} । दिधेष्टि । दिधिष्टः ।{$ {!1104 धन!} धान्ये$} । दधन्ति । दधन्तः । दधनति ।{$ {!1105 जन!} जनने$} । जजन्ति ॥
index: 7.3.87 sutra: नाभ्यस्तस्याचि पिति सार्वधातुके
लघूपधगुणो न स्यात्। नेनिजानि। नेनिक्ताम्। अनेनेक्। अनेनिक्ताम्। अनेनिजुः। अनेनिजम्। अनेनिक्त। नेनिज्यात्। नेनिजीत। निज्यात्, निक्षीष्ट॥
index: 7.3.87 sutra: नाभ्यस्तस्याचि पिति सार्वधातुके
नाभ्यस्तस्याचि पिति सार्वधातुके - नाभ्यस्स्याचि । 'मिदेर्गुणः' इत्यतो गुण इति,पुगन्ते॑त्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लघूपधगुणो न स्यादिति । नेनिजानीति । नेनिजाव नेनिजाम । नेनिक्ताम् नेनिजाताम् नेनिजताम् । नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् । नेनिजै नेनिजावहै । नेनिजामहै । लङि परस्मैपदे आह — अनेनेगिति । अनेनिजुरिति । अभ्यस्तत्वाज्जुसिति भावः । अनेनेक् अनेनिक्तमनेनिक्त । अनेनिजम् ।नाभ्यस्तस्ये॑ति न गुणः । अनेनिज्व अनेनिज्म । निक्षीष्ट । लुङ्याह — अनिजदिति । इरित्त्वादङिति भावः । अनिक्तेति ।झलो झली॑ति सिज्लोपः । अनिक्षातामित्यादि । विजिरपि णिजिर्वत् । अत्रेति । थलि इट्पक्षेविज इ॑डिति विहितं ङित्त्वं नेत्यर्थः । अतो न गुणनिषेध इति भावः । ओ विजी इत्यस्यैवेति । व्याख्यानादिति भावः । रुधादावपीति । ततश्चरुधादिभ्यः श्न॑मिति श्नम्विकरणावपि ताविति भावः । विष्लृ व्याप्तौ इति । लृदित्, उभयपदी, अनिट् । णिजेरिव रूपाणि । वेवेष्टीति । ष्टुत्वेन तकास्य टः । सिपिषढो॑रिति षस्य कत्वम् । वेवेक्षि वेविष्ठः । वेविष्ठ । वेविड्ढि । अविषदिति । लृदित्त्वादङिति भावः । तङि क्स इति ।शल इगुपधा॑दित्यनेनेति भावः । आ गणान्तादिति । जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः । घृधातुरनिट् । तिपि श्लौ द्वित्वेऽभ्यासकार्ये गुणे रपरत्वे जघर्ति । जघृतः जघ्रति ।जघम्र्यग्न हविषा घृतेन॑ इति बह्वृचमन्त्रपाठः ।जघम्र्यग्न मनसा घृतेने॑ति तैत्तिरीयपाठः । अत्रेत्त्वमभ्यासस्य आह — भृञामिदिति । ननु तत्र त्रयाणामेव ग्रहणमित्यत आह- बहुलमिति । इत्त्वं छान्दसमिति भावः । जघार जघ्रतुः । जघ्रुः । जघर्थ जघ्रथुः जघ्र । जघार — जघर । जघ्रिव । घरिष्यति । जघर्तु — जघृतात् । जघ्रतु । जघृहि । जघराणि । अजघः अजघृतामजघरुः । अजघरमजघृव । जघृयात् । घ्रियात् । अघार्षीत् । अघरिष्यत् । ह्म इति । घृधातुवद्रूपाणि । अयं रुआउवो अभिजिहर्ति होमानिति । रुआउवे साद्यमाने याजमानो मन्त्रः । अत्रापि अभ्यासस्य इत्त्वं चान्दसमिति भावः । ऋ सृ गताविति । इमावनिटौ । तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित्प्रयोगं समर्थयति — बहुलमिति । 'भृञामित्' 'अर्तिपिपत्र्योश्च'बहुलं छन्दसी॑ति सूत्रस्थितिः । तत्रबहुलं छन्दसी॑त्येव ऋधातोरित्त्वसिद्धेःअर्तिपिपत्र्योश्चेटत्यर्तिग्रहणाल्लोकेऽपि ऋधातोः श्लुविकरणस्य प्रयोगो विज्ञायत इत्यर्थः । एतच्चाऽत्रैव सूत्रे भाष्ये स्पष्टम् । अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोःअर्तिपिपर्त्योश्चे॑त्यत्र ग्रहणम्, पिपर्तिसाहचर्याच्च, श्लवित्यस्य अभ्यासग्रहमस्य चानुवृत्तेश्चेत्यलम् । अभ्यासस्यासवर्णे इति । शपः श्लौ ऋ-तीतिस्थिते द्वित्वे उरदत्त्वं