बाह्वादिभ्यश्च

4-1-96 बाह्वादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् इञ्

Sampurna sutra

Up

'तस्य अपत्यम्' इति बाह्वादिभ्यः इञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे बाह्वादिगणस्य शब्देभ्यः इञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate the meaning of 'his/her offspring', the words belonging to the बाह्वादिगण get the 'इञ्' प्रत्यय.

Kashika

Up

बाहु इत्येवमादिभ्यः शब्देभ्योऽपत्य इञ् प्रत्ययो भवति। बाहविः। औपबाहविः। अनकारार्थ आरम्भः। क्वचिद् बाधकबाधनार्थः॥ बाहु। उपबाहु। विवाकु। शिवाकु। वटाकु। उपबिन्दु। वृक। चूडाला। मूषिका। बलाका। भगला। छगला। ध्रुवका। धुवका। सुमित्रा। दुर्मित्रा। पुष्करसत्। अनुहरत्। देवशर्मन्। अग्निशर्मन्। कुनामन्। सुनामन्। पञ्चन्। सप्तन्। अष्टन्। अमितौजसः सलोपश्च (ग०सू० ६०)। उदञ्चु। शिरस्। शराविन्। क्षेमवृद्धिन् शृङ्खलातोदिन्। खरनादिन्। नगरमर्दिन्। प्राकारमर्दिन्। लोमन्। अजीगर्त्त। कृष्ण। सलक। युधिष्ठिर। अर्जुन। साम्ब। गद। प्रद्युम्न। राम। उदङ्कः संज्ञायाम् (ग०सू० ६१)। सम्भूयोऽम्भसोः सलोपश्च (ग०सू० ६२)॥ बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेधः॥ बाहुर्नाम कश्चित्, तस्यापत्यं बाहवः॥ संबन्धिशब्दानां च तत्सदृशात् प्रतिषेधः॥ संज्ञाश्वशुरस्यापत्यं श्वाशुरिः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। जाम्बिः। ऐन्द्रशर्मिः। आजधेनविः। आजबन्धविः। औङुलोमिः॥

Siddhanta Kaumudi

Up

बाहविः । औडुलोमिः । आकृतिगणोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

बाहविः। औडुलोमिः। <<लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः>> (वार्त्तिकम्) । उडुलोमाः। आकृतिगणोऽयम्॥

