दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः

4-1-85 दित्यदित्यादित्यपत्युत्तरपदात् ण्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

दिति-अदिति-आदित्य-पत्युत्तरपदात् प्राग्दीव्यतः ण्य तद्धितः प्रत्ययः समर्थानाम् प्रथमात् परः वा

Neelesh Sanskrit Brief

Up

दिति, अदिति, आदित्य-शब्देभ्यः, तथा 'पति' येषामुत्तरपदमस्ति तादृशेभ्यः शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः भवति ।

Neelesh English Brief

Up

The words दिति, अदिति, आदित्य and the words that end in 'पति' get the ण्य प्रत्यय in the प्राग्दीव्यतीय meanings.

Kashika

Up

प्राग्दीव्यत इत्येव। दिति अदिति आदित्य इत्येतेभ्यः, पत्युत्तरपदात् च प्रातिपदिकात् प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति। दैत्यः। आदित्यः। आदित्यम्। पत्युत्तरपदात् — प्राजापत्यम्। सैनापत्यम्॥ यमाच्चेति वक्तव्यम्॥ याम्यम्॥ वाङ्मतिपितृमतां छन्दस्युपसंख्यानम्॥ वा॒च्यः (मा०सं० १३.५८)। मा॒त्या॑ (मै०सं० २.७.१९)। पैतृम॒त्यम् (मा०सं० ७.४६)॥ पृथिव्या ञाञौ॥ पार्थि॑वा (ऋ० १.६४.३)। पार्थिवी (पै०सं० १६.४६.३)॥ देवाद् यञञौ॥ दैव्य॒म्॥ (ऋ० १.३१.१७)। दैवम् (पै०सं० १.३१.४)॥ बहिषष्टिलोपश्च॥ बाह्याः॑ (शौ०सं० १९.४४.६)॥ ईकक् च ॥ बा॒ही॒कः॥ ईकञ् छन्दसि॥ बाही॑कः। स्वरे विशेषः। टिलोपवचनमव्ययानां भमात्रे टिलोपस्य (वा० ६.४.१४४) अनित्यत्वज्ञापनार्थम्। आरातीयः ॥ स्थाम्नोऽकारः॥ अश्वत्थामः॥ लोम्नोऽपत्येषु बहुषु॥ उडुलोमाः॥ शरलोमाः। बहुष्विति किम्? औडुलोमिः। शारलोमिः॥ सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्॥ गव्यम्। अजादिप्रत्ययप्रसङ्ग इति किम्? गोभ्यो हेतुभ्य आगतं गोरूप्यम्। गोमयम्॥ ण्यादयोऽर्थविशेषलक्षणादणपवादात् पूर्वविप्रतिषेधेन॥ दितेरपत्यं दैत्यः। वनस्पतीनां समूहो वानस्पत्यम्। कथं दैतेयः? <<दितिशब्दात् कृदिकारादक्तिनः>> (ग०सू० ४९) <<सर्वतोऽक्तिन्नथा᐀्दित्येके>> (ग०सू० ५०) इति ङीषं कृत्वा <<स्त्रीभ्यो ढक्>> ४.१.१२० क्रियते। लिङ्गविशिष्टपरिभाषा चानित्या॥

Siddhanta Kaumudi

Up

दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः ॥ दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । <!यमाच्च!> इति काशिकायाम् ॥ याम्यः ॥ <!पृथिव्या ञाञौ !> (वार्तिकम्) ॥ पार्थिवा । पार्थिवी ॥ <!देवाद्यञञौ !> (वार्तिकम्) ॥ दैव्यम् । दैवम् ॥ <!बहिषष्टिलोपो यञ्च !> (वार्तिकम्) ॥ बाह्यः ॥ <!ईकक्च !> (वार्तिकम्) ॥ बाहीकः ॥ <!स्थाम्नोऽकारः !> (वार्तिकम्) ॥ अश्वत्थामः । पृषोदरादित्वात्सस्य तः ॥ <!भवार्थे तु लुग्वक्तव्यः !> (वार्तिकम्) ॥ अश्वत्थामा । <!लोम्नोऽपत्येषु बहुष्वकारः !> (वार्तिकम्) ॥ बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषुकिम् ? औडुलोमिः ॥ <!गोरजादिप्रसङ्गे यत् !> (वार्तिकम्) ॥ गव्यम् । अजादिप्रसङ्गे किम् ? । गोभ्यो हेतुभ्यः आगतं गोरूप्यम् ॥ गोमयम् ॥

