जक्षित्यादयः षट्

6-1-6 जक् इत्यादयः षट् एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य अभ्यस्तम्

Sampurna sutra

Up

जक्षित्यादयः षट् अभ्यस्तम्

Neelesh Sanskrit Brief

Up

जक्षित्यादिगणस्य धातूनाम् 'अभ्यस्त' संज्ञा भवति ।

Neelesh English Brief

Up

The verb roots belonging to the जक्षित्यादिगण are called 'अभ्यस्त'.

Kashika

Up

अभ्यस्तमिति वर्तते। जक्ष इत्ययं धातुरित्यादयश्चान्ये षड् धातवोऽभ्यस्तसंज्ञा भवन्ति। सेयं सप्तानां धातूनामभ्यस्तसंज्ञा विधीयते — <<जक्ष भक्षहसनयोः>> इत्यतः प्रभृति <<वेवीङ् वेतिना तुल्ये>> इति यावत्। जक्षति। जाग्रति। दरिद्रति। चकासति। शासति। दीध्यते, वेव्यत इत्यत्र <<अभ्यस्तानामादिः>> ६.१.१८९ इत्येष स्वरः प्रयोजनम्। दीध्यदिति च शतरि व्यत्ययेन संपादिते <<नाभ्यस्ताच्छतुः>>७.१.७८ इति नुमः प्रतिषेधः॥

Siddhanta Kaumudi

Up

षड्धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्ङित्त्वेऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् । गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि ॥

Laghu Siddhanta Kaumudi

Up

षड्धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः। जक्षत्, जक्षद्। जक्षतौ। जक्षतः॥ एवं जाग्रत्। दरिद्रत्। शासत्। चकासत्॥ गुप्, गुब्। गुपौ। गुपः। गुब्भ्याम्॥

Neelesh Sanskrit Detailed

Up

'जक्षित्यादिः' इति अदादिगणस्य कश्चन अन्तर्गणः अस्ति । अस्मिन् गणे सप्त-धातवः सन्ति - 1. जक्षँ (भक्षहसनयोः) 2. जागृ (निद्राक्षये) 3. दरिद्रा (दुर्गतौ) 4. चकासृँ (दीप्तौ) 5. शासुँ (अनुशिष्टौ) 6. दीधीङ् (दीप्तिदेवनयोः) 7. वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु) एतेषां सर्वेषामभ्यस्तसंज्ञा भवति । एतेषाम् गणनम् एकया कारिकया अपि क्रियते - जक्षि-जागृ-दरिद्राणाम् चकासेः शासेरेव च । दीधी-वेव्योश्च सप्तानाम् जक्षित्यादौ उपग्रहः ॥ अभ्यस्त-संज्ञकस्य यत् किमपि कार्यमुक्तमस्ति, तत् सर्वम् एतेषाम् विषये अपि भवति । यथा, 'दरिद्रा' धातोः लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशम् सिद्ध्यति - दरिद्रा + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → दरिद्रा + झि [<<तिप्तस्झि..>> 3.4.78 इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय'] → दरिद्रा + शप् +झि [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं विकरणम् शप्] → दरिद्रा + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → दरिद्रा + अति [<<जक्षित्यादयः षट्>> 6.1.6 इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य <<अदभ्यस्तात्>> 7.1.4 इति 'अत्' आदेशः ।] → दरिद्रा + अतु [<<एरुः>> 3.4.86 इति इकारस्य उकारः] → दरिद्र् + अतु [<<श्नाऽभ्यस्तयोरातः>> 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → दरिद्रतु

Balamanorama

Up

<<जक्षित्यादयः षट्>> - अभ्यस्तसंज्ञायाश्च द्वित्वनिबन्धनत्वादिहाऽप्राप्ताविदमारभ्यते — जक्षित्यादयः ।अभ्यस्त॑मित्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते । तत्र जक्षितिरादिर्येषामिति तद्गुणसंविज्ञानबहुव्रीहौ सति जक्ष धातुमारभ्य षण्णामेव ग्रहणं स्यात्, वेवीङो न स्यात् । अतद्गुणसंविज्ञानबहुव्रीहौ तु जागृ इत्यारभ्य षण्णां ग्रहणं स्यान्नतु जक्षेः । अतो व्याचष्टे — षड्धातव इत्यादि । अत्र विवरणवाक्येजक्षिति॑रिति श्तिपा निर्देशः । जक्षधातुरित्यर्थः ।रुदादिभ्यः सार्वधातुके॑ इति इडागमे रूपम् । सूत्रे जक्षिति पृथक्पदम् । इतिना जक्षिः परामृश्यते । इति आदिर्येषामित्यद्गुणसंविज्ञानबहुव्रीहिः । ततस्च 'इत्यादयः षट्' इत्यनेन जक्षधातोरन्ये जागृ इत्यारभ्य षड् धातवो विवक्षिताः । चशब्दोऽध्याहार्यः । एवं च जक्षधातुश्च, जागृधातुमारभ्य षड् धातवश्चेत्येव सप्त धातवोऽभ्यस्तसंज्ञकाः स्युरिति फलतीत्यर्थः । तदिदं भाष्ये स्पष्टम् । जक्षदिति । अभ्यस्तत्वान्नुम्निषेध इति भावः । ननु दीधीवेव्योर्ङित्त्वात् 'अनुदात्तङित' इति आत्नेपरदसंज्ञक एव लटः शानजादेशः स्यान्न तु शत्रादेश इत्यत आह — दीधीवेव्योरिति । दीधीवेव्योश्छन्दोमात्रविषयत्वं तिङन्ताधिकारे वक्ष्यते । ततश्चव्यत्ययो बहुव॑मिति छान्दसं परस्मैपदम् । अतः शानजसंभवात् शत्रादेश एवेत्यर्थः । दीध्यद्वेव्यदिति । दीधी वेवी इत्याभ्यां लटः शत्रादेशे कृते शब्लुकि यणादेशः । अभ्यस्तत्वाच्च नुम्नेति भावः । इति तान्ताः । अथ पान्ताः । गुबिति । 'गुपू रक्षणे' क्विप् ।आयादय आर्धधातुके वा॑ इति वैकल्पिकत्वादायप्रत्ययो नेति भावः । गुब्भ्यामिति । 'स्वादिषु' इति पदत्वाद्भ्यामादौ जश्त्वमिति भावः । इति पान्ताः ।