Neelesh Sanskrit Detailed

Up

<<प्राग्दीव्यतः अण्>> 4.1.83 इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन <<तस्य अपत्यम्>> 4.1.92 अस्मिन् अर्थे बाह्वादिगणे दत्तेभ्यः शब्देभ्यः इञ्-प्रत्ययः विधीयते । बाह्वादिगणः अयम् - बाहु। उपबाहु। उपवाकु । निवाकु । शिवाकु। वटाकु । उपनिन्दु । उपबिन्दु। वृषली । वृकला । चूडा। बलाका। मूषिका । कुशला । भगला। छगला। ध्रुवका। धुवका। सुमित्रा। दुर्मित्रा। पुष्करसद् । अनुहरत्। देवशर्मन्। अग्निशर्मन्। भद्रशर्मन् । सुशर्मन् । कुनामन्। सुनामन्। पञ्चन्। सप्तन्। अष्टन्। अमितौजसः सलोपश्च । सुधावत् । उदञ्चु। शिरस्। माष । शराविन्। मरीची । क्षेमवृद्धिन्। शृङ्खलतोदिन्। खरनादिन्। नगरमर्दिन्। प्राकारमर्दिन्। लोमन्। अजीगर्त। कृष्ण। युधिष्ठिर । अर्जुन । साम्ब। गद। प्रद्युम्न। राम। उदङ्क संज्ञायाम् । सम्भूयोऽम्भसोः सलोपश्च । आकृतिगणोयम् । तेन - सात्त्विकिः । जाङ्घ्रिः । ऐन्द्रशर्मिः । आजधेनविः । अस्मिन् गणे कानिचन गणसूत्राणि अपि सन्ति - 1. अमितौजसः सलोपश्च - 'अमितौजस्' शब्दस्य सकारस्य लोपः भवति । यथा - अमितौजस् + इञ् → अमितौज + इञ् → आमितौजि । 2. उदङ्कः संज्ञायाम् - 'उदञ्च्' शब्दात् संज्ञायाः विषये (इत्युक्ते, 'उत्तरदिशा' अयम् निर्देशः अस्ति चेत्) अपत्यार्थे इञ्-प्रत्ययः भवति । उदीचः अपत्यम् = उदञ्च् + इञ् = औदञ्चि । 3. सम्भूयोऽम्भसोः सलोपश्च - 'सम्भूयस्' तथा 'अम्भस्' शब्दयोः विषये सकारलोपः भवति । यथा - सम्भूयस् + इञ् → सम्भूय + इञ् → साम्भूयि । अम्भस् + इञ् → अम्भ + इञ् → आम्भि । कानिचन उदाहरणानि । एतेषु सर्वेषु उदाहरणेषु <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धिं कृत्वा रूपम् सिद्ध्यति । 1. बाहु + इञ् → बाहवि । अत्र <<ओर्गुणः>> 6.4.146 इत्यनेन उकारस्य गुणः भवति । 2. उपबाहु + इञ् → औपबाहवि । अत्र <<ओर्गुणः>> 6.4.146 इत्यनेन उकारस्य गुणः भवति । 3. सुमित्रा + इञ् → सौमित्रि । अत्र <<यस्येति च>> 6.4.148 इति आकारलोपः भवति । अयम् इञ्-प्रत्ययः <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन निर्दिष्टस्य ढक्-प्रत्ययस्य अपवादरूपेण आगच्छतीति स्मर्तव्यम् । 4. देवशर्मन् + इञ् → दैवशर्मि । अत्र <<नस्तद्धिते>> 6.4.144 इत्यनेन अकार-नकारलोपः भवति । 5. पञ्चानामपत्यम् = पञ्चन् + इञ् → पाञ्चि । अत्र <<नस्तद्धिते>> 6.4.144 इत्यनेन अकार-नकारलोपः भवति । 6. हस्तिशिरस् + इञ् → हास्तिशीर्षि । अत्र <<अचि शीर्षः>> 6.1.62 इत्यनेन शिरस्-शब्दस्य शीर्ष-आदेशः भवति । 7. मरीची + इञ् → मारीचि । अत्र <<यस्येति च>> 6.4.148 इति ईकारलोपः भवति । 8. उडुलोमन् + इञ् → औडुलोमि । अत्र <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपः भवति । यद्यपि बाह्वादिगणे 'लोमन्' इत्यस्यैव निर्देशः अस्ति, तथाप्यत्र उडुलोमन्, शरलोमन्, ऊर्ध्वलोमन् - एतेषां सर्वेषाम् ग्रहणं भवति, यतः केवल-लोमन्-शब्दात् अपत्यप्रत्ययस्य प्रयोगः न दृश्यते । (एतेषां शब्दानां विषये बहुवचनस्य प्रक्रियायां तु इञ्-प्रत्ययं बाधित्वा <<दित्यदित्यादित्य ....>> 4.1.85 इत्यत्य पाठितेन '<!लोम्नोपत्येषु बहुषु!>' अनेन वार्त्तिकेन 'अ' प्रत्ययः भवतीति स्मर्तव्यम् ।) 9. राम + इञ् → रामि । अत्र <<यस्येति च>> 6.4.148 इति अकारलोपः भवति । अस्मिन् सूत्रे प्रयुक्तः 'च'कारः 'अनुक्तसमुच्चयार्थम्' अस्ति । इत्युक्ते, ये शब्दाः अस्मिन् गणे समाविष्टाः न सन्ति परन्तु येषाम् विषये अपत्यार्थे इञ्-प्रत्ययस्य प्रयोगः कृतः दृश्यते, तेषाम् समावेशः अपि अस्मिन् गणे भवितुमर्हति । अतएव अयमाकृतिगणः । यथा, इन्द्रशर्मन् + इञ् → ऐन्द्रशर्मि । अत्र एकः प्रश्नः आगच्छति - राम, अर्जुन, कृष्ण - एते अदन्ताः शब्दाः तु <<अत इञ्>> 4.1.95 इत्यनेनैव इञ्-प्रत्ययं स्वीकुर्वन्ति । तेषाम् पुनः अस्मिन् गणे समावेशः किमर्थम् क्रियते? अस्य उत्तरम् एतत् - एतेषाम् शब्दानाम् इञ्-प्रत्यये प्राप्ते तं बाधित्वा <<ऋष्यन्धकवृष्णिकुरुभ्यश्च>> 4.1.114 इत्यनेन अण्-प्रत्ययविधानम् भवति । तत् तथा मा भूत् एतत् स्पष्टीकर्तुम् एतेषां शब्दानामत्र समावेशः क्रियते, येन एतेषाम् इञ्-प्रत्ययः एव भवति । यथा - कृष्णस्य अपत्यम् = कृष्ण + इञ् → कार्ष्णि । अस्मिन् विषये एकं वार्त्तिकमपि ज्ञातव्यम् - <!बाह्वादिप्रभृतिषु येषां दर्शने गोत्रभावे लौकिके, तत्र । अन्यत्र तेषां प्रतिषेधः !> । इत्युक्ते, बाह्वादिगणे उपस्थितैः शब्देः यदि प्रसिद्धस्य लौकिक-गोत्रस्य निर्देशः क्रियते, तर्हि एव अनेन सूत्रेण इञ्-प्रत्ययः भवति, न अन्यथा । यथा - अ) 'बाहु' नाम्नः ऋषेः अपत्यस्य निर्देशः 'बाहु + इञ् → बाहवि' इति कर्तुं शक्यते । परन्तु बाहु नाम कश्चन अन्यः पुरुषः अस्ति चेत् तस्य अपत्यं निर्देशयितुम् इञ्-प्रत्ययः न भवति, औत्सर्गिकः अण्-प्रत्ययः एव भवति । यथा - 'बाहु + अण् → बाहव' । आ) वासुदेवकृष्णस्य अपत्यस्य निर्देशः 'कृष्ण + इञ् = कार्ष्णि' एवं भवितुमर्हति । परन्तु 'कृष्ण' नाम अन्यः कश्चन युवकः अस्ति चेत् तस्य अपत्यम् 'कृष्ण + अण् → कार्ष्ण' इत्येव सम्बुद्ध्यते । एवमेव अजीगर्त, कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, गद, प्रद्युम्न, राम - एतेषाम् विषये अपि प्रसिद्धगोत्रोत्पन्नस्यैव अत्र कृतनिर्देशः ज्ञातव्यः, अन्येषाम् न ।

