उभे अभ्यस्तम्

6-1-5 उभे अभ्यस्तम् एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य

Sampurna sutra

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


उभे अभ्यस्तम्

Neelesh Sanskrit Brief

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, तयोः द्वयोः मिलित्वा 'अभ्यस्त' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


When the doubling happens in this अधिकार, the two copies are collectively referred as 'अभ्यस्त'.

Kashika

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


द्वे इति वर्तमाने उभेग्रहणं समुदायसञ्जाप्रतिपत्त्यर्थम्। ये एवे विहिते ते उभे अपि समुदिते अभ्यस्तसंज्ञे भवतः। ददति। ददत्। दधतु। उभेग्रहणं किम्? नेनिजति इत्यत्र अभ्यस्तानामादिः इति समुदाये उदात्तत्वं यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूतिति। अभ्यस्तप्रदेशाः अभ्यस्तानामादिः 6.1.189 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः॥

Neelesh Sanskrit Detailed

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


एकाचो द्वे प्रथमस्य 6.1.1 इत्यस्मिन् अधिकारे यत्र द्वित्वम् भवति, तत्र द्वयोः समुदायेन 'अभ्यस्त'संज्ञा भवति । यथा -

  1. 'पच्' इत्यस्य द्वित्वे कृते 'पच् पच्' इति प्राप्ते, अस्य समुदायस्य ('पच् पच्' इत्यस्य) अभ्यस्तसंज्ञा भवति ।

  2. 'जागृ' इत्यस्य द्वित्वे कृते 'जा जागृ' इति प्राप्ते, अस्य समुदायस्य ('जाजागृ' इत्यस्य) अभ्यस्तसंज्ञा भवति ।

  3. 'अटि' इत्यस्य द्वित्वे कृते ' अटि टि' इति प्राप्ते, अस्य समुदायस्य ('अटिटि' इत्यस्य) अभ्यस्तसंज्ञा भवति ।

  4. 'अर्चि' इत्यस्य द्वित्वे कृते 'अर्चि चि' इति प्राप्ते, अस्य समुदायस्य ('अर्चिचि' इत्यस्य) अभ्यस्तसंज्ञा भवति ।

अत्र 'समुदायस्य' इयम् संज्ञा भवतीति ज्ञातव्यम् । अतः द्वयोः विहितयोः पृथक्-रूपेण अभ्यस्त-संज्ञा न भवति । तथा च, केवलं प्रथमस्य / केवलं द्वितीयस्य अपि 'अभ्यस्त'संज्ञा न भवति । अतएव अस्मिन् सूत्रे 'अभ्यस्तम्' इति एकवचनम् कृतमस्ति ।

'अभ्यस्त' संज्ञायाः प्रयोगः अभ्यस्तानामादिः 6.1.189, अभ्यस्तस्य च 6.1.33 एतादृशेषु सूत्रेषु कृतः अस्ति ।

Balamanorama

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


उभे अभ्यस्तम् - ॒उगिदचा॑मिति नुमि प्राप्तेनाब्यस्ता॑दिति तन्निषेधं वक्ष्यन्नभ्यस्तसंज्ञामाह — उभे अभ्यस्तम् ।एकाचो द्वे प्रथमस्ये॑त्यतो 'द्वे' इत्यनुवर्तते ।उबे॑ग्रहणं समुदायप्रतिपत्त्यर्थम् । 'द्वे' इत्यनेन च षष्ठाध्यायविहितमेव द्वित्वं विवक्षितम्,अनन्तरस्य विधिर्वा प्रतिषेधो वा॑ इति न्यायात् । तदाह — षाष्ठेत्यादिना । समुदिते किम् । नेनिजतीत्यत्र प्रत्येकमभ्यस्तसंज्ञायाम् 'अभ्यस्तानामादिः' इत्युदात्तः प्रत्येकं स्यात् ।