बाधित्वाअर्तिपिपत्र्योश्चे॑त्यभ्यासऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् तीति स्थितेअभ्यासस्याऽसवर्णे॑इतीयङि इयतीति रूपमित्यर्थः । इयृत इति । पूर्ववदेव द्वित्वादि । तसोऽपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः । इय्रतीति । पर्ववदेव द्वित्वादि । अभ्यस्तत्वाददादेशः । ङित्त्वान्न गुणः । उत्तरखण्डस्य ऋकारस्य यण् रेफ इति भावः । इयर्षि इयृथः । इयर्मि इयृवः इयृमः । लिटआह - आरेति । आरिव । आरिम । अर्तेति । अनिट्त्वादिति भावः । अरिष्यतीति । 'ऋद्धनोः स्ये' इतीडिति भावः । इयर्तु इयृतात् इयृताम् इय्रतु । इयृहि — इयृतात् इयृतम् इयृतैयराणीति । आटः पित्त्वेनाऽङित्त्वान्न गुणनिषेध इति भावः । इयराव । इयराम । लङ्याह — ऐय इति । श्लौ ऋ त् इति स्थिते द्वित्वेऽभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्डस्य गुणे रपरत्वे च हल्ङ्यादिलोपे रेफस्य विसर्गे इय इति स्तिते आटि वृद्धौ #ऐय इति रूपमिति भावः । न चलावस्थायाम॑डिति पक्षे आट#इ वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घे हल्ङ्यादिलोपे रेफस्य विसर्गे ऐयरुरिति । ऐयः ऐयृतम् ऐयृत ।ऐयरम् ऐयृव ऐयृम । विधिलिङ्याह — इयृयादिति । यासुटो ङित्त्वाद्गुणनिषेध इति भावः । इयृयातामित्यादि । आशीर्लिङ्याह - अर्यादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घः प्राप्तः । तं बाधित्वा 'रिङ् शयग्लिङक्षु' इति रिङ् प्राप्तः । तं बाधित्वागुणोऽर्तिसंयोगाद्यो॑रिति गुण इति भावः । लुङ्याह — आरदिति ।सर्तिशास्त्यर्तिभ्यश्चे॑त्यङिऋदृशोऽङी॑ति गुण इति भावः । आरिष्यत् । तदेवमृधातुं निरूप्य सृधातुं निरूपयति — ससर्तीति । ससृतः सरुआतीत्यादि सुगमम् । ससार । ससर्थ । ससृव । सर्ता । सरिष्यति । ससर्तु । अससः अससृतामससरुः । रिउआयात् । असरत् । भस भत्र्सनेति । अयं सेट् । बभस्तीति । श्लौ भस् तीति स्थिते द्वित्वेऽभ्यासजश्त्वमिति भावः । बभस् तस् इति स्थिते आह — घसिभसोरिति ।घसिभसोर्हलि चे॑त्यस्यायमर्थः — छन्दसि अनयोरुपधाया लोपः स्याद्धलादावजादौ च क्ङिति परे इति । तथा च बभस् तसित्यत्र उपधालोपेझलो झली॑ति सकारलोपे तकारस्यझषस्तथो॑रिति धत्वे भकारस्य जश्त्वमिति भावः । बप्सतीति । अभ्यस्तत्वाददादेशे बभस् अतीति स्थितेघसिभसो॑रित्युपधालोपे भकारस्य चर्त्वमिति भावः । बभस्सि बब्धः बब्ध । बभस्मि बप्स्वः बप्स्मः । बभास बप्सतुः बप्सः । बभसिथ बप्सथुः बप्स । बभास बभस बप्सिव बप्सिम । भसिता । भसिष्यति । बभस्तु — बब्धात् बब्धाम् बप्सतु । बब्धि — बब्धात् बब्धम् बब्ध । बभसानि बभसाव बभसाम । अबभः अबब्धामबप्सुः । अबभः अबब्धमबब्ध । अबप्समबप्स्व । अबप्स्म । बप्स्यात् । भस्यात् । अभासीत्-अभसीत् । अभसिष्यत् । कि ज्ञाने । चिकेतीति । किधास्तोस्तिपि श्लौ द्वित्वे अभ्यासचुत्वे उत्तरखण्डस्य गुण इतिभावः । चिकितः चिक्यति । चिकेषि चिकिथः चिकिथ । चिकेमि चिकिवः । चिकिमः । चिकाय चिक्यतुः ।चिक्युः । चिकयिथ — चिकेथ । चिक्यिव । केता । केष्यति । चिकेतु — चिकितात् चिकिताम् चिक्यतु । चिकिहि । चिकयानि । अचिकेत् अचिकितामचिकयुः । अचिकेः । अचिकयमचिकिव । चिकियात् । कीयात् । अकैषीत् । अकेष्यत् । तुर त्वरणे इति । तुतूर्त इति ।