Balamanorama

Up

<<बाह्वादिभ्यश्च>> - बाह्वादिभ्यश्च ।अपत्ये इ॑ञिति शेषः । बाहविरिति । बाहुर्नाम कश्चिदृषिः, अथ 'ऋषयः' इत्यधिकृत्य॒बाहविर्गाग्र्यगौतमौ॑ इत्याआलायनसूत्रे दर्शनात् । बाहोरपत्यमिति विग्रहः । इञि ओर्गुणः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । इञि 'नस्तद्धिते' इति टिलोपः । आदिवृद्धिः, अदन्तात्वाऽभावादप्राप्तिः ।

Padamanjari

Up

क्वचिदिति । अजीगर्तादिषूदङ्कपर्यन्तेष्वदन्तत्वात्पूर्वेणेञ् प्राप्तः, तस्य ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् बाधकः प्राप्तः । अन्ये सर्वेऽनकारान्ताः, तेषु च बाहुप्रभृतिषूवर्णान्तेषु, पुष्करसदादिषु हलन्तेषु चाण् प्राप्तः । चूडाशब्दाद्'द्व्यचः' इति ढक्, वृकलादिभ्यस्तन्नामिकण्प्राप्तः । शिरस्, लोमन्निति तदन्तयोर्ग्रहणम् ।'सम्भूयोम्भोमितौजसां सलोपश्च' इत्येव वक्तव्ये पृथक् सलोपश्चेति वचनं वैचित्र्यार्थम् । उदञ्चु इति पठ।ल्ते, तत्र नायमुकारान्तात्प्रत्ययः; किन्तु क्विन्नन्तात्प्रत्ययः, नलोपाभावस्तु निपात्यते - उदीचोऽपत्यमौदञ्चिः । एतत्सर्वं पैलादिष्वौदञ्चिशब्दपाठाद्विज्ञायते । बाह्वादिप्रभृतिष्विति । प्रभृतिग्रहणेन वक्ष्यमाणानां कुञ्जादीनां ग्रहणम् । लोके विदितो लौकिको गोत्रभावः, संज्ञाकारित्वमादिपुरुषत्वमित्यर्थः । एतच्च न्यायसिद्धम्, कथम् ? अर्थवद्ग्रहणे नानर्थकस्येति अर्थवतां बाह्वादीनां ग्रहणम्, स चार्थः प्रसिद्धः; झटिति प्रतीतेः । स्मृतिशास्त्रस्य चार्थतोऽनादित्वादनाद्यर्थाभिधायिनामेव ग्रहणं न्याय्यम् । बाहुर्नाम कश्चिदिति । एवं कुञ्चो नाम नडो वा, तस्मादिञेव भवति - कौञ्जिः, नाडिरिति । यतु कार्यं न स्वरूपोपादानेन विधीयते, किन्तु प्रकारान्तरेण; तदिदानीन्तनार्थाभिधायिनामपि भवति, ठत इञ्ऽ, दैवदतिरिति । सम्बन्धिशब्दानां चेति कार्यापेक्षया षष्ठी, सम्बन्धिशब्दानां श्वशुरादीनां यत्कार्यमुच्यते तस्य तत्सदृशे प्रतिषेधो भवति । संज्ञाश्वसुरस्येति । संज्ञया यः श्वसुरः, न सम्बन्धेन । श्वासुरिरिति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवति, तेन'सावसेराप्तौ' इति व्युत्पन्नस्य श्वसुरशब्दस्य'न य्वाभ्याम्' इत्येष विधिर्न भवति । तथा'मातृपितृभ्यां स्वसा' इति षत्वं धान्यमतरि न भवति । इदमपि न्यायसिद्धम्; संज्ञाश्वशुरस्यादिमत्वात्सम्बन्धिशब्दस्यानादित्वात् । मातृपितृभ्यामित्यत्रापि प्रसिद्धतरत्वाज्जननीवाचिनो ग्रहणम् । उक्तं च - अभिव्यक्तपदार्था ये स्वतन्त्राः लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ इति । चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयतीति । पठितशब्दापेक्षः समुच्चय इति भावः ॥