Laghu Siddhanta Kaumudi

Up

दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः । दितेरपत्यं दैत्यः । अदितेरादित्यस्य वा -

Neelesh Sanskrit Detailed

Up

<<प्राग्दीव्यतोऽण्>> 4.1.83 अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु 'दिति' शब्दः, 'अदिति' शब्दः, 'आदित्य' शब्दः, तथा च यस्य शब्दस्य अन्ते 'पति' इति आगच्छति, तस्मात् शब्दात् वर्तमानसूत्रेणअण्-प्रत्ययस्य अपवादरूपेण ण्य-प्रत्ययः भवति । यथा - 1) दितेः अपत्यम् / निवासः / समूहः / इदम् / ... = दिति + ण्य → दैति + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → दैत् + य [<<यस्येति च>> 6.4.148 इति इकारस्य लोपः] → दैत्य 2) अदितेः अपत्यम् / निवासः / समूहः / इदम् / ... = अदिति + ण्य → आदिति + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आदित् + य [<<यस्येति च>> 6.4.148 इति इकारस्य लोपः] → आदित्य 3) आदित्यस्य अपत्यम् / निवासः / समूहः / इदम् / ... = आदित्य + ण्य → आदित्य + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आदित्य् + य [<<यस्येति च>> 6.4.148 इति अकारस्य लोपः] → आदित्य् + य / आदित् + य [<<हलो यमां यमि लोपः>> 8.4.64 इति विकल्पेन यकारलोपः] → आदित्य / आदित्य्य 4) प्रजापतेः अपत्यम् / निवासः / समूहः / इदम् / .. = प्रजापति + ण्य → प्राजापति + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → प्राजापत् + य [<<यस्येति च>> 6.4.148 इति अकारस्य लोपः] → प्राजापत्य ज्ञातव्यम् - 1. अनेन सूत्रेण निर्दिष्टः ण्य-प्रत्ययः सर्वेषाम् (अन्येषाम् प्रत्ययानाम्) अपि अपवादत्वेन आगच्छति । यथा 'वनस्पति' शब्दात् <<तस्य समूहः>> 4.2.37 इत्यस्मिन् अर्थे <<अचित्तहस्तिधेनोष्ठक्>> 4.2.47 अनेन सूत्रेण वस्तुतः ठक्-प्रत्ययः अपि भवितुमर्हति । परन्तु 'वनस्पति'शब्दे 'पति' इति उत्तरपदमस्ति, अतः अस्मात् सूत्रात् सर्वेषु प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः एव विधीयते, न हि ठक्-प्रत्ययः । अतः वनस्पतीनाम् समूहः = वनस्पति + ण्य = वानस्पत्य एतादृशमेव रूपं सिद्ध्यति । 2. अश्वपत्यादिगणे ये शब्दाः समाविष्टाः सन्ति, तेषाम् विषये वर्तमानसूत्रेण ण्य-प्रत्यये प्राप्ते तस्यापि अपवादत्वेन <<अश्वपत्यादिभ्यश्च>> 4.1.84 इत्यनेन अण्-प्रत्ययः भवति । अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. <! यमात् चेति वक्तव्यम् !