6-4-110 अतः उत् सार्वधातुके असिद्धवत् अत्र आभात् क्ङिति उतः प्रत्ययात् करोतेः
उतः प्रत्ययस्य करोतेः अङ्गस्य अतः सार्वधातुके क्ङिति उत्
उकारान्त-प्रत्ययः यस्य अन्ते अस्ति तादृशस्य कृ-धातोः अङ्गस्य अकारस्य कित् / ङित् प्रत्यये परे उकारादेशः भवति ।
If an अङ्ग of verb root कृ ends in an उकारान्त प्रत्यय, then the अकार of that अङ्ग is converted to उकार when followed by a कित् / ङित् प्रत्यय.
उकारप्रत्ययान्तस्य करोतेरकारस्य स्थान उकार आदेशो भवति सार्वधातुके क्ङिति परतः। कुरुतः, कुर्वन्ति। सार्वधातुकग्रहणं किम्? भूतपूर्वेऽपि सार्वधातुके यथा स्यात् — कुरु। तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्। क्ङितीत्येव — करोति। करोषि। करोमि॥
उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्ङिति । उदिति तपरसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्च-<{SK2334}>इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादूत्त्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्त-<{SK2226}> इति झेर्जुस् । अविदुः ॥
उप्रत्ययान्तस्य कृञोऽत उत्सार्वधातुके क्ङिति। विदाङ्कुरुतात् । विदाङ्कुरुताम् । विदाङ्कुर्वन्तु । विदाङ्कुरु । विदाङ्करवाणि । अवेत् । अवित्ताम् । अविदुः ॥
डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परः यदा 'उ' इति विकरणप्रत्ययः आगच्छति, तदा <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन कृ-इत्यस्य रपरे गुणे प्राप्ते 'करु' इति सिद्ध्यति । अस्य अङ्गस्य अकारस्य वर्तमानसूत्रेण उकारादेशः भवति । यथा - 1. कृ-धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति - कृ + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → कृ + तस् [<<तिप्तस्..>> 3.4.78 इति तस्-प्रत्ययः] → कृ + उ + तस् [<<तनादिकृञ्भ्यः उः>> 3.1.73 इति विकरणप्रत्ययः 'उ'] → कर् + उ + तस् [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन कृ-इत्यस्य रपरः गुणः] → कुर् + उ + तस् [<<अत उत् सार्वधातुके>> 6.4.110 इति अकारस्य उकारः] → कुरुतः [विसर्गनिर्माणम्] 2. कृ-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति - कृ + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → कृ + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → कृ + उ + सिप् [<<तनादिकृञ्भ्यः उः>> 3.1.73 इति उ-प्रत्ययः] → कर् + उ + सिप् [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति अङ्गस्य गुणः] → कर् + उ + हि [<<सेह्यर्पिच्च>> 3.4.87 इति सि-प्रत्ययस्य अपित्-हि-आदेशः । 'अपित्'-त्वात् <<सार्वधातुकमपित्>> 1.2.4 इति ङित्-भावः] → कुर् + उ + हि [<<अत उत् सार्वधातुके>> 6.4.110 इत्यनेन ङित्-प्रत्यये परे अकारस्य उकारादेशः] → कुरु [<<उतश्च प्रत्ययादसंयोगपूर्वात्>> 6.4.106 इत्यनेन प्रत्ययान्ते विद्यमानात् असंयोगपूर्व-उकारात् परस्य हि-प्रत्ययस्य लुक्] ज्ञातव्यम् - 1. पित्-प्रत्ययः <<पिच्च ङिन्न ङिच्च पिन्न>> अनया परिभाषया ङित् नास्ति । अयं प्रत्ययः कित् अपि नास्ति । अतः अस्मिन् प्रत्यये परे वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, कृ-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'करोति' इति सिद्ध्यति । अत्र 'तिप्' इति पित्-सार्वधातुकप्रत्ययः अस्ति, अतः वर्तमानसूत्रेण अकारस्य उकारादेशः न भवति । 