Padamanjari

Up

अत्र जक्षेः श्तिपि रुदादिब्यः सार्वधातुकेऽ इतीटि कृते जक्षितिरिति भवति, स आदिर्यषां ते जक्षित्यादय इति विज्ञायमाने वेव्यतेः सप्तमस्य न स्यात्, लाघवार्थमसन्देहार्थं च हकैव निर्द्देष्टव्यं स्यात्-जक्ष्यादय इति। तस्मान्नायमुक्तविग्रहिः, किं तर्हि?'जक्ष' इति पृथक् पदमित्याह-जक्ष इत्ययं धातुरित्यादयः षडिति। इतिनानन्तरो जक्षिर्निर्द्दिश्यते। आदिशब्दः समीपवचनः, अतद्गुणसंविज्ञानो बहुव्रीहिः। सेयमिति। येयमुक्तप्रकारा, सेयमित्यर्थः। एष स्वर इति। अन्यथा ङ्त्वाल्लिसार्वधातुकानुदातत्वं धातुस्वरः, यणादेशे ठुदातस्वरितयोःऽ इति स्वरितत्वं प्रसज्यते। शतरि व्यत्ययेन सम्पादित इति। ङ्त्वात्पिरस्मैपदासम्भवाद्व्यत्ययः। षड्ग्रहणमनर्थकम्, सन्त्वागणान्ता जक्षित्यादयः। वेवीङेऽपि परे ये पठ।ल्न्ते तेषां कस्मान्न भवति? अत्रैवं गणपाठः, वेवीङेऽनन्तरम्'षस स्वप्ने, वश कान्तौ, चर्करीतं च, ह्नुङ् अपनयने' इति, केचिद्वेवीङेऽनन्तरम् ठाङ्ः शसुऽ इति पठन्ति,'षस्ति स्वप्ने' इति च। तत्राशासो न विशेषः; अभ्यस्तकार्याणि भूयिष्ठानि परस्मैपदिषु, आत्मनेपदी चायम्। अभ्यस्तस्वरेऽपि नास्ति विशेषः, कथम्? अनभ्यस्तेऽपि तस्मिन्ननुदातेतः परं लसार्वधातुकमनुदातं धातुस्वरश्च, चर्करीतमब्यस्तमेव, षसषस्ती छान्दसौ, वशिरपि, तस्यापि भाषायां न प्रयोगस्साधुः -बाष्यवार्तिककारौ चेत्प्रमाणम्। ह्नुङ्एऽपि ङ्त्वात्पिरस्मैपदासम्भवः। स्वरस्तर्हि प्राप्नोति, ठङ्न्विङेःऽ इति प्रतिषेधवचनसामर्थ्यान्न भविष्यति, यदि स्यात्, तर्ह्यपह्नवत इत्यादावभ्यस्तस्वरे सति लसार्वधातुकस्य भवितव्यमेव निघातेनेति प्रतिषेधोऽनर्थकः स्यात्। तस्मात्प्रत्ययस्वरो यथा स्यतात्, लसार्वधातुकानुदातत्वं मा बूदित्यहन्विङेरिति प्रतिषेधोऽर्थवान् भवतीति प्रतिषेधसामर्थ्यात्प्रत्ययस्वरः एव भविष्यति, नाभ्यस्तरस्वरः। ननु चाभ्यस्तस्वरोऽजादौ विधीयते, ततः किम्? अजादौ तस्मिन्प्रवःतेऽपि ह्रौते, षेह्नु, ह्नुवे-इत्यत्र तस्याप्रवृतौ यद्यह्न्विङेरिति प्रतिषेधो न क्रियते, ततो धातुस्वरेणाद्यौदातं पदं स्यात्। अन्तोदातं यथा स्यादिति प्रतिषेधः क्रियेत। तदेवं सति प्रयोजने न प्रतिषेधसामर्थ्यादब्यस्तस्वरं बाधित्वा प्रत्ययस्वरः सिध्यति। एवं तर्हि ठभ्यस्तानामादिःऽ इत्यत्राप्यह्न्विङेरित्यनुवर्तिष्यते, तदेवं नार्थः षड्ग्रहणेन। तदुक्तम् -अपरिगणनं वा गणान्तत्वात् ॥