Padamanjari

Up

index: 6.1.5 sutra: उभे अभ्यस्तम्


द्वे इति वर्तमान इत्यादि। द्विरुक्तसमुदायस्यैकाऽभ्यस्तसंज्ञा यथा स्याद्, द्वयोर्द्वेअ संज्ञे मा भूतामित्येवमर्थमुभेग्रहणम्, न तु संज्ञिनिर्देशार्थम्। द्वे इत्यस्यानुवृत्यैव संज्ञिनिर्देशस्य सिद्धत्वादित्यर्थः। ददतीत्यादौ ठदभ्यस्तात्ऽ इत्यद्भावः,'श्नाभ्यस्तयोरातः' इत्याकारलोपः। नेनिजतीत्यत्रेत्यादि। असत्युभे ग्रहणे'वृद्धिरादैच्' इत्यादौ प्रत्येकं वाक्यपरिसमाप्तिदर्शनादिहापि प्रत्येकं स्यात्, ततश्च नेनिजतीत्यत्र पृथगाद्यौदातत्वं स्यात्। न च ठनुदातं पदमेकवर्जम्ऽ इत्येकस्यानुदातत्वम्; वर्जनीयविशेषावगमहेतोः सतिशिष्टत्वादेरसम्भवात्। अथापि स्यात्, एवमपि पर्यायः स्यात्। ननु च'भीह्नीभृहुमद' इति ज्ञापकात्परस्य न भविष्यति? पूर्वस्यापि तर्हि न स्यात्, परेण व्यवधानात्। उच्यते च स्वरः, ततश्च स एव पर्यायप्रसङ्गः। यदि तु संयोगसमासादिसंज्ञावदन्वर्थत्वप्रतिपच्यर्थं महासंज्ञाकरणम्, तेनान्वर्थताविज्ञाने समुदायस्यैव संज्ञेत्युच्यते, तदोभेग्रहणं शक्यमकर्तुम्। ननु यत्रोभे श्रूयेते तत्र यथा स्यात्, अन्यतराभावे मा भूद्-इत्येवमर्थमुभेग्रहणं कर्तव्यम्; अन्यथा ऋधेरापश्च'सनीवन्त' इति इडभावपक्षे परत्वात् प्रतिपदविहितत्वाच्च ठाप्ज्ञप्यृधामीत्ऽ इतीत्वे'न न्द्राः' इति प्रतिषेधाद्रेफवर्जं द्वितीयस्यैकाचो द्विर्वचने कृतेठत्र लोपोऽभ्यासस्यऽ इत्यतः प्रागन्तरङ्गत्वादभ्यस्तसंज्ञा स्यात्। सा च प्रत्येकम्, समुदायस्य वा? तत्र प्रत्येकपक्षेऽभ्यासलोपेऽपि परस्य न निवर्तेत। समुदायपक्षेऽपि पूर्व संज्ञा समुदाये प्रवृता; पश्चादेकदेशनिवृतावप्यवशिष्टेऽवतिष्ठेत। यथेयसुन ईकारे लुप्तेऽपि तद्वितसंज्ञा - भूयानित्यत्र। सत्यां च संज्ञायाम् - ईप्सन्ति, ऐप्सन्, ईर्त्सन्ति, ऐर्त्सन्, इत्यत्राद्भावजुसभावनुम्प्रतिपेधाः स्युः, अतः श्रूयमाणप्रतिपत्यर्थमुभेग्रहणं कर्तव्यम्? तन्न; प्रतीषिषतीत्यादिवत्सिद्धेः। तथा हि-ठजादेर्द्वितीयस्यऽ इति सनि द्विरुक्ते श्रूयमाणयोरुभ्योः सत्यामप्यभ्यस्तसंज्ञायामद्भावादयो न भवन्ति। यथा च पुत्रीयषिषन्तीत्यादौ'यथेष्ट्ंअ नामधातूनाम्' इति सनि द्विरुक्ते, तद्वदत्रापि न भविष्यति। अत्र हि ईप्साझि, ईर्त्साझीति स्थितेऽद्बावात्प्राग्नित्यत्वाच्छप्, अद्भावो हि शपि कृते तेन व्यवधानान्न प्राप्नोतीत्यनित्यः ततः'ज्ञो' न्तःऽ प्राप्नोति, पूर्वेण सहैकादेशश्च, परत्वादन्तादेशः। नित्य एकादेशः-कृतेऽप्यन्तादेशे प्राप्नोति, अकृतेपि। अन्तादेशस्त्वनित्यः, कृते एकादेशे तस्यान्तवद्भावादभ्यस्तग्रहणेन ग्रहणादद्भावेन बाध्यते। यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। अन्तरङ्गस्तर्ह्ये कादेशः; वर्णाश्रयत्वात्। अन्तादेशस्त्वाङ्गत्वाद्बहिरङ्गः, समानाश्रये च'वार्णादाङ्गं बलीयः' ; अन्तादेशोऽप्यन्तरङ्गः, वक्ष्यति हि-आयन्नादिषूपदेशिवद्वचनमिति। तदेवमुभयोरप्यन्तरङ्गयोर्नित्ययोश्च परत्वादन्तादेशः, ततो झकाराभावादलाश्रयत्वेन स्थानिवद्भावाभावाच्चादादेशो न भवति। अस्तु वा पूर्वमेकादेशः एवमपि ठात्मनेपदेष्वनतःऽ इत्यत्र ठनतःऽ इत्यस्य ठदभ्यस्तात्ऽ इति पूर्वेणापि सम्बन्धात्पूर्वस्मादपि विधावेकादेशस्य स्थानिवत्वाद्वाऽद्भावो न भविष्यति। एवमैप्सन्नित्यत्रापि, ईप्सौझि इति स्थिते शप् च प्राप्नोति, जुस्भावश्च, नित्यत्वाच्छपि कृते तेन व्यवधानान्न जुस्भावः। न च पूर्वेण सहैकादेशे कृते तस्यान्तद्भावात्पुनर्जुस्प्रसङ्गः, पूर्वस्मादपि विधौ स्थानिवत्वात्। ईप्सन्नित्यत्रापि लटः शत्रादेशः, ईप्साशतृ इति स्थिते सार्वधातुकमात्रापेक्षत्वादन्तरङ्गत्वाच्छपि कृते तत्र सनोऽकारेणातो गुणे पररूपे पश्चात्सर्वनामस्थाने चोत्पन्ने नुमः प्रसक्तस्य तस्यां दशायां शत्रभ्यस्तयोर्व्यपवर्गाभावादुभयवर्णाश्रयत्वेनान्तादिवद्भावाभावच्च निषेधाभावः। एवं प्रतीषिषन्तीत्यादावपि। चिकीर्षन्तीत्यादौ तु यत्र सनोऽकारो न द्विरुच्यते, तत्र तेनैव व्यवधानादद्भावाद्यभावः ॥