हलि चे॑ति दीर्घः । तुतोर्षि तूतूर्थः तुतूर्थ । तुतोर्मि तुतूर्वः । तुतोर । तुतुरतुः तुतोरिथ । तुतुरिव । तोरिता । तोरिष्यति । तुतोर्तु — तुतूर्ताम् तुतुरतु । तुतूर्हि । तुतुराणि । अतुतोः अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतुरम् ।अतुतूरव । तुतूर्यात् । तूर्यात् । अतोरीत् । अतोतुतुराणि । अतुतोः अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतुरम् । अतुतूर्व । तुतूर्यात् ।तूर्यात् । अतोतीत् । अतोरिष्यत् । धिष शब्दे । सेट् । दिधेष्टीति । श्लौ द्वित्वादौ लघुपधगुणे तकारस्य ष्टुत्वमिति भावः । दिधिषति.दिधेक्षि दिधिष्ठः । दिधेष्मि दिधिष्वः । दिधेष दिधिषतुः । दिधेषिथ । दिधिषिव । धेषिता । धेषिष्यति । दिधेष्टु — दिधिष्टात् । दिधिषतु । दिधिड्ढि । दिधिषाणि । अदिधेट् अदिधिष्टामदिधिषुः । अदिधिषमदिधिष्व । दिधिष्यात् । धिष्यात् । अधेषीत् । अदेषिष्यत् । धन धान्ये इति । धान्याऽर्जने इत्यर्थः । दधन्त इति । क्षमूष् सहने इति धातोश्चक्षंसे इतिवदनुनासिकस्य क्वीति न दीर्घः । दधंसि दधन्थः । दधन्मि दधन्वः दधन्मः । दधान दधनतुः । दधनिथ । दधनिव । धनिता । धनिष्यतु । दधन्तु — दधन्तात् दधन्ताम् दधनतु ।दधंहि.दधनानि । अदधन् अदधन्तामदधनुः । अद्धन् अदधन्तमदधन्त ।अदधनमदधन्व अदधन्म । दधन्यात् । धन्यात् । अधानीत् अधनीत् । अधनिष्यत् । जन जनने इति । उत्पत्तौ कर्मकः । उत्पादने सकर्मकः ।
index: 7.3.87 sutra: नाभ्यस्तस्याचि पिति सार्वधातुके
नेनिजानीत्यादि । लोट्,'मेर्निः' , ठाडुतमस्य पिच्चऽ शपः श्लुः, द्विर्वचनम्,'णिजां त्रयाणां गुणः श्लौ' । अनेनिजमित्यादि । लङ्, मिपोऽम्भावः । वेदानीति ।'विद ज्ञाने' , लोडादि यथायोगं पूर्ववत्, शपो लुक् । नेनेक्तीति । लट्, तिप्, कुत्वम् । पिद्ग्रहणमुतरार्थमिति ।'तृणह इम्' पिति यथा स्यात्, इह तु पितोऽन्यत्रापि'सार्वधातुकमपिति' इति ङित्वाद्भिवितव्यमेव प्रतिषेधेन । निनेजेति । णल्, स च'लिट् च' इत्यार्द्धधातुकसंज्ञः । जुजोषदिति ।'जुषी प्रीतिसेवनयोः' , लेट्, व्यत्ययेन परस्मैपदम्, तिप्, ठितश्च लोपः परस्मैपदेषुऽ,'लेटो' डाटौऽ इत्यट्, व्यत्ययेन शपः श्लुः, द्विर्वचनम् । यद्यत्र गुणप्रतिषेध इष्यते, पस्पशाते इत्यादौ उपधाह्रस्वत्वमिष्यते, तन्न प्राप्नोति । तस्मादभ्यस्तानामुपधाया ह्रस्वत्वमेव विधेयम्, न गुणप्रतिषेधः । कथं नेनिजानीत्यादि, गुणे कृते उपधाह्रस्वत्वम्, ठेच इग्घ्रस्वादेशऽ, सिद्धमिष्टम् ? अत आह - पस्पशाते इत्यादि । स्पशिर्वार्तिककारवचनादपठितोऽपि धातुः, तस्माल्लेट्, व्यत्ययेनात्मनेपदम्, टेरेत्वे'लेटो' डाटौऽ इत्याट्, शपः'बहुलं च्छन्दसि' इति श्लुः, द्विर्वचनम् । अथ वा - यङ्लुकि छान्दसमभ्यासस्य ह्रस्वत्वम् । चाकशीतिति ।'काशृ दीप्तौ' , यङ्लुक्, लट्, तिप्,'यङे वा' इतीडागमः । वावशीतिरिति ।'वाशृ दीप्तौ' , यङ्लुक्, लट्, शत्रादेशः, ङीप्, शस् । छान्दसं ह्रस्वत्वमिति । यदि तु गुणनिषेधं प्रत्याख्यायोपधाह्रस्वत्वमुच्येत, तदा नर्नृतीतीत्यादौ ऋदुपधे रपरे गुणे कृते ह्रस्वभाविन्युपधा नास्तीति रूपं न सिद्ध्येत् । तस्माच्छान्दसमेव ह्रस्वत्वमेष्टव्यमिति भावः । प्रकृत्यन्तराणामेवेति ।'स्पश बाधनस्पर्शनयोः' 'कश गतिशासनयोः' ,'वश कान्तौ' ॥