4-3-131 रेवतिकादिभ्यः छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
रैवतिकादिभ्यश्छः प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। गोत्रप्रत्ययान्ता एते, ततः पूर्वेण वुञि प्राप्ते छविधानार्थं वचनम्। रैवतिकीयः। स्वापिशीयः॥ रैवतिक। स्वापिशि। क्षैमवृद्धि। गौरग्रीवि। औदमेयि। औदवाहि। बैजवापि॥
तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥
<<रैवतिकादिभ्यश्छः (कौपिञ्जलहास्तिपदादण्) (आथर्वणिकस्येकलोपश्च)>> - आथर्वणिकस्येति । अथर्वणा प्रोक्तो वेदोऽथर्वेत्युपचर्यते, तमधीते आथर्वणिकः । वसन्तादित्याट्ठक् । आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपेदाण्डिनायने॑ति टिलोपाऽभावे 'आथर्वण' इति रूपमित्यर्थः । धर्म आम्नायो वेति ।चरणाद्धर्माम्नाययो॑रित्युक्तेरिति भावः । ननु तस्येदमित्येव सिद्धेऽण्विधिव्र्यर्थ इत्यत आह — चरणाद्वुञोऽपवाद इति । आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः ।*इति बालमनोरमायाम् शैषिकाः ।***
पूर्वेणेति ।'गोत्रचरणाद् वुञ्' इत्यनेन रैवतिकीय इति । रेवत्या अपत्यम् रेवत्यादिभ्यष्ठक्ऽ रैवतिकः, ततश्च्छः । अन्ये इञन्ताः, तत्रानन्तरसूत्रात्प्रतिषेधोऽनुवर्तिष्यते, रैवतिकादिभ्यो वुञः प्रतिषेधे विज्ञायमाने यत्रापवादो नास्ति - रैवतीकीय इति, तत्र'वृद्धाच्छः' इत्येव सिद्धः; क्षेमवृद्धिशब्ददपि गहादित्वाच्छः; अन्येषु ठिञश्चऽ इत्यण् स्यात्, तस्माच्छग्रहणम् ॥