पृषोदरादीनि यथोपदिष्टम्

6-3-109 पृषोदरादीनि यथोपदिष्टम् उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्णविकाराःशास्त्रेण न विहिता दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति। यानियानि यथोपदिष्टानि शिष्टैरुच्चारितानि प्रयुक्तानि, तानि तथैवानुगन्तव्यानि। पृषदुदरं यस्य पृषोदरम्। पृषद् उद्वानं यस्य पृषोद्वानम्। अत्र तकारलोपो भवति। वारिवाहको बलाहकः। पूर्वशब्दस्य बशब्द आदेश उत्तरपदादेश्च लत्वम्। जीवनस्य मूतो जीमूतः। वनशब्दस्य लोपः। शवानां शयनं श्मशानम्। शवशब्दस्य श्मादेशः। शयनशब्दस्यापि शानशब्द आदेशः। ऊर्ध्वं खमस्येति उलूखलम्। ऊर्ध्वखशब्दयोरुलू खल इत्येतावादेशौ भवतः। पिशिताशः पिशाचः। पिशिताशशब्दयोर्यथायोगं पिशाचशब्दावादेशौ। ब्रुवन्तोऽस्यां सीदन्तीति बृसी। सदेरधिकरणे डट् प्रत्ययः। ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति। मह्यां रौतीति मयूरः। रौतेरचि टिलोपः। महीशब्दस्य मयूभावः। एवमन्येऽपि अश्वत्थकपित्थमहित्थप्रभृतयो यथायोगमनुगन्तव्याः॥ दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति॥ दक्षिणतीरम्, दक्षिणतारम्। उत्तरतीरम्, उत्तरतारम्॥ वाचो वादे डत्वं च लभावश्चोत्तरपदस्येञि प्रत्यये भवति॥ वाचं वदतीति वाग्वादः। तस्यापत्यं वाड्वालिः॥ षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च भवति॥ षड् दन्ता अस्य षोडन्। षट् च दश च षोडश॥ धासु वा षष उत्वं भवत्युत्तरपदादेश्च ष्टुत्वम्॥ षोढा, षड्धा कुरु। बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः। इह मा भूत् — षड् दधाति धयति वा षड्धेति॥ दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम्॥ कृच्छे्रण दाश्यते नाश्यते दभ्यते च यः, स दू॒डाशः॑ (शौ०सं० १.१३.१)। दू॒णाशः॑ (ऋ० ७.३२.७)। दू॒डभ॑(ऋ० ४.९.८)। दम्भेः खल्यनुनासिकलोपो१ निपातनात्। दुष्टं ध्यायतीति दू॒ढ्यः॑ (ऋ० ८.७५.९)। दुःशब्दोपपदस्य ध्यायतेः <<आतश्चोपसर्गे>> ३.१.१३६ इति कप्रत्ययः॥ स्वरो रोहतौ छन्दस्युत्वं वक्त व्यम्॥ जा॒य ए॒हि॒ स्वो रो॒हाव (श०ब्रा० ५.२.१.१०)॥ पीवोपवसनादीनां च लोपो वक्तव्यः॥ पीवो॑पवसनानाम् (मा०सं० २१.४३)। पयोपवसनानाम्।

वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ।

धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्त म्॥

Siddhanta Kaumudi

Up

पृषोदरप्रकाराणि शिष्टैर्यथोच्चरितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः उत्तरपदादेश्च लत्वम् ॥ भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ।<!दिक्छब्देभ्यस्तीरस्य तारभावो वा !> (वार्तिकम्) ॥ दक्षिणतारम् । दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम् ।<!दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च !> (वार्तिकम्) ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । आतश्च <{SK2898}> इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः, सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पृषोदरादीनि यथोपदिष्टम्>> - पृषोदरादीनि । आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्याऽदर्शनाद्यथोपदिष्टपदस्य वैयथ्र्याच्च । किंतु प्रकारवाची । तदाह — पृषोदरप्रकाराणीति । प्रकारः-सादृश्यं, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्त्राऽगृहीतानीति यावत् । उपपूर्वको दिशिरुच्चारणार्थः । भावे क्तः । उपदिष्टमुपदेशः — उच्चारणं, तदनतिक्रम्य यथोपदिष्टम् । पदार्थानतिवृत्तावव्ययीभावः । शिष्टैरित्यध्याहार्यम् । तथा च फलितमाह — शिष्टैर्यथोच्चारितानीति । शिष्टास्तु शब्दतत्त्वसाक्षात्कारवन्तो योगिन इति । भाष्यकौयटयोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे 'आद्गुणः' इति भावः । पूर्वपदस्येति । 'वारिवाहक' शब्दे वारिशब्दस्य पूर्वपदस्य बकारः सर्वादेशः । वाहकशब्द उत्तरपदं, तदादेर्वकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमाद्धंस इति । हसधातोः पचाद्यचि अनुस्वारागमे 'हंस' इति रूपमित्यर्थः । हनधातोरचि सगागमेनश्चाऽपदान्तस्ये॑त्यनुस्वार इत्यन्ये । सिंहो वर्णविपर्ययादिति ।हिसि हिंसाया॑मित्यतः पचाद्यचि इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । हकारस्य सकारः, सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिहंयोरुणादौ व्युत्पत्तिरुक्ता तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः । गूढोत्मा वर्णविकृतेरिति । गूढ आत्मा यस्येति बहुव्रीहावुत्तरपदादेराकारस्य उकारे आद्गुणे रूपमिति भावः । वर्णनाशात्पृषोदरमिति । पृषत्-उजरमित्यत्र तकारलोपे सति आद्गुणे पृषोदरमिति भवतीत्यर्थः । दिक्छब्देभ्यस्तीरस्येति । वार्तिकमिदम् । दुरो दाशेति । इदमपि वार्तिकम् । दुरित्यस्य दाश, नाश, दभ, ध्य — इत्येतेषु परेषु इत्वम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यमित्यर्थऋ दूडाश इति । दुर् — दाश इति स्थिते रेफस्य उत्त्वे सवर्णदीर्घः । दाशेर्दकारस्य ष्टुत्वेन डकारः । दूणाश इति । दुर्-नाश इति स्थिते रेफस्य उत्व सवर्णदीर्घः । नाशेर्नकारस्य ष्टुत्वेन णत्वम् । दूडभ इति । दुर्-दभ इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः । दभेर्दकारस्य ष्टुत्वेन डकारः । खल्त्रिभ्य इति । 'दाशृ दाने' 'णश अदर्शने' ण्यन्तः,दभ हिंसाया॑मिति त्रिभ्यो धातुभ्यः 'ईषद्दुस्सुषु' इति खल्प्रत्यय इत्यर्थः । ननु क्ङित्परकत्वाऽभावात्कथमिहअनिदिता॑मिति नलोप इत्यत आह — दम्भेर्नलोपो निपात्यत इति । दूढ इति । दुर्ध्य इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्चेति । 'ध्यै चिन्तायाम्' 'आतश्चोपसर्गे' इति कप्रत्यये आदेच उपदेशे॑ इति आत्त्वेआतो लोप इटि चे॑त्याल्लोपे ध्यशब्द इत्यर्थः । सदेरिति । सद्धातोरधिकरणेऽर्थे डटि ङित्त्वसामर्थ्यादस्यापि टेर्लोपे स इति रूपम् । ब्राउवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रावच्छब्दस्य 'बृ' इत्यादेशे बृसशब्दात्टिड्ढे॑ति ङीपि बृसीति रूपमिति भावः । 'दिक्छब्देभ्य' इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनीत्यस्यैव प्रपञ्चः । आकृतिगणो ।ञयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमना इत्यादिसङ्ग्रहः ।

