एत ऐ

3-4-93 एतः ऐ प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः उत्तमस्य

Sampurna sutra

Up

लोटः लस्य उत्तमस्य एतः ऐः

Neelesh Sanskrit Brief

Up

लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययेषु विद्यमानस्य एकारस्य ऐ-आदेशः भवति ।

Neelesh English Brief

Up

The एकार occurring in the उत्तमपुरुष प्रत्ययाः of लोट्-लकार is converted to ऐ.

Kashika

Up

लोडुत्तमस्येति वर्तते। लोडुत्तमसंबन्धिन एकारस्य ऐकारादेशो भवति। आमोऽपवादः। करवै, करवावहै, करवामहै। इह कस्माद् न भवति — पचावेदम्, यजावेदम्? बहिरङ्गलक्षणत्वाद् गुणस्य॥

Siddhanta Kaumudi

Up

लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ॥

Laghu Siddhanta Kaumudi

Up

लोडुत्तमस्य एत ऐ स्यात्। एधै। एधावहै। एधामहै॥ आटश्च। ऐधत। ऐधेताम्। ऐधन्त। ऐधथाः। ऐधेथाम्। ऐधध्वम्। ऐधे। ऐधावहि। ऐधामहि॥

Neelesh Sanskrit Detailed

Up

लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययेषु विद्यमानस्य एकारस्य <<आमेतः>> 3.4.90 इत्यनेन आम्-आदेशे प्राप्ते वर्तमानसूत्रेण परत्वेन अपवादत्वेन च वर्तमानसूत्रेण ऐ-आदेशः भवति । अस्य उदाहरणानि आत्मनेपदस्य प्रत्ययेषु दृश्यन्ते, यतः परस्मैपदस्य प्रत्ययेषु एकारस्यैव प्रसक्तिः नास्ति । तन्-धातुं स्वीकृत्य उदाहरणानि एतानि - 1. आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + इट् [<<तिप्तस्>>..3.4.78 इति इट् -प्रत्ययः] → तन् + उ + इ [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + ए [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति इकारस्य एकारादेशः] → तन् + उ + ऐ [<<एत ऐ>> 3.4.93 इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + ऐ [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + उ + ऐ [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] → तन् + ओ + ऐ [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् + अव् + ऐ [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवै 2. आत्मनेपदस्य उत्तमपुरुषद्विवचनस्य वहि-प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + वहि [<<तिप्तस्>>..3.4.78 इति वहि-प्रत्ययः] → तन् + उ + वहि [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + वहे [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति इकारस्य एकारादेशः] → तन् + उ + वहै [<<एत ऐ>> 3.4.93 इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + वहै [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + ओ + आ + वहै [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् + अव् + आ + वहै [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवावहै 3. आत्मनेपदस्य उत्तमपुरुषबहुवचनस्य महिङ्-प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + महिङ् [<<तिप्तस्>>..3.4.78 इति वहि-प्रत्ययः] → तन् + उ + महि [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + महे [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति इकारस्य एकारादेशः] → तन् + उ + महै [<<एत ऐ>> 3.4.93 इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + महै [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + ओ + आ + महै [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् + अव् + आ + महै [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवामहै

Balamanorama

Up

<<इतश्च>> - इतश्च । लस्येत्यधिकृमतम् ।इतश्च लोपः परसमैपदेष्वि॑त्यस्माल्लोप इति, परस्मैपदेष्विति चानुवर्तते । परस्मैपदष्वित्येततत्षष्ठआ विपरिणम्यते । तदाह — ङितो लस्येत्यादिना । अलोऽन्त्यस्येत्यन्त्यस्य लोपः । तदाह — अभवदिति । अभवतामिति । लङस्तस्तामादेशः । शप् गुणावादैशौ । अट् । अभवन्निति । झेरन्तादेशः । शप् गुणावादेशौ ।अट् ।इतश्चे॑तीकारलोपः । तकारस्य संयोगान्तलोपः । अभव इति । सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ । अभवतमिति । थसस्तमादेशः । शप् । गुणावदेशौ । अट् । अभवतेति । थस्य तादेशे शपि गुणे अवादेशेऽटि । अभवमिति । मिपोऽमादेशे शपि गुणेऽवादेशे पूर्वरूपम् । अभवावेति । वसि शपि गुणावादेशौ । अट् ।अतो दीर्घो यञी॑ति दीर्घः । 'नित्यं ङित' इति सकारलोपः । एवं मसि अभवामेति रूपम् । इति लङप्रक्रिया ।

Padamanjari

Up

इह कस्मादिति । गुणस्यान्तवद्भावेन लोड्ग्रहणेन ग्रहणादस्ति प्रसङ्ग इति भावः । बहिरङ्गलक्षणत्वादिति । द्विपदाश्रयत्वाद् गुणस्य बहिरङ्गत्वम्, ऐकारस्त्वेकपदाश्रयत्वादन्तरङ्गः, अत एव हेतोः ठामेतःऽ इत्ययमपि विधिर्न भवति ॥