ई हल्यघोः

6-4-113 ई हलि अघोः असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके श्नाभ्यस्तयोः आतः

Sampurna sutra

Up

श्ना-अभ्यस्तयोः आतः हलि सार्वधातुके क्ङिति ई, अघोः

Neelesh Sanskrit Brief

Up

श्ना-विकरणस्य तथा अभ्यस्तस्य आकारस्य हलादि-सार्वधातुके कित्-प्रत्यये ङित्-प्रत्यये च परे ईकारादेशः भवति । परन्तु घु-संज्ञकस्य न भवति ।

Neelesh English Brief

Up

The आकार of the विकरण श्ना and also of an अभ्यस्त is converted to ई when followed by a हलादि सार्वधातुक कित् and ङित् प्रत्यय. But this does not happen for the verb roots that get the term 'घु'.

Kashika

Up

श्नान्तानामङ्गानामभ्यस्तानां च घुवर्जितानामात ईकारादेशो भवति इलादौ सार्वधातुके क्ङिति परतः। लुनीतः। पुनीतः। लुनीथः। पुनीथः। लुनीते। पुनीते। अभ्यस्तानाम् — मिमीते। मिमीषे। मिमीध्वे। संजिहीते। संजिहीषे। संजिहीध्वे। हलीति किम्? लुनन्ति। मिमते। अघोरिति किम्? दत्तः। धत्तः। क्ङितीत्येव — लुनाति। जहाति॥

Siddhanta Kaumudi

Up

श्नाभ्यस्तयोरातईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । श्नाभ्यस्तयोः - <{SK2483}> इत्यालोपः । मिमाते । मिमते । प्रण्यमास्त ।{$ {!1089 ओहाङ्!} गतौ $}। जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते ।{$ {!1090 ओहाक्!} त्यागे$} । परस्मैपदी । जहाति ॥

Laghu Siddhanta Kaumudi

Up

श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः। जहीतः॥

Neelesh Sanskrit Detailed

Up

किम् नाम अभ्यस्तम् ? यदा द्वित्वं क्रियते तदा उभयोः शब्दयोः <<उभे अभ्यस्तम्>> 6.1.5 इत्यनेन अभ्यस्तसंज्ञा भवति । अस्य अभ्यस्तसंज्ञकस्य आकारस्य , तथा क्र्यादिगणस्य 'श्ना' विकरणप्रत्ययस्य आकारस्य हलादि-सार्वधातुके कित्-प्रत्यये परे ङित्-प्रत्यये परे <<श्नाऽभ्यस्तयोरातः>> 6.4.112 इत्यनेन लोपे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन ईकारादेशः भवति । यथा - 1. क्र्यादिगणस्य डुक्रीञ् (द्रव्यविनिमये) अस्य धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य इयम् प्रक्रिया भवति - क्री + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → क्री + तस् [<<तिप्तस्...>> 3.4.78 इति तस्-प्रत्ययः । <<सार्वधातुकमपित्>> 1.2.4 इति तस्-प्रत्ययस्य ङित्-भावः] → क्री + श्ना + तस् [<<क्र्यादिभ्यः श्ना>> 3.1.81 इति विकरणम् श्ना] → क्री + नी + तस् [<<ई हल्यघोः>> 6.4.113 इति श्ना-इत्यस्य आकारस्य ईकारः] → क्रीणीतः [विसर्गनिर्माणम्, <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] 2. माङ् (माने शब्दे च) इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य इयम् प्रक्रिया भवति - मा + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → मा + त [<<तिप्तस्...>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः । <<सार्वधातुकमपित्>> 1.2.4 इति त-प्रत्ययस्य ङित्-भावः] → मा + शप् + त [<<कर्तरि शप्>> 3.1.68 इति शप्] → मा + त [<<जुहित्यादिभ्यः श्लुः>> 2.4.75 इति विकरणस्य श्लुः (लोपः)] → मा मा + त [<<श्लौ>> 6.1.10 इति द्वित्वम्] → मि मा + त [<<भृञामित्>> 7.4.76 इति अभ्यासस्य इकारादेशः] → मि मी + त [<<ई हल्यघोः>> 6.4.113 इति अभ्यस्तस्य आकारस्य हलि परे ईकारादेशः] → मिमीते [<<टित आत्मनेपदानां टेरे>> 7.4.79 इति एकारः] परन्तु अस्य सूत्रस्य प्रसक्तिः 'घु'संज्ञकस्य विषये नास्ति, एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'अघोः' इति उक्तमस्ति । किम् नाम 'घु'? <<दाधा घ्वदाप्>> 1.1.20 इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् 'घु'संज्ञा भवति । एतेषु डुदाञ् (दाने), दाण् (दाने), तथा डुधाञ् (धारणपोषणयोः) एतेषु एव आकारः अस्ति, अतः एतेषाम् त्रयाणाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । तेषां विषये अस्य प्रयोगः न करणीयः - एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'अघोः' इति उक्तमस्ति । यथा, दा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य इयम् प्रक्रिया भवति - दा + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → दा + तस् [<<तिप्तस्...>> 3.4.78 इति तस्-प्रत्ययः । <<सार्वधातुकमपित्>> 1.2.4 इति झि-प्रत्ययस्य ङित्-भावः] → दा + शप् + तस् [<<कर्तरि शप्>> 3.1.68 इति शप्] → दा + तस् [<<जुहित्यादिभ्यः श्लुः>> 2.4.75 इति विकरणस्य श्लुः (लोपः)] → दा दा + तस् [<<श्लौ>> 6.1.10 इति द्वित्वम्] → द दा + तस् [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः] → दद् + तस् [<<श्नाऽभ्यस्तयोरातः>> 6.4.112 इति आकारस्य लोपः] → दद् + तः [विसर्गनिर्माणम्] → दत्तः [<<खरि च>> 8.4.55 इति चर्त्वम्] अस्याम् प्रक्रियायाम् 'द दा + तस्' इत्यस्य आकारस्य ईकारादेशः न भवति, यतः <<ई हल्यघोः>> 6.4.113 इत्यस्य अत्र प्रसक्तिः एव नास्ति । तथैव, धा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् 'धत्तः' इति जायते ।