Padamanjari

Up

निरुक्तादिशास्त्रसिद्धानामसमासपदानामुणादयो बहुलम् इति सद्धिरुक्ता, अनेन तु समासपदानां जीमूतवलाहकादीनां सिद्धिरुच्यते । प्रकारवचनोऽयमादिशब्द इति दर्शयति पृषोदरप्रकाराणीति । व्यवस्थार्थे तावदिशब्दे यथोपदिष्टमित्यनर्थकमिति भावः । प्रकारमाह - येष्विति । यथोयदिष्टमिति । वीप्सायामयमव्ययीभाव इत्याह - यानियानीति । दिशिरुच्चारणक्रियः, उच्चार्य हि वर्णानाह - उपदिष्टा इमे वर्णाः इति, कैः पुनरुपदिष्टानि शिष्टेः । शिष्टाः पुनरकामात्मानो यथार्थवेदिनो यथाविहितभाषिणश्च किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारगाः, यानधिकृत्येदमुच्यते । आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्पण चक्षुषा । ये भावान्वचनं तेषां नानुमानेन बाध्यते ॥ इति । यदि तर्हि शिष्टाः शब्देषु प्रमाणम्, किमष्टाध्याथ्या क्रियते शिष्टपरिज्ञानार्थाष्टाध्यायी । कथमष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानम्, ये चानुविहितास्तान् प्रयुञ्जानम् । स पश्यति - नूनमस्य एदैवानुग्रहः स्वभावो वा यदसौ नाष्टाध्यायीमधीते, अथ चात्र तु विहिताः शब्दास्तान्प्रयुङ्क्ते, नूनमन्यानपि अयं जानाति । सैषा शिष्टपरिज्ञानार्थाष्टाध्यायी । जीवनस्य जलस्य मूतो भाचनं जीमूतः, यथा कुसूलो धान्यानाम्, खम् - बिलम् । पिशितम् - मांसम् । बृसी - तृणमयमासनम् । एवमन्येऽपीत्यादि । कप्यश्वमहीशब्देपूपपदेषु सुपि स्थः, सकारस्य तकारः, महीशब्दस्य ह्रस्वः । दक्षिणतारमिति । विशेषणसमासः । वाग्वाद इति । कर्मण्यण् । षोडन्निति । वयसि दन्तस्य दतृ, उगित्वान्नुम् । घासु नेति । उत्वस्यायं विकल्पः । उत्वपक्षे तु ष्टुअत्वं नित्यमेव भवति, अत्रोतरपदशब्देन धाप्रत्ययोऽभिधीयते । पद्यते गम्यतेऽनेनार्थ इति पदम्, उतरं च तत्पदं च उतरपदम् । षड्धेति । न पदान्ताट्टोरनाम् इति ष्टुअत्वप्रतिषेधः । नानाधिकरणवाचिन इति । अर्थगतं बहुत्वं शब्दे समारोप्य धास्विति बहुवचननिर्देशः, तेन अधिकरणविचाले चेति वहितस्य धाप्रत्ययस्येदं ग्रहणम् । षड्धेति । आतोऽनुपसर्गे कः स्त्रियां टाप्प्रत्ययः । लाक्षणिकत्वादस्याग्रहणमिति चेत् एवमपि क्वबन्ते प्रसङ्गः । नाश्यत इति । णश अदर्शने ण्यन्तः । दभ्यत इति । दम्भु दम्भे । स्वो रोहावेति । लोडुतमद्विवचने । वर्णागम इत्यादि । कौ जीर्यत इति वृञ्जर इत्यत्र नकारस्य वर्णस्यागमः । हिनस्तीति सिंह इत्याद्यन्तयोर्वर्णयोविपर्ययो व्यत्यासः । षोड इत्यत्र षकारस्योकाररुपापतिः वर्णाविकारः । पृषोदर इत्यादौ तकारादेर्वर्णस्य विनाशः । यस्य धातोर्थोऽर्थः प्रसिद्धः, तस्मादर्थान्तरेण योगस्तदर्थातिशयेन योग इति । एतत्पञ्चविधं निरुक्तम् - निर्वचनप्रकारः, शब्दानां तदन्तेन सूत्रेणोच्यत इति श्लोकार्थः ॥