> - 'यम' शब्दात् प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः भवति । यथा, यमस्य अपत्यम् याम्य । 2. <! वाङ्-मति-पितृमतां छन्दसि उपसङ्ख्यानम् !> - वाच्, मति, तथा पितृमत् शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु वेदेषु ण्य-प्रत्ययः भवति । यथा - वाच् + ण्य = वाच्य । मति + ण्य = मात्य । पितृमत् + ण्य = पैतृमात्य । 3. <! पृथिव्याः ञ-अञौ !> - 'पृथिवी' शब्दात् प्राग्दीव्यतीय-अर्थेषु 'ञ' तथा 'अञ्' प्रत्ययौ विधीयेते । पृथिवी + ञ / अञ् → पार्थिव । द्वयोः प्रत्यययोः भेदः अयम् - ञ-प्रत्ययान्त-पार्थिव-शब्दात् स्त्रीत्वस्य विवक्षायाम् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्ययं कृत्वा 'पार्थिवा' इति प्रातिपदिकं सिद्ध्यति । परन्तु अञ्-प्रत्ययान्त-पार्थिव-शब्दात् स्त्रीत्वस्य विवक्षायाम् <<टिड्ढाणञ्...>> 4.1.15 इत्यनेन ङीप्-प्रत्ययं कृत्वा 'पार्थिवी' इति प्रातिपदिकं सिद्ध्यति । 4. <!देवात् यञ्-अञौ!> - 'देव' शब्दात् प्राग्दीव्यतीय-अर्थेषु 'यञ्' तथा 'अञ्' प्रत्ययौ विधीयेते । देव + यञ् → दैव्य । देव + अञ् → दैव । 5. <!बहिषः टिलोपः यञ् च!> - 'बहिस्' शब्दात् प्राग्दीव्यतीय-अर्थेषु यञ्-प्रत्ययः भवति, तथा च 'बहिस्' शब्दस्य टिसंज्ञकस्य लोपः अपि भवति । बहिस् + यञ् → बाह्य । 6. <! ईकक् च!> - बहिस्-शब्दात् प्राग्दीव्यतीय-अर्थेषु ईकक्-प्रत्ययः अपि भवति । यथा - बहिस् + ईकक् → बाहीक । 7. <!ईकञ् छन्दसि!> - बहिस्-शब्दात् प्राग्दीव्यतीय-अर्थेषु वेदानां विषये 'ईकञ्' प्रत्ययः अपि भवति । बहिस् + ईकञ् → बाहीक । यद्यपि इदं प्रातिपदिकम् ईकक्-प्रत्ययान्तवदेव दृश्यते, तथाप्यत्र स्वरभेदः अस्ति - ईकञ्-प्रत्ययान्तः 'बाहीक' शब्दः <<ञ्णित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्तः अस्ति, तथा ईकक्-प्रत्ययान्तः 'बाहीक' शब्दः <<कितः>> 6.1.165 इत्यनेन अन्तोदात्तः अस्ति । 8. <!स्थाम्नः अकारः !> - 'स्थामन्' शब्दान्त-प्रातिपदिकेभ्यः प्राग्दीव्यतीय-अर्थेषु 'अ' प्रत्ययः भवति । अश्वत्थाम्नः अपत्यम् = अश्वत्थामन् + अ = अश्वत्थाम । (अश्वत्थामन् अयं वस्तुतः 'स्थामन्' शब्दान्तः एव अस्ति, अत्र सकारस्य <<पृषोदरादीनि यथोपदिष्टम्>> 6.3.109 इत्यनेन तकारादेशः भवति ।] 9. <!लोम्नोपत्येषु बहुषु!