7-1-4 अत् अभ्यस्तात् प्रत्ययादीनाम् झः
अभ्यस्तात् प्रत्ययस्य झः अत्
अभ्यस्तात् परस्य प्रत्ययस्य झकारस्य अत्-आदेशः भवति ।
झकार of the प्रत्यय that follows an अभ्यस्त is converted to अत्.
अभ्यस्तादङ्गादुत्तरस्य झकारस्य अदित्ययमादेशो भवति। ददति। ददतु। दधति। दधतु। जक्षति। जक्षतु। जाग्रति। जाग्रतु। अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते। अददुः। अजगारुः। अत्राप्यदादेशे कृत प्रत्ययाद्युदात्तत्वं भवति॥
झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्त-<{SK2226}> इति झेर्जुस् । अजक्षुः । अयमन्तः स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः ॥ ।{$ {!1072 जागृ!} निद्राक्षते$} । जागर्ति । जागृतः । जाग्रति । उषविद-<{SK2341}> इत्याम्वा । जागरांचकार । जजागार ॥
झस्यात्स्यात्। हुश्नुवोरिति यण्। जुह्वति॥
किम् नाम अभ्यस्तम्? सूत्रपाठे द्वयोः सूत्रयोः अभ्यस्तसंज्ञा दीयते - 1. यत्र अङ्गस्य द्वित्वम् भवति तत्र उभयोः शब्दयोः (इत्युक्ते, यस्य द्वित्वं कृतमस्ति सः शब्दः तथा द्वित्वेन निर्मितः शब्दः - एतयोः द्वयोः अपि) <<उभे अभ्यस्तम्>> 6.1.5 इत्यनेन अभ्यस्त-संज्ञा भवति । 2. <<जक्षित्यादयः षट्>> 6.1.6 इत्यनेन अदादिगणस्य सप्त-धातूनामपि अभ्यस्तसंज्ञा भवति -जक्षँ, जागृ, दरिद्रा, चकासृ, शासु, दीधीङ्, वेवीङ् । अस्मात् अभ्यस्तसंज्ञकात् परस्य प्रत्ययस्य झकारस्य <<झोऽन्तः>> 7.1.3 इत्यनेन 'अन्त्' आदेशे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन अत्-आदेशः भवति । उदाहरणाानि एतानि - 1) जुहोत्यादिगणस्य डुदाञ् (दाने) इत्यस्य लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् दा + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → दा + झि [<<तिप्तस्झि..>> 3.4.78 इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय'] → दा + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं विकरणम् शप्] → दा दा + झि [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इत्यनेन शप्-इत्यस्य 'श्लुः' (इत्युक्ते लोपः) । <<श्लौ>> 6.1.10 इति द्वित्वम्] → द दा + झि [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः] → द दा + अति [<<अदभ्यस्तात्>> 7.1.4 इति अभ्यस्तात् परस्य झ्-प्रत्ययस्य 'अत्' आदेशः] → दद् अति [<<श्नाऽभ्यस्तयोरातः>> 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → ददति । 2) जुहोत्यादिगणस्य माङ् (माने) इत्यस्य आत्मनेपदस्य लोट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - मा + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → मा + झ [<<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झ' प्रत्यय'] → मा + शप् + झ [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं विकरणम् शप्] → मा मा + झ [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इत्यनेन शप्-इत्यस्य 'श्लुः' (इत्युक्ते लोपः) । <<श्लौ>> 6.1.10 इति द्वित्वम्] → म मा झ [<<भृञामित्>> 7.4.76 इति श्लु-परे अभ्यासस्य इकारादेशः] → मि मा अत [<<अदभ्यस्तात्>> 7.1.4 इति अभ्यस्तात् परस्य झ्-प्रत्ययस्य 'अत्' आदेशः] → मि मा अते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति टित्-संज्ञक-अकारस्य एकारः] → मि मा अताम् [<<आमेतः>> 3.4.90 इति एकारस्य आम्-आदेशः] → मिमताम् [<<श्नाऽभ्यस्तयोरातः>> 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → मिमताम् 3) अदादिगणस्य 'दरिद्रा' धातोः लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - दरिद्रा + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → दरिद्रा + झि [<<तिप्तस्झि..>> 3.4.78 इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय'] → दरिद्रा + शप् +झि [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं विकरणम् शप्] → दरिद्रा + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → दरिद्रा + अति [<<जक्षित्यादयः षट्>> 6.1.6 इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य <<अदभ्यस्तात्>> 7.1.4 इति 'अत्' आदेशः] → दरिद्रा + अतु [<<एरुः>> 3.4.86 इति इकारस्य उकारः] → दरिद्र् + अतु [<<श्नाऽभ्यस्तयोरातः>> 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → दरिद्रतु
<<अदभ्यस्तात्>> - अदभ्यस्तात् । झस्येति । 'झोऽन्त' इत्यतस्तदनुवृत्तेरिति भावः । जक्षतीति । 'जक्षित्यादयः ष' डित्यभ्यस्तसंज्ञेति भावः । लङस्तिपि ईडटोः — अजक्षीत् अजक्षदिति सिद्धवत्कृत्य आह — सिजभ्यस्तेति । अदादेशापवादो जुस् । अन्तः स्थादिरिति । तालव्याऽन्तः स्थादिरित्यर्थः । बभ्रामेति ।जक्षन्क्रीडन् रममाणः॑ इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृ धातुरृकारान्तः । सेट् । जागर्तीति । तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । जागृत इति । ङित्त्वान्न गुणः । जाग्रतीति ।जक्षित्यादयः ष॑डित्यभ्यस्तसंज्ञायाम्अदभ्यस्ता॑दिति जेरदादेशः । ङित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि जागृथः जागृथ । जागर्मि जागृवः जागृमः । लिटिकास्यनेका॑जिति नित्यमामि प्राप्ते आह — उषविदेत्याम् वेति । जागरामिति । आमि ऋकारस्य गुणो रपरत्वं चेति भावः । आमभावे आह — जगागारेति । अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते -
ददतीत्यादि । जक्षतीत्यादौ यत्रोपदेशानन्तरमभ्यस्तसंज्ञा, तत्राप्यवश्यं विकरणाभावः प्रतीक्ष्यः, अन्यथा नित्यत्वाच्छपि कृते तेन व्यवधानान्न स्यात्, ततश्च ददतीत्यादावपि शपः श्लावभ्यस्तसंज्ञायामदादेशो भवति । जुसादेशेन तु बाध्यत इति । तस्यानवकाशत्वात् । अत्राप्यादेशे कृते प्रत्ययाद्यौदातत्वं भवतीति । उतरत्रेति भावः । इह तु अभ्यस्तानामादिः इति स्वरो भवति ॥