Balamanorama

Up

<<ई हल्यघोः>> - ई हल्यघोः । 'ई' इति लुप्तप्रथमाकम् । 'श्नाब्यस्तयोरातः' इत्यनुवर्तते ।गमहने॑त्यतः क्ङितीति, 'अत उत्सार्वधातुके' इत्तः सार्वधातुके इत्यतः सार्वधातुके इति चानुवर्तते । तदाह — श्नाभ्यस्तयोरित्यादिना । आल्लोप इति ।अजादौ क्ङिति सार्वधातुके॑ इति शेषः । मिमते इति । अभ्यस्तत्वाददादेशः । मिमीषे मिमाथे मिमीध्वे । मिमे मिमीवहे मिमीमहे । ममे ममाते ममिरे । ममिषे ममाथे ममिद्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मिमीताम् मिमाताम् मिमतात् । मिमीष्व मिमाथाम् मिमीध्वम् । मिमै मिमावहै मिमामहै । अमिमीत अमिमाताममिमत । अमिमीथाः अमिमाताममिमीध्वम् । अमिमि अमिमीवहि अमिमीमहि । मिमीत मिमीयाताम् मिमीरन् । मिमीथाः । मिमीयाथाम् मिमीध्वम् । मिमीय मिमीवहि मिमीमहि । मासीष्ट । अमास्त अमासाताममासत । अमास्थाः अमासाथाममाध्वम् । अमासि अमास्वहि अमास्महि । अमास्यत । ओ हाङ्गातविति । अनिट् । ओकारः ककारश्च इत् । जहातीति । श्लौ द्वित्वे अभ्यासचुत्वमिति भावः । तसादौ 'श्नाभ्यस्तयोरातः' इति नित्यमीत्त्वे प्राप्ते —

Padamanjari

Up

लुनन्तीति । असति हल्ग्रहणे ईत्वलोपयोः पर्यायः स्यात् एकविषयत्वात् । घुसंज्ञकेष्वेव वा लोपः स्यात् । अत्रापि पूर्ववत् सार्वधातुकमेव सम्भवति ॥