> - 'लोमन्' शब्दान्त-प्रातिपदिकेभ्यः <<तस्यापत्यम्>> 4.1.92 इत्यस्मिन् अर्थे बहुवचनस्य विवक्षायाम् 'अ' प्रत्ययः भवति । यथा - उडुलोम्नः अपत्यानि बहूनि = उडुलोमन् + अ + जस् → उडुलोमाः । यदि बहुवचनस्य विवक्षा नास्ति तर्हि <<बाह्वादिभ्यश्च>> 4.1.96 इत्यनेन इञ्-प्रत्ययः एव भवति । - उडुलोम्नः अपत्यम् एकम् = उडुलोमन् + इञ् = औडुलोमिः । 10. <!सर्वत्र गोः अजादि-प्रत्ययप्रसङ्गे यत्!> - गो-शब्दात् यत्र यत्र अजादिप्रत्ययः विधीयते, तत्र तत्र तं बाधित्वा 'यत्' प्रत्ययः आगच्छति । अस्य वार्तिकस्य प्रसक्तिः सर्वेषु अर्थेषु वर्तते, केवलं प्राग्दीव्यतीय-अर्थेषु न । यथा - अ) गोः विकारः इत्यत्र <<तस्य विकारः>> 4.3.134 इत्यनेन अण्-प्रत्यये प्राप्ते वर्तमानवार्तिकेन तं बाधित्वा 'यत्' प्रत्ययः आगच्छति - गो + यत् → [<<वान्तो यि प्रत्यये>> 6.1.79 इत्यनेन ओकारस्य अव्-आदेशे कृते -] गव्य । आ) 'गवा चरति' इत्यत्र <<चरति>> 4.4.8 इत्यनेन ठक्-प्रत्यये प्राप्ते वर्तमानवार्तिकेन तं बाधित्वा 'यत्' प्रत्ययः आगच्छति । गो + यत् → गव्य । यदि प्रत्ययः अजादिः नास्ति तर्हि तस्य अपवादत्वेन यत्-प्रत्ययः न विधीयते । यथा, गो + मयट् → गोमय । अनेन सूत्रेण (तथा अग्रिम-सूत्रेण) उक्ताः प्रत्ययाः विशिष्टेषु अर्थेषु उक्तान् प्रत्ययान् कथं बाधन्ते अस्मिन् विषये अत्र भाष्यकारः एकं वार्त्तिकं पाठयति - <!ण्यादयः अर्थविशेषलक्षणाद् अणपवादात् पूर्वविप्रतिषेधेन!> । इत्युक्ते, यानि सूत्राणि अर्थविशेषं ज्ञापयन्ति, तेषाम् विषये एव अस्मिन् प्रकरणे पाठिताः ण्य-आदयः अपवादाः विधीयन्ते ; यानि सूत्राणि अर्थसामान्यं ज्ञापयन्ति, तेषां विषये न । अत्र 'अर्थसामान्य' इत्यनेन <<तस्येदम्>> 4.3.120 सूत्रस्य ग्रहणं भवतीति व्याख्यानेषु स्पष्टीक्रियते । इत्युक्ते, वर्तमानसूत्रेण विहिताः अपवादाः <<तस्येदम्>> 4.3.120 इत्ययस्य विषये न स्वीकर्तव्याः । यथा, 'उष्ट्रपति' नाम किञ्चन पत्त्रम् (वाहनम्) अस्ति, तस्य <<तस्येदम्>> 4.3.120 अस्याम् विवक्षायाम् वर्तमानसूत्रेण उक्तं ण्य-प्रत्ययं बाधित्वा शैषिकप्रकरणे <<पत्त्राध्वर्युपरिषदश्च>> 4.3.131 इत्यत्र उक्तः अञ्-प्रत्ययः एव विधीयते । उष्ट्रपतेः इदम् औष्ट्रपतम् । परन्तु अन्येषु अर्थेषु तु अञ्-प्रत्ययः एव भवति । यथा, उष्ट्रपतीनां समूहः = उष्ट्रपति + ण्य = औष्ट्रपत्य ।

