अचित्तहस्तिधेनोष्ठक्

4-2-47 अचित्तहस्तिधेनोः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः

Sampurna sutra

Up

तस्य समूहः (इति) अचित्त-हस्ति-धेनोः ठक्

Neelesh Sanskrit Brief

Up

अचित्तवाचिभ्यः शब्देभ्यः, 'हस्ति'शब्दात् तथा 'धेनु'शब्दात् 'तस्य समूहः' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।

Neelesh English Brief

Up

For the words that represent non-living entities, and also for the words हस्तिन् and धेनु, the प्रत्यय ठक् is used to indicate the meaning of 'तस्य समूहः'.

Kashika

Up

अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अणञोरपवादः। अपूपानां समूह आपूपिकम्। शाष्कुलिकम्। हास्तिकम्। धैनुकम्॥ धेनोरनञ इति वक्तव्यम्॥ आधेनवम् ॥

Siddhanta Kaumudi

Up

साक्तुकम् । हास्तिकम् । धैनुकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे अचित्तवाचिभ्यः शब्देभ्यः (इत्युक्ते, ते शब्दाः ये अचेतनवस्तूनां निर्देशं कुर्वन्ति, तेभ्यः) ठक्-प्रत्ययः भवति । तथा च, 'हस्तिन्' तथा 'धेनु' - एताभ्यां शब्दाभ्यामपि अनेन सूत्रेण ठक्-प्रत्ययः विधीयते । यथा - 1. अपूपानां समूहः आपूपिकम् । प्रक्रिया इयम् - अपूप + ठक् → अपूप + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → आपूप + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → आपूप् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आपुपिक 2. शष्कुलीनां समूहः = शष्कुली + ठक् → शष्कुली + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → शाष्कुली + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → शष्कुल् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → शाष्कुलिक 3. सक्तूनाम् समूहः = सक्तु + ठक् → सक्तु + क [<<इसुसुक्तान्तात् कः>> 7.3.51 इति ठकारस्य ककारादेशः] → साक्तु + क [<<किति च>> 7.2.118 इति आदिवृद्धिः] → साक्तुक 3. हस्तिनां समूहः = हस्तिन् + ठक् → हस्तिन् + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → हास्तिन् + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → हास्त् + इक [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → हास्तिक 4. धेनूनां समूहः = धेनु + ठक् → धेनु + क [<<इसुसुक्तान्तात् कः>> 7.3.51 इति ठकारस्य ककारादेशः] → धैनु + क [<<किति च>> 7.2.118 इति आदिवृद्धिः] → धैनुक अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!धेनोः अनञ् इति वक्तव्यम्!> । इत्युक्ते, नञ्-समासे विद्यमानस्य धेनु-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः तत्र औत्सर्गिकरूपेण अण्-प्रत्ययः एव क्रियते । यथा - अधेनूनाम् समूहः = अधेनु + अञ् [<<उत्सादिभ्योऽञ्>> 4.1.86 इति अञ्] → आधेनु + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आधेनो + अ [<<ओर्गुणः>> 6.4.146 इति गुणादेशः] → आधेनव [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] ज्ञातव्यम् - यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि <<अनुदात्तादेः अञ्>> 4.2.44 इत्यनेन अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः एव विधीयते ।

Balamanorama

Up

<<अचित्तहस्तिधेनोष्ठक्>> - अचित्तहस्ति । अचित्ताः=अप्राणिनः, तद्वाचिभ्यः, हस्तिशब्दाद्धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । 'इसुसुक्तान्तात्कः' इत्युकः परत्वाट्ठस्य कः आदिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः । ठक् इकः । टिलोपः । आदिवृद्धिः । धैनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वाट्ठस्य कः । आदिवृद्धिः ।

Padamanjari

Up

अणञोरपवाद इति । अचितार्थेषु येननाप्राप्तिन्यायेनाणोऽपवादः । कपोतादिषु चितवत्सु चरितार्थस्याञोऽपि परत्वाद्वाधक इत्यर्थः । हस्तिधेनुशब्दयोस्तु प्रत्ययस्वरेणान्तोदातयोरनुदातादिलक्षणस्याञोऽपवादः । हस्तिशब्दः'हस्ताज्जातौ' इतीनिप्रत्ययान्तः । धेनुशब्दः'घेटो' नुश्चऽ इति नुप्रत्ययान्तः । आधेनवमिति । अत्सादिपाठादञ्,'जङ्गलधेनुवलजान्तस्य' इति पक्षे वृद्ध्यभावः ॥