कितः

6-1-165 कितः अन्तः उदात्तः तद्धितस्य

Sampurna sutra

Up

कितः तद्धितस्य उदात्तः

Neelesh Sanskrit Brief

Up

यः तद्धित-प्रत्ययः कित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।

Neelesh English Brief

Up

The word ending in a तद्धितसंज्ञक कित्-प्रत्यय become अन्तोदात्त.

Kashika

Up

तद्धितस्येत्येव। तद्धितस्य कितोऽन्त उदात्तो भवति। <<नडादिभ्यः फक्>> ४.१.९९ ना॒डा॒य॒नः। चा॒रा॒य॒णः। <<प्राग्वहतेष्ठक्>> ४.४.१ — आ॒क्षि॒कः। शा॒ला॒कि॒कः॥

Siddhanta Kaumudi

Up

कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यस्मिन् तद्धितप्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'कित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः तद्धितसंज्ञकः कित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तः भवति । यथा - नड + फक् → ना॒डा॒य॒न । अत्र 'फक्' अयम् तद्धितप्रत्ययः 'कित्' अस्ति, अतः तस्य योजनेन निर्मितस्य समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः <<अनुदात्तं पदमेकवर्जम्>> 6.1.158 इत्यनेन अनुदात्ताः भवन्ति ।

Balamanorama

Up

Padamanjari

Up