Balamanorama

Up

Padamanjari

Up

पतिशब्दस्योतरपदशब्देन बहुव्रीहौ कृते पश्चाद् द्वन्द्वः, न तु द्वन्द्वस्योतरपदशब्देन बहुव्रीहिरित्याह - पत्युतरपदाच्चेति । एतच्च प्रत्यासतेर्व्याख्यानाद्वा लभ्यते । अदितिग्रहणं तु तदुतरपदपरिग्रहार्थं स्यात्, न ह्यदित्युतरपदं दित्युतरपदं भवति । पत्यन्तादिति नोक्तम्, बहुच्पूर्वान्मा भूदिति । वाडमतिपितृमतामिति । कुर्वादिषु मतिपुतृमच्छब्दयोः पाठोऽपत्यार्थो भाषायामपि ण्यो यथा स्यादिति । अनेन तु च्छन्दसि सर्वेष्वेव प्राग्दीव्यतीयेषु ण्यविधिः । केचिद्वाक्शब्दमपि तत्रैव पठन्ति, तेन'याना वाच्या एते वत्साः' इति प्रयोगोपपतिः । यमाच्चेति । यमशब्दोऽपि सूत्रे पठितव्य इत्यर्थः । पृथिव्या ञाञाविति । ञाञोः स्त्रियां विशेष इत्याह - पाथिवा, पार्थिवीति । स्थाम्न इति । बलवचनोऽयम् । तस्य केवलस्य यद्यप्यपत्येन योगो नास्ति, जातादिना तु योगः सम्भवत्येव । सर्वेषु च प्राग्दीव्यतीयेष्वयं विधिः, तस्मादश्वत्थाम इति भाष्योदाहरणादत्र तदन्तविधिर्भवति । अश्वत्थाम इति । अश्वस्येव्र स्थाम यस्येति बहुव्रीहौ अकारष्टिलोपः, पृषोदरादित्वात्सकारस्य तकारः । लोम्नोऽपत्ये बहुष्विति । बाह्वादिष्वयं पठ।ल्त इतीञि प्राप्ते बहुष्वकारः, केवलस्यापत्याअनायोगात्समर्थ्यातदन्तविधिः । उडुलोमा इति । उडूअनीव लोमान्यस्य, शरा इव लोमान्यस्येति बहुव्रीहिः । ननु बाह्वादिलक्षणे इञ्यपि कृते तस्य बह्वचेति लुकि सुबन्तादिञुत्पन्न इति प्रत्ययलक्षणेन'सुबन्तं पदम्' इति पदसंज्ञायां नलोपेन सिद्धम् ? सिद्ध्यतु नामेदम् ; उडुलोमेभ्य इत्येवमादौ सुब्विधौ नलोपस्यासिद्धत्वादैसादिर्न स्यात्, इञो लुगपि प्राच्यभरतगोत्रादन्यत्र न सिध्यति, न वात्र पदसंज्ञा, ठसर्वनामस्थानेऽ इति निषेधात् । यथा च प्रत्ययलक्षणेन प्राप्तायाः सुबन्तमित्यस्या अपि पदसंज्ञायाः स निषेधस्तथोक्तं पुरस्तात् । सर्वत्रेति । नापत्य एव । यद्वा प्राग्दीव्यतीयेऽन्यत्र च, तेन गवा चरतीत्यत्रापि गव्य इति भवति । गोरूप्यमिति ।'हेतुमनुष्येभ्यो' न्यतरस्यां रूप्यःऽ,'मयड् च' इति रूप्यमयटौ । ण्यादय इति । येन नाप्राप्तिन्यायेनाण एव ण्यादयोऽपवादाः, अमापवादैस्तु ढगादिभिः सह सम्प्रधाराणायां परत्वात एव स्युरिति वार्तिकारम्भः । अर्थविशेषोऽपत्यादिलक्षणं निमितं यस्य सोऽर्थविशेषलक्षणः । यस्तु तस्वेदमित्यर्थसामान्यलक्षणोऽणपवादः स परत्वाद्भवति, उष्ट्रपतिर्नाम पत्रं तस्येदमौष्ट्रपतम्'तत्राध्वर्युपरिषदश्च' इत्यञ् भवति, न तु ण्यः । दितेरपत्यमिति । अत्र ठितश्चानिञःऽ इति ढग्न भवति, डौलेय इत्यादावेव तु भवति । वानस्पत्यमिति । अचितादिलक्षणष्ठग्न भवति, आपूपिकादावेव तु भवति । कथं दैतेय इति । अत्र तर्हीति । गम्यमानत्वान्न प्रयुक्तम् । यदि ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषेधेन भवन्ति, कथं तर्हि दैतैयः सिध्यतीत्यर्थः । दितिशब्दादित्यादि । ननु'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति ङीषन्तादपि ण्य एव प्राप्नोति ? तत्राह - लिङ्गविशिष्टपरिभाषा चानित्येति । अन्ये तु भाष्वार्तिकयोरनुक्तत्वाद् दैतेय इत्यसाधुरिति स्थिताः ॥