2. 'उ' इति विकरणप्रत्ययः तदा एव आगच्छति यदा अग्रे सार्वधातुकप्रत्ययः अस्ति । अतः 'उत्' इति ब्रूमश्चेत् पुनः 'सार्वधातुके' इति ग्रहणम् वस्तुतः अत्र न आवश्यकम् । परन्तु अग्रिमसूत्रेषु तस्य प्रयोजनम् दृश्यते । 3. अस्मिन् सूत्रे 'उ' इति विधीयमानः अंशः । <<भाव्यमानः अपि उकारः सवर्णान् गृह्णाति>> (परिभाषा २०) अनया परिभाषया विधीयमानः उकारः सवर्णानाम् ग्रहणम् अवश्यं करोति । परन्तु अत्र सवर्णानां ग्रहणं क्रियते चेदपि ह्रस्व-अकारस्य स्थाने उच्चारणकालसाधर्म्यात् ह्रस्व-उकारः एव भवितुम् अर्हति । अतः अत्र तपरकरणं कृत्वा सवर्णहग्रहणस्य निवारणं नैव आवश्यकम् । इत्युक्ते, अत्र 'उ' इति तपरकरणं विना उच्यते चेदपि नैव दोषाय । अस्यां स्थितौ अपि अस्मिन् सूत्रे 'उत्' इत्यत्र तपरकरणम् कृतम् अस्ति । एतत् तपरकरणम् 'नित्यम् ह्रस्वस्यैव श्रवणम् भवेत्' इति ज्ञापयितुम् कृतम् अस्ति । अनेन 'कुर् + उ + तस्' इति स्थिते <<पुगन्तलघूपधस्य च>> 7.3.86 इति उकारस्य गुणादेशः न भवति ।
<<अत उत् सार्वधातुके>> - अत उत् । उप्रत्ययान्तस्येति ।उतश्च प्रत्यया॑दित्यतस्तदनुवृत्तेरिति भावः । अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्क्य आह -तपरेति । इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदाङ्कुरुतामिति । विदाङ्कुर्वन्त्वित्यपि ज्ञेयम् ।न भकुर्छुरा॑मिति निषेधात्हलि चे॑ति दीर्घो न । हेर्लुगिति । तर्हि सार्वधातुकाऽभावात्कथमुत्त्वमित्यत आह — आभीयत्वेनेति । विदांकुर्विति । विदांकुरुतात् विदांकुरुतम् विदांकुरुत । विदांकरवाणीति । आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुण इति भावः । विदांकरवाव विदांकरवाम । लडआह -अवेदिति । हल्ङ्यादिना सिपो लोपे विशेषमाह -
करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययात् इत्यनुवृतेर्लभ्यते । सार्वधातुक इति किमिति । सत्यपि सार्वधातुकग्रहखणे स्यतास्यान्तस्य प्रसङ्गकरिष्यावः, कर्ताराविति स्यातासिभ्यां व्यवधानान्न भविष्यति । कुरुते - त्यित्रापि तर्ह्युप्रत्ययेन व्यवधानान्न स्यात् । स्मात्सार्वधातुके परतः करोतेरङ्गस्येत्यर्थसम्भावात्सार्वधातुके परतो यदङ्गं तदवयवस्य करोतेरित्याश्रयणीयम् । एवं च स्यतास्यन्तस्यापि प्रसङ्ग इति । उतश्च प्रत्ययात् इत्यवश्यमनुवर्त्यम्, उप्रत्ययान्तात्करोतेः परं क्ङ्त्सार्विधातुकमेवेति प्रशनः । भूतपूर्वेऽपीति । करु - हि इति स्थिते उत्वं च प्राप्नोति, हिलुक्च, नित्यत्वाद्धिलुकि कृते क्ङितः परस्याभावादुत्वं न स्यात् । प्रत्यात् । प्रत्ययलक्षणं च न लुमताङ्गस्य इति प्रतिषिद्धम् । तस्माद् भूतपूर्वेऽपि सार्वधातुके यथा स्यादिति सार्वधातुकग्रहणम् । आसिद्धो हिलुक्, तस्यासिद्धत्वादुत्वं भविष्यति । तस्माद्विस्पष्यार्थं सार्वधातुकग्रहणम् । यथा पुरस्योतरत्राप्युपयोगाभावः, तथा तत्र तत्र वक्ष्यते । इह यद्यपि भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति, तथाप्यान्तर्यतो मात्रिकस्यातो मात्रिक तौकार एव भविष्यति, नार्थस्तकारेण तत्राह - तपरकरथखणमिति । थासति हि तस्मिन्नुप्रत्ययमाश्रित्योकारस्य लघूपधलक्षणो गुणः स्यात्, स मा भूदिति तपरकरणम् । तस्य हि प्रयोजनम् - लक्षणान्तरेणापि दीर्घो मा भूत् ॥